________________
विनापदार्थविवेचनम् ] व्युत्पत्तिवादः। न गन्धः' इत्यऽप्रयोगादुपलक्षणीभूतधर्मावच्छिन्ने न नअर्थाभावान्वय इतिव्युत्पत्तेरिति । — रासभं विना न घटोत्पत्तिः ' इति न प्रयोगः- अतिप्रसक्ततया रासभाभावस्य घटोत्पत्त्याद्यभावानुयाोगतावच्छेदकताविरहात् ।
अथ वाऽभाव एव विनार्थः, 'दण्डं विना न घटः' इत्यादौ च विनान्तार्थस्याभावस्य नञर्थे घटाद्यभावे प्रयोज्यतासंबन्धेनैवान्वयः । अत एव — रासभं विना न घटः' इत्यादयो न प्रयोगाः । अत एव दण्डाद्यभाववति घटादेर्वृत्तावपि वस्य कथमुक्तं कालत्वादेर्वा द्रव्यत्वादेर्वा कथं नोक्तम्-घटोत्पत्त्यभावविशिष्ट देशे काले च द्रव्यत्वादेरपि सत्वादित्याशङ्कयोक्ते दण्डाभावस्यावच्छेदकत्वे हेतुमाह- द्रव्येति, 'द्रव्ये न गन्धः । इति प्रयोगो न भवति द्रव्यभूतपृथिव्यां गन्धस्य सत्त्वादेवेत्युपलक्षणीभूतो यो जलादीनां धर्मो द्रव्यत्वं तदवच्छिन्ने नत्रर्थाभावान्वयो न भवतीति व्युत्पत्त्या युथा तत्र जलत्वाद्यवच्छिन्ने एवं गन्धाभावस्यान्वयो भवति न द्रव्यत्वावच्छिन्ने एवमत्रापि नामावस्योपलक्षणीभूतं यद् द्रष्यत्वादि तदवच्छिन्नेऽन्वयो न भवति किं त्वनतिप्रसक्तदण्डाभावविशिष्ट एवेति दण्ड्यभावस्य घटोत्पत्त्यभावानुयोगितावच्छेदकत्वमुक्तमित्यर्थः । 'दण्डं बिना न घटोत्पत्तिः' इत्यत्र दण्डाभावस्यानुयोगितावच्छेदकत्वस्वीकारस्य फलमाह- रासममिति, रासभाभावस्य घटोत्पत्तिस्थलेपि संभवात् घटोत्पत्त्यभावेन सह नियतत्वाभावाचातिप्रसक्तत्वमस्ति. अतिप्रसक्तस्य चावच्छेदकत्वं न भवतीति रासभाभावस्य घटोत्पत्त्यभावानुयोगितावच्छेदकत्व न संभवतीति — रासभं विना न घटोत्पत्तिः' इति प्रयोगो न भवति, विनान्तार्थघटकामावस्योक्तानुयोगितावच्छेदकत्वसंभवे एवैवंप्रयोगसंभवादित्यर्थः ।।
पक्षान्तरमाह- अथ वेति, अभाव एव विनापदार्थो न स्वभाववान्, तथा च 'दण्डं विना' इत्यस्य दण्डाभाव एवार्थस्तस्य च दण्डाभावस्य नार्थे घटाभावे प्रयोज्यतासंबन्धेनान्वयः- घटाभावे दण्डाभावप्रयोज्यत्वस्य सत्त्वादित्यर्थः । अत एवेति- घटाभावदण्डामावयोस्त्र प्रयोज्यप्रयोजकमावमानादेव 'रासमं विना न घटः' इति प्रयोगो न भवति, घटामावस्य रासभाभावप्रयोज्यस्वाभावाद् रासभाभावेपि घटोत्पत्तिसंभवादित्यर्थः । अत एवेति- घटामावदण्डाभावयोः प्रयोज्यप्रयोजकमावभानादेव दण्डाद्यमाववति देशे काले वा घटादेः सत्त्वेपि 'जायते । इत्यस्य पदस्याध्याहारं विनापि 'दण्डं विना न घटः ' इति प्रयोग उपपद्यते, अन्यथा यदि घटाभावदण्डाभावयोः परस्परं प्रयोज्यप्रयोजकमावभानं न स्यात् किं तु घटोत्पत्त्यभावदण्डाभावयोरेव प्रयोज्यप्रयोजकभावभानं स्यात्तदाऽभावप्रतियोगिभूतोत्पत्तिबोधकम् जायते ' इति पदं विना 'दण्ड विना न घटः' इति प्रयोगो न स्यात्-प्रतियोगिभूतपदार्थोपस्थिति विना तदभावबोध'नासंभवादिति 'जायते' इतिपदस्याऽध्याहारः कर्तव्यः स्यादेव यदा च घटाभावदण्डाभावयोरपि प्रयोज्यप्रयोजकमावः स्वीकृतस्तदा तूत्पत्तिपदार्थोपस्थापकस्य 'जायते' इतिपदस्यापेक्षा. ऽभावान्न तदध्याहारापेक्षेत्यर्थः । दण्डाद्यभावक्तीत-यद्यपि घटाभावदण्डामावयोः कार्यकारण
"Aho Shrutgyanam"