________________
अतिप्रसक्तस्यावच्छेदकत्वविचारः ] व्युत्पत्तिवादः ।
(३६१) चारिण्यतिव्याप्त्या न यतिप्रसक्तमवच्छेदकम् " इति तत्स्थलीयचिन्तामणिपरिष्कारविरोधादऽसंभवदुक्तिकतापत्तेः। आधारताया अतिप्रसक्तधर्मावच्छेद्यत्वे “यत्विधिकरणत्वं साध्याधिकरणतावच्छेदकम्" इतितल्लक्षणव्याख्यापक्षे स्वरूपसंबन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यतिव्याप्त्याऽदूषयित्वा “ विरुद्धदिकालावच्छिन्नवृत्तिकस्य" इत्यादिदूषणान्तरेण तत्परित्यज्य दीधितिकृतामनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया असंगत्यापत्तेः।।
अस्तु वाऽव्यासज्यवृत्तिधर्मस्यातिप्रसक्तस्यापि दर्शितप्रतीतिबलादाधाराधेस्वादिस्यऽतिप्रसक्तधर्मस्यावच्छेदकत्वं न भवतीति न वह्नित्वस्य धूमसामानाधिकरण्यावच्छेदकत्वमिति, मिश्रेण च "साध्यसामानाधिकरण्यावच्छेदकधर्मों व्याप्तिः " इत्यत्र वहिं विनापि निस्तारितवह्निस्थले धूमस्य दर्शनाद् धूमत्वे यद् वह्निसामानाधिकरण्यावच्छेदकत्वं तत्स्वरूपसंबन्धरूपमेवावच्छेदकत्वमस्ति न त्वनतिप्रसक्तत्वरूपमवच्छेदकत्वमित्युक्तं तत्र यद्याधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वमपि स्यात्तदा साध्याधिकरणवृत्तित्वरूपाधेयताया अतिप्रसक्तेनापि धूमवेनोक्तरीत्याऽवच्छेद्यत्वप्राप्त्या 'धूमस्योक्ताधेयतावच्छेदकत्वं यदस्ति तत्स्वरूपसंबन्धरूपमेवास्ति न त्वऽनतिप्रसक्तत्वरूपम् ' इत्याकार कमिश्रकृतनिवेशस्याऽसंभवदुक्तिकतैव स्यात्- आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे उक्तमिश्रकृतनिवेशस्य व्यर्थत्वापातादित्यर्थः प्रतिभाति । अतिप्रसक्तधर्मस्थाऽऽधारतावच्छेदकत्वमपि न भवतीत्पत्र प्रमाणमाह- आधारताया इति । तल्लक्षणेति- “साध्यसामानाधिकरण्यावच्छेदकधर्मो व्याप्तिः" इतिव्याप्तिलक्षणस्य “य त्वधिकरणत्वं साध्याधिकरण: तावच्छेदकम् ” इत्याकारकव्याख्यापक्षे स्वरूपसंबन्धरूपावच्छेदकत्वप्रवेशं व्यभिचारिण्यतिव्याप्या दूषयित्वा वाऽदूषयित्वा वा विरुद्धदिक्कालेत्यादिदूषणान्तरेण स्वरूपसंबन्धरूपावच्छेदकत्वप्रवेशं परि• त्यज्य दीधितिकारेण यदत्र ‘हेत्वधिकरणत्वे साध्याधिकरणतावच्छेदकत्वं यदस्ति तदऽनतिरिक्तवृत्तिस्वरूपन अनतिप्रसक्तत्वरूपमेवास्ति । इत्युक्तं तस्याऽऽधारताया अतिप्रसक्तधर्मावच्छेद्यत्वेऽसंगतिरेव स्यात्- आधारताया अतिप्रसक्तत्रर्मावच्छेद्यत्वे हेत्वधिकरणत्वेऽनतिरिक्तवृत्तित्वरूपावच्छेदकत्वविवक्षाया व्यर्थत्वादित्यर्थः । तथा च प्रकृते मासापेक्षया न्यूनकालाध्ययनस्थलेऽतिप्रसक्तस्य मासत्वस्याध्ययनाधारतावच्छेदकत्वाभावात् 'मासमधीते ' इतिप्रयोगापत्तिरूपोतिप्रसङ्गो नास्तीति भावः । अत्र " चिन्तामणिपरिष्कारविरोधात् " इत्यत्र — चिन्तामणिपरिष्कारस्य च । इत्येवं पाठो युक्त इति संभाव्यते- उक्तमिश्रकृतनिवेशे चिन्तामणिपरिष्कारविरोधासंभवादित्यनुसंधेयम् । उदाहृतवाक्यानां विशेषतोर्थप्रतिपत्तिस्तु तत्तत्संदर्भेगैव संपाद्या । अतिप्रसक्तधर्मस्याधारताद्यवच्छेदकत्वं न भवतीत्ययमेवात्र प्रघट्टकार्थः । वस्तुतस्तु 'मासमधीते । इत्यादिमूलग्रन्थः क्लेशकर एव छात्राणाम् । - 'भूतले घटः ' इत्यादिप्रतीतौ घटत्वादीनामाधेयत्वाद्यवच्छेदकत्वमभ्युपगम्याह-अस्तु वेति, दर्शितप्रतीतिबलात्='भूतले घटः' इत्यादिप्रतीतिबलात् । घटत्वं ह्यऽव्यासज्यवृत्तिधर्मोस्तीति
"Aho Shrutgyanam"