________________
मासादिव्यापकत्वविचारः ] व्युत्पत्तिवादः ।
( ३५९ )
षादिरूपोक्तधर्मावच्छिन्नाऽनतिप्रसक्तेन तद्वृत्तित्रिंशत्वेनाऽवच्छेदाद्. न्यूनकालाध्ययनस्थले चातिप्रसक्ततया तादृशस्य मासत्वस्योक्तरूपावच्छिन्नाधारताऽनवच्छेदकत्वाच्चाप्रसङ्गातिप्रसङ्गन्योरनवकाशात् । मासादिपदप्रवृत्तिनिमित्तधर्मे चैत्राध्ययनाधारताया व्याप्यत्वस्य शब्दादलाभेप्यर्यतस्तला भाग द्वितीयाया अत्यन्त - संयोगार्थपरत्वमिति नानुशासनविरोधः ।
तत्र= तदाप्यध्ययनाधारतानां तद्वृत्तित्रिंशत्त्वेन = तन्मासमात्रवृत्तितत्रिंशत्त्येनावच्छेदाद् अप्रसगः = ' मासमधीते ' इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यन्वयः, मासेऽध्ययनाधारतापि वर्तते त्रिंशत्वमपि वर्तते इति त्रिंशत्त्वेनाध्ययनाधारतानामवच्छेदः, किं वा द्वितीयार्थभूताध्ययनाधारतासूक्तावच्छेद्यत्वसंसर्गेण तत्त्रिंशत्त्वस्यान्वयात् तेन त्रिंशत्त्वेनाध्ययनाधारतानामवच्छेदः । तद्वृत्तित्रिंशत्त्वं विशिनष्टि - अवच्छेद्यतेति द्वितीयार्थाधिकरणतायां संसर्गभूतं यद् अवच्छेद्यत्वं वर्तते तस्यावच्छेदकीभूतो योधिकरणतावृत्त्यन्यतमत्व विशेषस्तद्रूपोक्तधर्मेण ( त्रिंशत्त्वेन ) अवच्छिन्नो यो मासस्तदनतिप्रसक्तेन तद्वृत्ति ( तन्मासवृत्ति) त्रिंशत्त्वेनेत्यन्वयः । तन्मासमात्रवृ तित्रिंशत्वं तन्मासातिप्रसक्तं नास्तीति सुस्पष्टम् अनतिप्रसक्तत्वात्तस्य स्वसमानाधिकरणाध्ययनाधारतावच्छेदकत्वं युक्तमेत्र तथा च तत्रिंशत्वं तन्मासमात्रे वर्तते नाधिककाले मासमात्रं चाधीतमेवेत्येक मासमात्राध्ययनस्थलेपि * मासमधीते " इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । अतिप्रसङ्गाभावमाह - न्यूनकालेति यदा हि मासापेक्षया न्यूनकालमऽधीतं तत्र तादृशस्य = त्रिंशत्त्वरूपस्य मासत्वस्याध्ययनकालापेक्षयाऽधिककाले ( सर्वमासे ) वर्तमानत्वेनातिप्रसक्तत्वाद् उक्तरूपेण ( अन्यतमत्वेन ) अवच्छिन्ना याऽध्ययनाधारता तदवच्छेदकत्वं न संभवतीति तादृश स्थळे अतिप्रसङ्गः = मासमधीते ' इतिप्रयोगस्यापत्तिर्नास्तीति न कोपि दोष इत्यर्थः । ननु व्यापकत्वस्य द्वितीयार्थत्वे तु मासादिपदप्रवृत्तिनिमित्तधर्मे मासत्वादौ यत् चैत्रीयाध्ययनाधार - ताव्याप्यत्वं तस्य द्वितीयाविभक्तित एव लाभः संभवति - व्यापकत्वस्य व्याप्यनिरूपितत्वाद् व्याप्यघटितत्वाच्च व्यापकत्वार्थकद्वितीयाया व्याप्यत्वाक्षेपकत्वात् अत्र च पक्षे द्विर्तायाया अधिकरणतार्थकत्वेन तद्वद् व्याप्यत्वाक्षेपकत्वासंभवाद् मासत्वस्याध्ययनाधारताव्याप्यत्वं शब्दतो न प्राप्तमिति " कालांव्वनोरत्यन्तसंयोगे ” इत्यनेन द्वितीयाया यदऽत्यन्तसंयोगार्थ परत्वमुक्तं तदत्र न प्राप्नोति - अत्यन्तसंयोगस्याभिव्याप्तिरूपत्वाद् अभिव्याप्तेश्वोक्तरीत्या व्यापकत्वस्वरूपत्वाद् अध्ययन निष्ठतादृशव्यापकत्वस्य च मासत्वनिष्ठव्याप्यत्वं विनानुपपद्यमानत्वात् तादृशव्यायत्वस्य च केनापि पदेनात्र लाभाभावाद् द्वितीयाया अत्यन्तसंयोगबोधकत्वं न स्यादित्याशङ्क्याह- मासादिपदेति, मासादिपदप्रवृत्तिनिमित्तधर्मे = मासत्वे वा त्रिंशत्त्वे वा. " चैत्राध्ययनाधारतायाः " इति षष्ठ्यर्थो निरूपितत्वमिति मासत्वे चैत्राध्ययनाधारता निरूपितव्याप्यत्वस्य शब्दतो लाभाभावेपि अर्थतः =अर्थात् तल्लामात् = मासत्वेऽध्ययनाधारतानिरूपितव्याप्यत्वस्य लामात् ' मासमधीते ' इत्यादौ द्वितीयायाः " कालाध्वनोरत्यन्तसंयोगे ” इत्यनुशासनवि
"Aho Shrutgyanam"