________________
विनापदयोगेद्वितीयार्थ: ] व्युत्पत्तिवादः।
(३६७) तायावृत्तित्वं च स्ववृत्तित्वस्वनिरूपकहोमकनिष्ठभेदप्रतियोगिकर्तृकहोमाधिकरणतावृत्तित्वोभयसंबन्धेनाऽधिकरणताविशिष्टान्यत्वरूपमऽनुगतं बोध्यम् ।
'मासमधीते' इत्यादावपि. चैत्रादिकर्तृकाध्ययनाधिकरणतात्वरूपव्यापकतावच्छेदकधर्मस्योक्तानुगतरूपेणैवानुगमः कार्यः । अतो मासमधीयानो दृष्टः' इत्यादी विशिष्य चैत्रत्वाद्यनुपस्थितावपि नान्वयबोधानुपपत्तिः । अन्यत् स्वयमूहनीयम् ।
‘दण्डं विना न घट उत्पद्यते ' 'रासभं विनापि घट उत्पद्यते' इत्यादौ विनापदार्थोऽभाववान् । तत्पदसमभिव्याहृतद्वितीयाया अभावान्वयिप्रतियोगिच्छिन्नव्यापकतानां विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयेपि संभवात् तदवृत्तित्वं कथं स्यादित्याश
य विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्तित्वस्य स्वरूपमाह-तादृशाधिकरणताद्वयावृत्तित्वं चेति, स्त्रं तादृशहोमाधिकरणताः तवृत्तित्वं पुनरपि स्वं होमाधिकरणता तन्निरूपको यो होमस्तादशहोमकर्तनिष्ठो यो भेदः मासामिहोत्रहोमविशेषकर्ता : नेतिमेदस्तादृशभेदप्रतियोगी यो मासाग्निहोत्रहोमविशेषकर्ता तत्कर्तृको योऽन्यहोमस्तादृशहोमाधिकरणतायां वृत्तित्वं चैतदुभयसंबन्धेनाधिकरणताविशिष्टा या व्यापकता विभिन्न पुरुषकर्तृकहोमाधिकरणताद्वयवृत्तिव्यापकता तादृशव्यापकताभिन्नत्वमेव तादृशाधिकरणताद्वयाऽवृत्तित्वस्यानुगतं रूपं बोध्यमित्यन्वयः । तथा चेतादृशव्यापकता एकपुरुषकर्तृकसकलमासनिष्ठहोमाधिकरणतायामेव संभवति नान्यत्रेति पुरुषद्वयकृतमासव्यापकोक्तानिष्टहोमस्थले श्रुतेर्न चरितार्थतेत्यर्थः । अत्र " वृत्तिधर्मत्वेन " इत्यत्र “वृत्तित्वधर्मेण । इत्येवं पाठो युक्तः, वप्रत्ययस्य च 'अवृत्ति-वृत्ति । इत्युभयत्रैवान्वयः । ." उपसद्भिश्चरित्वा मासमेकममिहोत्रं जुहोति' इत्यत्र मीमांसकैस्तु उपसन्मासाभ्यां विशिष्टस्य नित्याग्निहोत्रातिरिक्तकर्मान्तरस्य विधान प्रतिपाद्यते इति ध्येयम् ।
मासमधीत इति- चैत्रादिकर्तृकाध्ययनाधिकरणतात्वरूपो यो व्यापकतावच्छेदकधर्मस्तस्याप्युक्तानुगतरूपेण विभिन्नपुरुषकर्तृकाध्ययनाधिकरणताद्वयावृत्तित्वचैत्रकर्तृकाध्ययनाधिकरणतामा. त्रवृत्तित्वरूपेणाऽनुगतेनानुगमः कार्यः तादृशानुगतधर्मावच्छिन्नव्यापकतायाश्च संसगकोटौ प्रवेशः कार्य इति 'मासमधीयानो दृष्टः' इत्यादौ विशेषरूपेण चैत्रत्वाद्यनुपस्थितावपि न शान्दबोधानुपपत्तिः- चैत्रत्वावच्छिन्नचैत्रकर्तृकाध्ययमाधारतात्वविशिष्टव्यापकतायाः संसर्गकोटौ प्रवेशेन तद्विशेषणीभूतचैत्रत्वादीनामुपस्थित्यऽपेक्षाभावादित्यर्थ: । द्वितीयार्थाध्ययनाधारत्वे उक्तव्यापकतासंबन्धेन तत्तन्मासत्वादिव्यक्तीनामन्वयः कर्तव्य इति पूर्वमेव ( ३६२ ) प्रतिपादितम्।
विनापदसमभिन्याहृतद्वितीयाया अर्थ प्रतिपादयितुमारभते- दण्डं विनेति, " विनापदार्थोंsशाववान् " इत्यत्राभाववत्पदेन देशो. कालो वा ग्राह्यः, अभावश्च द्वितीयाप्रकृत्यर्थदण्डादीनां ग्राह्यः । तत्पदम् विनापदम् । प्रतियोगित्वमनुयोगित्यं वा द्वितीयार्थस्तत्र प्रतियोगित्वस्य निरूपकत्वसंबन्धेनाऽनुयोगित्वस्य चाश्रयतासंबन्धेनाऽभावान्वयित्वं ज्ञेयम्, अमाववतः कालस्य
"Aho Shrutgyanam"