________________
(३६४)
सादर्श:- [ द्वितीयाकारकद्वितीयखण्डे अथाऽत्यन्तसंयोगार्थकद्वितीयाया एकादिपदं विनापि यत्किंचिदेकमासादिव्यापकताबोधकत्वे “उपसद्भिश्चारत्वा मासमेकमग्निहोत्रं जुहोति " इत्यत्रैकपदवैयर्थ्यमितिचेत् ?, न, तत्र मासाधिककालव्यापकत्वेपि मासव्यापकतयाऽधिककालव्यापकस्य होमस्य शास्त्रार्थतावारणायैकपदोपादानात, तथा सति तस्य केवलार्थकतया मासमात्रव्यापकतालाभात् तादृशप्रयोजनोपपत्तेः। अत एव च " यावज्जीवमग्निहोत्रं जुहोति" इतिश्रुतिबोधिताग्निहोत्रानुवादेन सतिलबीहिचरुरूपद्रव्यस्य मासैकरूपकालस्य च विधाने वाक्यभेद: स्यादिति तादृशद्रव्यकालोभयविशिष्टस्य गौणाग्निहोत्रपदप्रतिपाद्यस्य कर्मान्तरस्यैव विधायिका तादृशी श्रुतिरिति सिद्धान्ते यावज्जीवकालान्तर्गतमासरूपकालांशेऽप्यनुवादकतासंभवात् प्राप्ताग्रिहोत्रानुवादेन द्रव्यस्यैव विधानमुचितमिति तु यदा विवक्षितानेकमासेश्वऽध्ययनं भवति तदेव 'प्रतिमासमधीते' इतिप्रयोगो भवतीत्यर्थः ।
ननु यदि 'मासमधीते' इत्यादावेकपदं विनाप्यत्यन्तसंयोगार्थकद्वितीयाया अध्ययनस्यैकमासपत्रव्यापकताबोधकत्वं स्यात्तदा "मासमेकमग्निहोत्रं जुहोति" इत्यत्राप्येकपदं विनापि होमस्य द्वितीयया एकमासमात्रव्यापकत्वं प्राप्नुयादेवेति श्रुतावेकपदं व्यर्थमेव स्यादित्याशङ्कते-अथेति । परिहरति-नेति, होमस्य मासाधिककालव्यापकत्वेपि मासव्यापकत्वं स्यादेव तच्च नेष्टमिति मासाधिककालव्यापकतावारणायैकपदमुपात्तम्, तथा सति-एकपदोपादाने कृते च तस्य-एकदस्य केवलार्थकतया मासमात्रव्यापकत्वे लब्धे तादृशप्रयोजनोपपत्तेः होमस्थ मासाधिककालव्यापकत्ववारणरूपप्रयोजनं संपद्यते इत्यर्थः "तादृशप्रयोजनोपपत्तेः' इत्यत्र "तादृशप्रयोगोपपत्तेः" इत्यपि पाठः । अत एवेति--अत एव एकपदं विना मासमात्रव्यापकताबोधस्यासंभनेनैकपदस्य सार्थकत्वादेव पूर्वपक्षो निरस्त इत्यन्वयः । उपपादयति- यावज्जीवमित्यादिना, " यावजीवम् " इतिश्रुत्युक्ताग्निहोत्रमनूद्य तिलादिद्रव्यस्य मासरूपकालस्य च "मासमेकमग्रिहोत्रम्" इति श्रुत्या विधाने उभयविधानाद्वाक्यभेदः स्यात् स च नेष्ट इति तिलादिद्रव्येण मासरूपकालेन च विशिष्टस्यैव गौणं यदग्निहोत्रपदं तत्प्रतिपाद्यस्य कर्मान्तरस्यैव तादृशी श्रुतिः" मासमेकमग्निहोत्रम् ' इतिश्रुतिर्विधायिकास्तीति सिद्धान्तः, “मासमेकम् " इतिश्रुतिस्थ. मग्निहोत्रपदं न मुख्याग्निहोत्रपरं किं तु मुख्याग्निहोत्रसदृशकर्मान्तरपरमेवेति गौणम् । अत्र च सिद्धान्ते पूर्वपक्षिणोक्तम्- "मासमेकम् " इतिश्रुत्या द्रव्यकालयोरुभयोर्विधानापेक्षव नास्ति येन वाक्यभेदः स्यात् किं तु “ यावजीवम् ” इतिश्रुत्युक्तयावजीवकालान्तर्गतस्यैव मासरूपकालस्य 'मासमेकम्" इतिपदेनानुवादः क्रियते इति न कालविधानापेक्षा किं तु द्रव्यमात्रविधानापेक्षास्तीति द्रव्यमात्रविधाने च न वाक्यभेदप्रसङ्ग इति "मासमेकम्" इति श्रुतिर्न कर्मान्तरविधायिका किं तु “यावजीवम्" इतिश्रुत्युक्ताग्निहोत्रमनूद्य द्रव्यमात्रविधायिकेति पूर्वपक्षो निरस्त इत्यर्थः । अनुवादकतात्र "मासमेकम्" इति श्रुते या। मासरूपकालांशे-मासरूपकालांशविषये । पूर्वपक्ष
"Aho Shrutgyanam"