________________
( ३६० )
सादर्श:
[ द्वितीयाकारकद्वितीयखण्डे
न च 'भूतले घटः भूतलं घटवत्' इत्यादि प्रत्ययबलादतिप्रसक्तोपि धर्म आधेयत्वाधारत्वयोरवच्छेदक इति वाच्यम्, तादृशप्रत्ययेऽवच्छेदकत्वभानानुपगमात् । आधेयताया अतिप्रसक्तधर्मावच्छेद्यत्वे साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्तिशरीरे मिश्रादीनां स्वरूपसंबन्धरूपावच्छेदकत्वानेवेशस्य "व्यभिहितमत्यन्तसंयोगार्थपरत्वं नानुपपन्नमिति नोक्तानुशासनविरोध इत्यन्वयः । अर्थतो नामात्र द्वितीयार्थाधिकरणतायामवच्छेद्यत्वसंसर्गेण त्रिंशत्वरूपमासत्वस्योक्तरीत्यान्वयेनार्थादेवाधिकरणतायां व्यापकत्वं मासत्वे च व्याप्यत्वं प्राप्तम् - अन्ययप्रतियोग्यनुयोगिनोर्व्याप्यव्यापकभावसंभवादत्र च मासत्वस्यान्चयप्रतियोगित्वादित्यनुसंधेयम् । अभियुक्तैरप्युक्तम् - " यस्य यन्निष्ठात्रच्छेद्यत्वनिरूपकत्वं तस्य तद्व्याप्यत्वम् इति ।
ननु' भूतले घटः' इत्यत्र घटे वर्तमानाऽऽधेयता वटत्वावच्छिन्नास्ति घटत्वं चैतद्भूतलावृत्तिष्वप्याधेयताशून्येषु वटेषु वर्तत एवेत्यतिप्रसक्तमेव तथापि घटत्वे आधेयतावच्छेदकत्वमस्त्येव तथा 'भूतलं घटवत्' इत्यत्र भूतले वर्तमानाssधारता भूतलत्वावच्छिन्नास्ति भूतलवं चान्येष्वपाचारताशून्येषु भूतलप्रदेशेष्वस्त्येवेत्यतिप्रसक्तस्यापि भूतलत्वस्याधारतावच्छेदकत्वमस्त्येत्र तथा
च
प्रकृतेपि न्यूनकालाध्ययनस्थले तिप्रसक्तस्यापि मासत्वस्याव्ययनाधारतावच्छेदकत्वप्राप्त्या मासापेक्षया न्यूनकालाध्ययनेपि ' मासमधीते । इतिप्रयोगापत्तिरूपतिप्रसङ्गः स्यादेवेत्याशङ्क्याह- न चेति । परिहारमाह- तादृशेति, ' भूतले घटः ' इत्यादिवाक्यजन्यबोधे घटत्वादावाधेयत्वाद्यवच्छेदकत्वस्य मानमेव न भवति येनातिप्रसक्तधर्मस्याधारताद्यवच्छेदकत्वं प्राप्तुयादित्यर्थः । अतिप्रसक्तधर्मस्याऽऽधेयतावच्छेदकत्वं न भवतीत्यत्र प्रमाणमाह- आधेयताया इति, यद्याधेयताया अतिप्रसक्तधर्मेणाप्यवच्छेद्यत्वम् = अवच्छिन्नत्वं स्यात्तदा " व्यभिचारिण्यति - व्याप्त्या न ह्यतिप्रसक्तमवच्छेदकम् " इति तत्स्थलीयचिन्तामणिपरिष्कारविरोधेन साध्यसामानाधिकरण्यावच्छेदकधर्मात्मकव्याप्तिशरीरे मिश्रादीनां स्वरूपसंबन्धरूपावच्छेदकत्व निवेशस्याऽसंभवदुक्तिकता प्राप्नुयादित्यन्वयः, अयमर्थ:- साध्य सामानाधिकरण्यावच्छेदकधर्मो व्याप्तिः " इत्युक्तमऽर्थात् - वह्नयादिसाध्य सामानाधिकरण्यं धूमेस्ति तदवच्छेदको यो धूमत्वरूपो धर्मः स एव व्याप्तिरित्युक्तं तत्र साध्य सामानाधिकरण्यं हि साध्याधिकरणवृत्तित्वमेव वृत्तित्वं चाधेयत्वमेवेति तादृशाधेयतावच्छेदकत्वं धूमत्वस्यैतादृशव्याप्तिलक्षणेन प्राप्तं चिन्तामणिकारेण च 66 साध्यसा - मानाधिकरण्यावच्छेदकधर्मो व्याप्तिः " इत्यत्र व्यभिचारिण्यतिव्याप्या न ह्यतिप्रसक्तमवच्छेदकम् " इत्युक्तम्. अर्थादतिप्रसक्तपि धर्मो यद्यवच्छेदक ः स्यात् तदाऽयोगोलके धूमाधिकरणता नास्ति वयधिकरणता त्वस्त्येवेति धूमसामानाधिकरण्याभाववत्यप्ययोगोलकवृत्तिवह्नौ सत्त्वेन वहित्वमतिप्रसक्तमस्ति कचिन्महानसाद्यन्तर्भावेण च धूमसामानाधिकरण्यावच्छेदकत्वमपि वह्नित्वे प्राप्नोतीति यद्यतिप्रसक्तधर्मोप्यवच्छेदक ः स्यात्तदा वह्नित्वस्यापि धूमसामानाधिकरण्यावच्छेदकत्वात् व्याप्तित्वं स्यात्तादृशव्याप्त्याश्रयश्वाद् वह्नेरपि धूमानुमापकत्वं स्यान्न चैतदिष्टं वह्नेर्धूमव्यभिचारि
"
“
ܕܕ
66
८५
"Aho Shrutgyanam"