________________
( ३६२ )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
C 7
यभावावच्छेदकत्वम्, व्यासज्यवृत्तेस्त्वतिप्रसक्तस्य तदवच्छेदकत्वमप्रसक्तम्क्षितिजलोभयं गन्धवत् स्नेहगन्धोभयं क्षितौ ' इत्याद्यप्रतीतेः । अथ वा द्वितीयाद्यर्थेऽध्ययनाधारत्वे तत्तन्मासादिरूपप्रकृत्यर्थविशेषणतापन्नतत्तन्मासत्वादिव्यक्तीनां व्यापकता संबन्धेन स्वपारतन्त्र्येण विशेषणत्वमुपेयते, तादृशं च व्यापकत्वं स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसंबन्धेन स्वावच्छिन्नस्य यो भेदस्तदाश्रयधर्मवत्त्वम्. तादृशधर्मश्च 'चैत्रो मासतस्योक्तरीत्यातिप्रसक्तस्याप्याऽऽधेयतावच्छेदकत्वं संभवति 'भूतलं 'घटवत्' इत्यत्र भूतलत्वमप्यऽव्यासज्यवृत्तिधर्मोस्तीति तस्योक्तरीत्यातिप्रसक्तस्याप्याधारतावच्छेदकत्वं संभवति, व्यास - वृत्तिधर्मस्य स्वतिप्रसक्तस्याधारत्वाद्यवच्छेदकत्वं न संभवति, अन्यथा 'क्षितिजलोभयं गन्धवत्' इत्यत्र गन्धनिष्ठाधेयतानिरूपकाधारतावच्छेदकत्वमऽतिप्रसक्तस्यापि व्यासज्यवृत्तिधर्मस्य क्षितिजलोभयत्वस्य स्यात् तथा च 'क्षितिजलोभयं गन्धवत्' इत्यपि प्रतीतिः स्याद् न चैव प्रतीतिर्भवति - गन्धस्य क्षितिमात्रवृत्तित्वस्वीकारात्, व्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्याधेयतावच्छेदकत्वे 'स्नेहगन्धोभयं क्षितौ' इत्यत्र क्षितिनिष्ठाधारता निरूपकाधेयतावच्छेदकत्वमतिप्रसतस्यापि व्यासज्यवृत्तिधर्मस्य स्नेहगन्धोभयत्वस्य स्यात् तथा च 'स्नेहगन्धौ क्षितौ' इत्यपि प्रतीतिः स्याद् न चैत्रं प्रतीतिर्भवति-स्नेहस्य जलमात्रवृत्तित्वेन स्नेहे क्षितिनिष्ठाधारता निरूपकायताया अभावात्, क्षितिजलोभयत्वं हि गन्धाभाववंति जलेप्यस्त्येवेत्यतिप्रसक्तम्, स्नेहगन्धोभयत्वं च क्षित्यवृत्तिस्नेहेप्यस्तीत्यतिप्रसक्तमिति बोध्यम् । तथा च प्रकृते मासत्वमपि त्रिंशदिनेषु व्यासज्य वर्तते अथ च मासापेक्षया न्यूनकालाध्ययनस्थलेऽध्ययनाऽनधिकरण दिनेष्वपि वर्तते इत्यतिप्रसक्तमपीति तत्र मासत्वस्याप्यध्ययनाधारतावच्छेदकत्वं न संभवतीति मासापेक्षया न्यूनकालाध्ययनस्थले 'मासमधीते' इति प्रयोगस्यापत्तिर्नास्तीत्यर्थः ।
पक्षान्तरमाह--अथ वेति, 'मासमधीते' इत्यत्राधिकरणतैव द्वितीयार्थ इति ( ३९८ ) यदुक्तं तत्र द्वितीयार्थाध्ययनाधारत्वे व्यापकतास्त्येवेति तेन संबन्धेन स्वपारतन्त्र्येण = धर्मिपारतन्त्र्येण= मासद्वारा तत्तन्मासादिरूपो यो प्रकृत्यर्थस्तत्र विशेषणतापन्नं यत् तत्तन्मासत्वं तद्व्यक्तीनां विशेषणत्वं स्वीक्रियते इत्यन्वयः । उक्तसंबन्धभूतव्यापकत्वस्य स्वरूपमाह - तादृशमिति, तादृशम् = संबन्धभूतम् । स्वसमानाधिकरणेति-स्वं तत्तन्मासत्वं तत्समानाधिकरणो व्याप्य - वृत्तिः ( मासव्यापकः ) च योऽभावो मासे नृत्याधिकरणता नास्तीत्यभावस्तत्प्रतियोगितावच्छेदकत्वं नृत्याधिकरणता त्वेऽस्तीत्येतादृशेन स्वसमानाधिकरणव्याप्यवृत्त्यभावप्रतियोगितावच्छेदकत्वसंबन्धेन स्वावच्छिन्नम् =तत्तन्मासत्वावच्छिन्नं यन्नृत्याधिकरणतात्वं तस्य ( स्वावच्छिन्नस्थ== नृत्याधिकरणतत्वस्य ) यो भेदस्तदाश्रयो यो धर्मः अध्ययनाधिकरणताखरूपो धर्मस्तद्वत्वमध्ययनाधिकरणतायामस्त्येव नृत्याधिकरणतात्वापेक्षयाऽध्ययनाविकरणतात्वस्य भिन्नत्वादेव, एतादृशभेदाश्रयधर्मवत्त्वमेवात्र व्यापकत्वं प्राह्यम्, यथा धूमसमानाधिकरणात्यन्ताभावप्रतियोगि
f
"Aho Shrutgyanam"