________________
(३७०)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डेजायते । इत्यस्याध्याहारं विनैव 'दण्डं विना न घटः । इति प्रयोगोपपत्तिः। 'रासभं विना घटः' इत्यादौ च विनार्थस्याभावस्य सामानाधिकरण्यसंबन्धेन घटादावन्वयः ।
दीधितिकृतापि " अविनाभावो व्याप्तिः " इत्यत्र 'साध्यं विना साध्याभाववति योऽभावः' इति यद् व्याख्यातं तत्र सप्तम्यन्तेन मतुपा संसर्गविधया भासमानं तदधिकरणनिष्ठत्वमेवोपात्तं न तु विनार्थत्वेनाधिकरणम्, अभावाधिकरणपर्यन्तस्य विनार्थत्वेपि सप्तम्याऽऽधेयत्वरूपाऽपदार्थविवरणरूपताया
आवश्यकत्वात् । भावो नास्ति अन्यथा दण्डाभाववति घटाभाव एव स्यान्न तु घटोपि न चैवमस्ति-दण्डाभाववति देशे काले च घटस्याप्युपलब्धेस्तथापि घटाभावदण्डाभावयोः प्रयोज्यप्रयोजकमावस्त्वस्त्येव तथा च दण्डाभाववति घटादेवृत्तावपि घटस्य सत्त्वेपि घटाभावदण्डाभावयोः प्रयोज्यप्रयोजकभावस्वीकारात 'दण्डं विना न घटः' इति प्रयोग उपपद्यते तत्रोक्तरीत्या 'जायते' इति पदस्याऽध्याहारापेक्षापि नास्तीत्यर्थः । रासममिति–'रासभं विना घटः' इत्यत्र यस्मिन् देशे काले वा रासभाभावो भवति तस्मिन् घटोपि संभवत्येवेति रासभाभावघटयोः सामानाधिकरण्यं प्राप्तमिति तेन सामानाधिकरण्येन रासभाभावस्य घटेऽन्वय इति रासभाभावविशिष्टो घटः' इत्यत्र शाब्दबोधाकार इत्यर्थः ।
विनापदार्थोऽभाव एव नत्वऽभाववान्(अभावाधिकरणम् )इत्यत्र दीधितिकारं प्रमाणयति-दीधितिकृतापीति, विनापदघटितस्याविनाभावपदस्य साध्यं विना-साध्याभाववति योऽभावः स व्याप्तिः इतिव्याख्यायां साध्याभाववतीति सप्तम्यन्तेन मतुपा हेत्वभावस्य यत् तदधिकरणनिष्ठत्वम् साध्याभावाधिकरणनिष्ठत्वमुपात्तम् उक्तं तत् संसर्गविधयैव भासमानमुपात्तम् अर्थात् तत्रोक्तं हेत्वभावे साध्याभावाधिकरणनिष्ठत्वं संसर्गविधयैव भासते न तु साध्याभावाधिकरणं विनार्थत्वेन विनापदार्थत्वेनोपात्तम्. अर्थात् साध्याभावाधिकरणम् साध्याभाववान् विनापदार्थो नोक्त इति नाऽभाववान् विनापदार्थः किं त्वऽभाव एवेत्यर्थः । हेत्वभावे साध्याभावववृत्तित्वसंसर्गेण हि साध्याभावव. तोन्वयो विज्ञेयः । ननु दीधितिकृता 'साध्यं विना' इत्यस्य 'साध्याभाववति' इति व्याख्या कृता तत्र विनिगमनाविरहात् स्वारस्याच्च विनापदस्याऽभाववान् एवार्थ इति दीधितिकारेष्टं प्रतीयते, अन्यथा 'साध्यं विना' इत्यस्य 'साध्याभाववति' इतिव्याख्यायां मतुपाऽपदार्थस्यैव विवरणं कृतमित्यापद्येत मतुबर्थाधिकरणस्थाऽपदार्थत्वापत्तेः 'साध्यं विना' इत्यस्य साध्याभावमात्रार्थकत्वासंभवादित्याशङ्क्याह-अभावाधिकरणेति, अभाववतो विनार्थत्वस्वीकारेण अभावाधिकरणपर्यन्तस्य साध्याभाववतीतिपदघटकस्य साध्याभाववत् इत्यस्यापि विनापदार्थत्वे स्वीकृते साध्याभावावत्पदोत्तरसप्तम्या यदाऽऽधेयत्वरूपस्यार्थस्य विवरणं कृतं तत्तु कस्यापि पदस्य नार्थ इत्यऽपदार्थ एवेत्युक्तायाम् “साध्याभाववति" इति व्याख्यायामपदार्थविवरणत्वं त्वावश्यकमेव
"Aho Shrutgyanam"