________________
(३५८)
सादर्श:- [द्वितीयाकारकद्वितीयखण्डे. एवम्- 'मासमधीते चैत्रः' इत्यादावधिकरणतैव द्वितीयार्थः, मासादिपदार्थतावच्छेदकदिनपर्याप्तत्रिंशत्त्वादे(मविशेषणतापन्नस्य द्वितीयार्थाधिकरणतायां चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नं स्वरूपसंबन्धरूपमऽवच्छेद्यत्वं संसर्गतया भासते इत्युपगमेन सामञ्जस्यात्, यत्किंचिदेकमासं व्याप्य यत्राधीतं तत्राऽध्ययनाधारतानामवच्छेद्यतावच्छेदकाधारतावृत्त्यऽन्यतमत्वविशे. बाधकं नास्तीत्यर्थः । मीमांसकमतमाह-मीमांसकेति,संख्यायाः पदार्थान्तरत्वे द्रव्यानात्मकेष्वपि त्रिशदिनेषु संख्यारूपत्रिंशत्त्वस्य सत्त्वे बाधकं नास्तीत्यर्थः । संख्यारूपं यन्नानादिनादिनिष्ठमनुगतं त्रिंशत्त्वं तस्येत्यन्वयः । सुवचत्वात् निरूपयितुं शक्यत्वात् । नानात्रिंशदिनसमुदायभूतमासनिष्ठं संख्यारूपं त्रिंशत्त्वं त्रिंशत्त्वत्वरूपेणानुगतमेव नाऽननुगतमिति न दोष इति भावः ।
'मासमधीते ' इत्यत्र व्यापकत्वस्य द्वितीयार्थत्वमुपवर्ण्य संप्रत्यधिकरणत्वस्य द्वितीयार्थत्वं वक्तुं पक्षान्तरमारभते- एवमिति, अत्र च पक्षे 'मासमधीते ' इत्यस्य ‘मासाधिकरणकाध्ययनकर्ता ' इति शाब्दबोधः । मासादिपदार्थतावच्छेदकं त्रिंशदिनपर्याप्तं यत् त्रिंशत्त्यं तस्य धर्मिविशेषणतापन्नस्य मासरूपधार्मविशेषणीभूतस्य द्वितीयार्थाधिकरणतायामन्वयः कर्तव्यः स चान्वयश्चैत्रकर्तृकाध्ययनाधारतात्वादिव्याप्यधर्मावच्छिन्नस्वरूपसंबन्धरूपावच्छेद्यत्वसंसर्गेण कर्तव्य इत्यन्वयः, मासरूपधर्मिविशेषणतापन्नस्य त्रिंशत्त्वस्य येनावच्छेद्यत्वसंसर्गेण द्वितीयार्थाधिकरणतायामन्वयस्तेनैवावच्छेद्यत्वसंसर्गेण द्वितीयार्थाधिकरणतायां प्रकृत्यर्थस्य मासस्याप्यन्वय इत्यर्थादेव लम्वते, " एकत्र विशेषणत्वेनोपस्थितस्य " इति व्युत्पत्तिविरोधात् मासविशेषणीभूतस्य त्रिंशत्वस्य स्वातन्त्र्येण द्वितीयार्थाधिकरणतायामन्वयो न संभवतीति मासरूपधर्मद्वारान्वयार्थमेव " धर्मिविशेषणतापन्नस्य " इत्युक्तं तथा च नोक्तव्युत्पत्तिविरोधः । चैत्रकर्तृकेति- चैत्रकर्तृकाध्ययनाधारतासु चैत्रकर्तृकाध्ययनाधारतात्वमप्यस्ति अन्यतमत्वमभ्यस्त्येव- नानात्वात नानात्वाकान्तपदार्थेष्वेवान्यतमत्वव्यपदेशात्. तत्राधारतात्वमधिकदेशवृत्तित्वाद् व्यापकम्. अन्यतमत्वं चाल्पदेशवृत्तित्वाद् व्याप्यम्. तथा च चैत्रकर्तृकाध्ययनाधारतात्वापेक्षया व्याप्यो यो धर्मोऽन्यतमत्वं तदवच्छिन्नं स्वरूपसंबन्धरूपं यद् अवच्छेद्यत्वं तद् द्वितीयार्थाधिकरणतायामस्त्येवेति संसर्गतया शाब्दबोधे भासते नाम तेनावच्छेद्यत्वसंसगेंण द्वितीयार्थाधिकरणताया त्रिंशत्वस्यान्वय इत्यर्थः । अत्र “ अवच्छेद्यतावच्छेदकाधारतावृत्त्यन्यतमत्वविशेषादि " इत्यादिवाक्यानुरोधेन व्याप्यधर्मपदेनान्यतमत्वं गृह्यते । भवच्छेद्यत्वं चानतिप्रसक्तत्वरूपमपि भवति स्वरूपसंबन्धरूपमपि भवति तत्र द्वितीयार्थाधिकरणताया अध्यापनादिमासेष्वपि सत्वादनतिप्रसक्तस्वरूपावच्छेद्यत्वस्यासंभवात् स्वरूपसंबन्धरूपमेवावच्छेद्यत्वं ग्रहीतुं शक्यते इत्युक्तं स्वरूपसंवन्धेति । द्वितीयार्थाधिकरणतायामवच्छेद्यत्वमप्यस्ति अन्यतमत्वमप्यस्तीत्यवच्छेद्यत्वं सामानाधिकरण्यादन्यतमत्वावच्छिन्नं जातम् । अत्र द्वितीयार्थाधिकरणतायां त्रिंशत्त्वस्योक्तावच्छेद्यत्वसंसर्गेगान्वयात् त्रिंशत्त्वावच्छिन्नपूर्णमासाधिकरणकत्वमध्ययने प्राप्नोति स एव मासमधीते' इत्यस्यार्थः।
उक्तस्य फलमाह-यत्किंचिदिति, यत्रयदा यत्किंचिदेकमासम्-एकमासमात्रं व्याप्याधीतं
"Aho Shrutgyanam"