________________
( ३६६ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे -.
तया भानं तत्र विधेयविशेषणभेदेपि विशिष्टनिष्ठ विधेयत्वाभेदेन वाक्यभेदविरहात्, अन्यथा ' भूतलं नीलवटवत् ' इत्यादावपि 'नीलवद् घटवत् ' इत्यादाविव वाक्यभेदप्रसङ्गात् । अनुवाद्यांशे विशेषणतया यत्रानेकेषां विधानं तत्र तेषां विधेयता भिन्नैवेति वाक्यभेदः ।
यद्यपि तत्रोपसच्चरुकरणको माधिकरणतात्वेन वाऽधिकारिविशेषकृततादृश- होमधिकरणात्वेन वा मासैकव्यापकता मासन्यूनकालहोतृकृतहोमाधिकरणतायामप्यन्यान्यदिने पुरुषान्तरकर्तृकहोमाधिकरणतासत्त्वेनाक्षतैव, तत्तत्पुरुषकdकतादृश होमाधिकरणतात्वेन व्यापकतायाः श्रुतितात्पर्यविषयत्वे च विधेयानन्त्यम्, तथापि विभिन्नपुरुषकर्तृकहोमाधिकरणताद्वयावृत्ति- तादृशचरुहोमाधिकरणतामात्रवृत्तिधर्मत्वेनाऽनुगतीकृत्य तत्तत्पुरुषकर्तृकतादृशचरुहोमाधिकरणतात्वावच्छिन्नव्यापकतानां संसर्गविधया विवक्षितत्वान्न दोषः । तादृशाधिकरण
"णानां भेदेपि विशिष्टस्य भेदाभावेन तद्गतविधेयत्वस्यैक्याच्च न विशिष्टविधाने वाक्यभेदप्रसङ्ग इत्यर्थः । विपक्षे बाधकमाह - अन्यथेति, यदि विशिष्टविधानेपि वाक्यभेदः स्यात्तदा 'नीलवद् घटवत् ' इत्यत्र यथा वाक्यभेदोस्ति तथा ' नीलघटवत् ' इति विशिष्टविधानेपि वाक्यभेदः - स्यात् न चैतदिष्टमित्यर्थः । वाक्यभेदस्थलमाह-- अनुवाद्येति, यत्रै प्रधानमनूद्य तद्विशेषणत्वेनानेकेषां द्रव्यादीनां विधानं भवति तत्र विशिष्टविधानाभावात् प्रतिविशेषणनिष्ठविधेयतायाश्च भेदाद् -वाक्यभेदो भवतीत्यर्थः । अथेत्यारभ्यायं पाठः प्रक्षिप्त एव ।
यद्यपीति-यद्यपि तत्र=मासाग्रिहोत्रस्यले मासापेक्षया चैत्रेण न्यूनकालेपि होमे कृते तत्कालअधिकारि विशेषवृत्तितादृशहोमाधिकरणतायामुपसच्चरुकरणकहोमाधिकरणतात्वेन रूपेण वा
कृत = उपसहोमकारिकृतहोमाधिकरणतात्वेन रूपेण वा मासव्यापकताऽक्षतैव मासेऽन्यान्यदि· ने=चैत्रकर्तृकहोमहीनदिनेषु मैत्रादिकर्तृकहोमाधिकरणतायाः सत्त्वात् चैत्रकर्तृकस्य मैत्रादिकर्तृकस्य च होमस्य तुल्यत्वात्, यदि चत्रादिरूपेककर्तृकर्तृकहोमाधिकरणतायां मासव्यापकता श्रुतितात्पर्यविषयीभूता स्यात्तदाऽन्यान्यदिने मैत्रकर्तृकहोमेन चैत्रकर्तृकहोमस्य मासव्यापकत्वापत्त्यभावेपि होमकर्तृभूत चैत्रादिपुरुषानन्त्येन होमरूपविधेयानन्त्यं स्यात् तत्तु नेष्टम्, तथापि धर्मत्वेन = विभि·न्त्र पुरुषकर्तृकहोमाधिकरणताद्वयाऽवृत्तित्वे सति यस्तादृशचरुहोमाधिकरणतामात्रवृत्तित्वं धर्मस्तेन रूपेण होमाधिकरणतात्वावच्छिन्नव्यापकतानामनुगमं कृत्वा चैत्रादिरूपतत्तत्पुरुष कर्तृकतादृशचरुहोनाधिकरणतत्वावच्छिन्नव्यापकतानां संसर्गविधया = होमप्रतियोगिकमास वृत्तिहोमा धिकरणतानुयोगिकसंसर्गविधया= ( मासव्यापक हो माधिकरणतायामेतादृशव्यापकतासंबन्धेन होमान्वयः ) संसर्गत्वेन विवक्षितत्वान्न दोषः कर्तृभूत चैत्राद्यनन्तव्यक्तीनां संसर्गकोटौ प्रवेशेन तदुपस्थित्यपेक्षाभावात् चैत्रादिभेदेन होमरूपविधेयानन्त्यप्रसङ्गो नास्तीत्यर्थः । होमाधिकरणतात्वाव-
"Aho Shrutgyanam"