________________
मासाग्निहोत्रश्रुतिविचारः ]
व्युत्पत्तिवादः ।
( ३६५ )
पूर्वपक्षो निरस्त:- " यावज्जीवम् इत्यादिश्रुत्या यावज्जीवव्यापकत्वे वोधि-तेर्थतो मासैकव्यापकतालाभेप्युपसञ्चरुकरणकत्वविशिष्टहोमे तन्मात्रव्यापकताया अलाभेन तस्यापि विधेयतया वाक्यभेदस्य प्राप्ताग्रिहोत्रानुवादेन द्रव्यविधिपक्षे दुर्वारत्वात् ।
अथ तादृशश्रुतेर्द्रव्यका लोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्य विधायकत्वेपि न कथं वाक्यभेदः ?- विधेयभेदस्यैतावताप्यऽपरिहारात्.. प्रत्युत धर्मिणोप्यधिकस्य विधानात् एवं च
46
77
प्राप्ते कर्मणि नानेको विधातुं शक्यते गुणः । अप्राप्ते तु विधीयन्ते बहवोप्येकयत्नतः ॥
77
इत्यपि नियुक्तिकामेति चेत् ?, न-यत्र विधेयांशेः युगपदनेकधर्माणां विशेषण
$6
निरस्तत्वे हेतुमाह- यावज्जीवमिति, " यावज्जीवम् " इतिश्रुत्या होमस्य यावज्जीवकालव्यापकत्वे बोधिते यद्यपि यावज्जीवाग्निहोत्रेऽर्थत एकमासव्यापकतापि लभ्यते एव तथापि " मासमेकम् " इतिश्रुत्युक्तहोमे तन्मात्रव्यापकता = एकमासमात्रव्यापकता न लभ्यते उपायाभावाद् अनुवादेन च यावज्जीवकालस्यैवानुवादसंभवादिति " मासमेकम् " इति श्रुत्या तस्यापि=एकमासमात्रकालस्यापि विधानं कर्तव्येमेवेति कालद्रव्ययोरुभयोर्विधाने प्राप्ते वाक्यभेदः स्थादेव तस्मात् मासमेकम् " इतिश्रुतिः कालद्रव्योभयविशिष्टकर्मान्तरस्यैव विधायिका विशिष्टस्य चैक्यान वाक्यभेदः, यदि "मासमेकम् ” इतिश्रुतावेकपदं सार्थकं न स्यात्तदा एतच्छ्रुत्युहोमस्य यावज्जीवकालव्यापकत्वेप्येकमा सव्यापकतालामसंभवात् " यावज्जीवम्” इति श्रुत्युक्तयावज्जीवकालस्यैवानुवादसंभवेन कालविधानापेक्षाया अभावेन द्रव्यमात्र विधानापेक्षाप्राप्तौ द्रव्यमात्रविधाने च वाक्यभेदो न स्यादेवेति पूर्वपक्षः सङ्गत एव स्यात् न निरस्तः स्यात्. एकपदसत्त्वे चैकमासमात्रकालस्यानुवादार्थ लाभाभावात् तद्विधाने द्रव्यविधाने च वाक्यभेदः स्यादेवेत्यगत्या द्रव्यकालविशिष्टकर्मान्तरविधाने प्राप्ते पूर्वपक्षनिरास: संभवतीत्यर्थः ।
ननु तादृशश्रुतेः = " मासमेकम् " इतिश्रुतेर्द्रव्यकालो भय विशिष्टकर्मान्तरविधायकत्वेपि विशिष्टविधाने विशेषणीभूतद्रव्यकालयोरपि विधानापत्त्या वाक्यभेदः स्यादेव, एतावतापि विशिष्टवि धानेनापि । प्रत्युत धर्मिण: होमस्यापि विधानं कर्तव्यमिति त्रयाणां विधानं प्राप्तम्, तथा च प्राप्तकर्मोद्देशेनानेकस्य गुणस्य = अप्रधानस्य विशेषणीभूतस्य द्रव्यादेर्विधानं न संभवति - अनेक विधाने वाक्यभेदप्रसङ्गात् कर्मण्यप्राप्ते स्वऽनेकगुणविशिष्टस्य प्रधानस्य होमादेरेकयत्नतः = एकेन शब्दव्यापारेण ( वाक्येन ) विधानं संभवति. अनेकगुणविशिष्टस्यापि विधेयस्य प्रधानस्यैक्याद् वाक्यभेदप्रसङ्गाभावादित्येतत् " प्राप्ते कर्मणि " इत्यादिना यदुक्तं तदपि नियुक्तिकमेव विशिष्टविधानेपि विशेषणी भूतद्रव्यादीनां विधेयतापत्त्या वाक्यभेदप्रसङ्गस्य गले पतितत्वादित्याशङ्-कते - अथेति । परिहरति-- नेति, विशेषणीभूतद्रव्यादीनां पृथगुवाक्येन विधानाभावाद् विशेष
"Aho Shrutgyanam"