________________
( ३६८ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
८
त्वमनुयोगित्वं वार्थः । अभाववतश्चोत्पत्तावाऽऽधारत्वेनान्वयः । तथा च ' दण्डीभाववद्वत्युत्पत्तिकत्वाभाववान् घटः १ रासभाभाववद्वृत्त्युत्पत्तिको वटः इत्याकारको बोधः । यद्यपि निपातार्थे नामार्थस्य साक्षादपि भेदान्वयस्तथापि संभवति सार्थकत्वे विभक्तेर्निरर्थकत्वमनुचितमिति द्वितीयायाः सार्थकत्वमुपेयते ।
6
८
L
भूतले न घटः ' चन्द्र इव मुखम् ' इत्यादौ प्रथमायाः प्रतियोगिताद्यर्थकत्वे प्रथमैव न साधुः स्यात्- प्रातिपदिकार्यान्वयिनोऽन्यपदेनाभिधानस्थले एक प्रातिपदिकार्थ " इत्यादिसूत्रेण प्रथमाविधानादिति तत्र प्रतियोगित्वादिः संबन्धविधयैव भासते इत्युपेयते ।
66
दण्डं विना न घटोत्पत्तिः ' इत्यादौ च विनान्तार्थे घटोत्पत्त्याद्यभावान्ययेऽनुयोगविशेषणदण्डाद्यभावस्य च तदनुयोगितावच्छेदकत्वं भासते- ' द्रव्ये देशस्य वोत्पत्तावाधारत्वेन रूपेणान्वयः देशकालयोरेवोत्पत्त्याऽऽधारयात्, तथा चात्र दण्डस्याभावेsभावस्य काले कालस्योत्पत्तौ उत्पत्तेर्नञर्थाभावे तस्य घटेऽन्वयः । स्वयमेव वाक्यार्थमाहतथा चेति, दण्डाभाववान् यः कालो देशो वा तद्वृत्तिर्योत्पत्तिस्तादृशोत्पत्त्यमाववान् घट इत्यर्थः । तथा रासभाभाववान् यः कालो देशो वा तद्द्वृत्त्युत्पत्तिमान् घट इत्यर्थः । यद्यपीति -- यद्यपि निपातार्थ नामार्थयोः साक्षादपि भेदान्त्रय इष्ट एवेत्यत्र प्रतियोगित्वस्य द्वितीयार्थत्वाभावेपि तेन संबन्धेन निपातार्थे = विनापदार्थाभावे नामार्थस्य दण्डस्य भेदान्वयः साक्षादपि संभवति तथापि विभक्तेः सार्थकत्वे संभवति सति निरर्थकत्वमनुचितमेवेति प्रतियोगित्वस्य द्वितीयार्थत्वमुक्तं तथा च दण्डस्य द्वितीयार्थे तस्य च विनापदार्थघटकाभावेश्वयः कर्तव्य इत्यर्थः ।
ननु यथा
८
दण्डं विना न घट: ' इत्यत्र द्वितीयायाः प्रतियोगित्वार्थकत्वं स्वीकृतं तथा भूतले न वट: ' इत्यत्रापि भूतले घटप्रतियोगिक एवाभावः प्रतीयते इति प्रथमाया अपि प्रतियोगित्वार्थकत्वं स्वीक्रियतामित्याशङ्क्याह- भूतल इति । चन्द्र इव मुखम् ' इत्यत्र चन्द्रप्रतियोगिकसादृश्यवन्मुखमित्यर्थः, साधुत्वाभावे हेतुमाह - प्रातिपदिकार्थेति, अभिहिते कर्मणि कर्तरि च प्रथमा भवतीति प्रातिपदिकार्थे घटादावऽन्वयिनः कर्मत्वादेरऽन्यपदेनाख्यातप्रत्ययेनामिधानस्थले एव " प्रातिपदिकार्थे " इति सूत्रेण प्रथमा भवतीति प्रतियोगित्वस्य प्रथमयैवाभिधाने प्रथमाया: साधुत्वं न स्यादिति तत्र - ' भूतले न घट:' इत्यादौ प्रतियोगित्वस्य संबन्धविधयैव भानं संभवति न तु प्रथमार्थत्वेनेत्यर्थः । तत्र=अत्र |
दण्डमिति -- ' दण्डं विना न घटोत्पत्तिः ' इत्यादौ विनान्तार्थे = दण्डाभाववति काले देशे वा घटोत्पत्त्यभावस्यान्वये कृते सति = वटोत्पत्त्यभावविशिष्टो दण्डाभाववान् काल इत्यत्र घटोपत्त्यभावस्य दण्डाभाववान् काल एवानुयोगी तादृशानुयोगिविशेषणतां प्राप्तस्य दण्डाभावस्य ( दण्डाभाववति दण्डाभावस्य विशेषणत्वात् ) तदनुयोगितावच्छेदकत्वम् = घटोत्पत्त्यभावानुयोगितावच्छेदकत्वं भासते इत्यर्थः । नन्वत्र घटोत्पत्त्यभावानुयोगिताया अवच्छेदकत्वं दण्डाभा
6
7
"Aho Shrutgyanam"