________________
प्रतिमासमधीते इतिप्रयोगाः व्युत्पत्तिवादः ।
(३६३) मधीते ' इत्यादौ चैत्रीयाध्ययनाद्याधारतात्वं विशिष्यैव संबन्धेऽन्तर्भावनीयम् । मासान्तरनिष्ठताशाभावप्रतियोगितावच्छेदकत्वस्य तादृशधर्मे सत्त्वेपि तत्तन्मासत्वसमानाधिकरणाभावप्रतियोगितानवच्छेदकतादृशधर्म उक्तसंबन्धेन तत्तन्मासत्वाद्यवच्छिन्नस्य यो भेदस्तदाश्रयत्वमक्षतमेवेति यत्किचिदेकमासादिमात्रव्यापकाध्ययनादिस्थलेपि तादृशप्रयोगनिर्वाहः ।
'प्रतिमासमधीते' इत्यादौ प्रत्यादिशब्दानां मासादिपदोपस्थाप्यानुगतरूपावच्छिन्नमासत्वादिमन्निष्ठाभावप्रतियोगितावच्छेदकत्वसामान्याभावघटितव्यापकताबोधकतया यकिंचिदेकमासव्यापकाध्ययनादिस्थले न तादृशः प्रयोगः। तावच्छेदकत्वसंबन्धन धूमविशिष्टं यद् घटत्वं तद्भिन्नधर्म ( वह्नित्वधर्म ) वत्त्वरूपं व्यापकत्वं बह्रौ भवतीत्यन्त्रयः । उक्तभेदाश्रयधर्मस्वरूपमाह-तादृशेति, तादृशधर्म: तत्तन्मासत्वव्यापकतावच्छेदकीभूतो धर्मश्च ( उक्तभेदाश्रयधर्मश्च ) चैत्रीयाध्ययनाधारतात्वरूप एव विशेषरूपेण संबन्धकोटी प्रवेशनीय इत्यन्वयः, तथा च 'मासमधीते' इत्यत्रोक्तव्यापकत्वसंबन्धेन तत्तन्मासत्वविशिष्टा याधिकरणता तादृशाधिकरणता निरूपकं यदथ्ययनं तादृशाध्ययनानुकूलकृतिमांचैत्र इति शाब्दबोधाकारः। यत्र च मासापेक्षया न्यूनकालेऽध्ययनं कृतं तत्र मासे नृत्यादेरपि संभः वेन तदधिकरणताऽभावस्यासंभवादध्ययनाधारत्वे द्वितीयार्थभूते संबन्धभूतमुक्तव्यापकत्वमेव नास्ति वेन तेन संबन्धेनाध्ययनाधारत्वे तत्तन्मासत्वव्यक्तीनामन्वयः स्यात् तथा च मासापेक्षया न्यूनकालाध्ययनस्थले 'मासमधीते' इति प्रयोगापत्तिर्नास्ति । एकमासमात्राध्ययनस्थले 'मासम• धीते' इति प्रयोगस्योपपत्तिं स्वयमाह-मासान्तरेति, मासान्तरनिष्ठो यस्तादृशाभावः अध्यय नाधिकरणताभावस्तत्प्रतियोगितावच्छेदकत्वस्य तादृशधर्मे अध्ययनाधिकरणतात्वे सत्त्वेपि तत्त.. न्मासत्वसमानाधिकरणो योऽभाव:-नृत्याधिकरणता नास्तीत्यभावस्तत्प्रतियोगितानवच्छेदकीभूते ( तत्प्रतियोगितावच्छेदकीभूतं तु नृत्याधिकरणतात्वं ज्ञेयम् ) तादृशधर्मे-अध्ययनाधिकरणतात्वे उक्तसंबन्धेन स्व ( तत्तन्मासत्व) समानाधिकरणव्याप्यवृत्त्यभाव ( नृत्याधिकरणता नास्तीत्यमाव ) प्रतियोगितावच्छेदकत्वसंबन्धेन यस्तत्तन्मासत्वावच्छिन्नः नृत्याधिकरणतात्वधर्मस्तस्य यो भेद उक्तस्तदाश्रयत्वम् (अध्ययनाधिकरणतात्वधर्मे ) अक्षतमेवेति ताशव्यापकत्वसंबन्धेनाध्ययनाधिकरणतायां तन्मासत्वान्वयसंभवाद् यत्किंचिदेकमासमात्राध्ययनस्थलेपि तादृशप्रयोगस्य='मासमधीते' इति प्रयोगस्य निर्वाहः संभवत्येवेति न कोपि दोष इत्यर्थः ।
प्रतिमासमिति-'प्रतिमासमधीते' इत्यत्र प्रतिशब्दस्य मासपदोपस्थाप्यं यन्मासत्वत्वाद्यनुगतरूपावच्छिन्नं मासत्वादि तद्वान् यो मासस्तन्निष्टो योऽभावस्त प्रतियोगितावच्छेदकत्वस्य सामान्याभावेन घटिता अर्थात् मासत्वावच्छिन्ननिष्ठात्यन्ताभावप्रतियोगितानवच्छेदकधर्मवत्त्वरूपा या व्यापकता तद्बोधकत्वमस्तीति यत्किंचिदेकमासमात्रव्यापकाध्ययनस्थले तादृशप्रयोगः'प्रतिमासमधीते' इति प्रयोगो न भवति-मासत्वावच्छिन्नेष्वन्येषु मासेष्वऽध्ययनसंबन्धाभावात् किं.
"Aho Shrutgyanam"