________________
मासादिविचारः ]
व्युत्पत्तिवादः ।
सत्यम् - मासादिघटकतावदिनादिनिष्ठत्रिंशत्त्वादिरूपमासत्वादिर्मासादिभेदेननानैव, मासादिपदप्रवृत्तिनिमित्तता परमनुगतरूपेण, अन्यथा शक्त्यानन्त्यमसङ्गात्, सर्वोपसंहारेण व्युत्पत्ति विना प्रागप्रतीतमासादेः शाब्दानुभवाऽनिर्वाहाच । न च त्रिंशत्त्वादिकं बुद्धिविशेषविषयत्वरूपं वाच्यम्- दिनादेर्द्रव्यानात्मकत्वेन तत्र गुणरूप संख्याया असंभवात्, द्रव्यात्मकत्वेपि क्रमिकेषु तेषु संख्योत्पतेरसंभवात्, तत्र बुद्धेरनतिप्रसक्तं वैलक्षण्यमनुगतं दुर्वचम् - जातिरूपस्य तस्य संकरप्रसङ्गनिरस्तत्वात्, तत्तद्दिनविषयकत्वरूपस्य तत्तद्दिनाद्यननुगमेनाऽननुगतत्वादिति वाच्यम्, तावत्कालस्थायिनो द्रव्यस्यापि दिनादिरूपत्वसंभवात् । मीमांसकानुयायिभिरगत्या संख्यायाः पदार्थान्तरत्वोपगमाच्च संख्यादिरूपनानादिनादिनिष्ठानुगतत्रिंशत्वादेः सुवचत्वात् ।
( ३५७ )
अथेत्यादिनाऽऽशङ्कितस्योत्तरमारभते- सत्यमित्यादिना, मासान्तरेऽध्ययनाभावेऽध्यय'नस्य मासत्वावच्छिन्नव्यापकत्वं न संभवतीति यदुक्तं यद्यपि तत्सत्यं तथापि सकलमासेष्वेकं मासत्वं न स्वीक्रियते येनैषानुपपत्तिः स्यात् किं तु मासत्वस्य संख्यारूप त्रिंशत्त्वरूपत्वेन तादृशत्रिंशत्वस्य प्रत्येक मासभेदेन भेदसंभवात् प्रतिमासं मासत्वं भिन्नमेवेत्येकमासमात्राध्ययनस्थ लेप्य`ध्ययनस्य मासत्वावच्छिन्नग्यापकत्वलाभात् ' मासमधीते ' इतिप्रयोगे न काप्यनुपपत्तिरित्यर्थः । नन्वेवं मासपदशक्त्यानन्त्यं स्यादित्याशङ्क्याह- मासादिपदेति, अनुगतरूपेण = मासत्वत्वेन रूपेण | परमिति त्वर्थकः । मासत्वत्वस्य प्रवृत्तिनिमित्तत्वस्वीकारे हेतुमाह- सर्वेति, सर्वोपस'हारेण व्युत्पत्ति विना--सकलमासविषयकशक्तिग्रहं विना प्रागप्रतीतमासादे: भविष्यन्मासादेः शाब्दबोधविषयश्वासंभवात् । ननु संख्यादिरूपो गुणो द्रव्ये एव संभवति नाद्रव्ये दिने च क्रियाप्रचयरूपत्वात् न द्रव्यभूतमिति दिनेषु मासत्वरूपत्रिंशत्त्वस्य संख्यारूपस्य संभवाऽभावात् त्रिंशत्त्वं बुद्धिविशेषविषयत्वरूपम् ( अयमेको यमेक इत्याद्यपेक्षाबुद्धिविषयत्वरूपम् ) वाच्यम् = स्वीकार्यम्, दिनानां कालस्वरूपत्वेन द्रव्यात्मकत्वपक्षेपि त्रिंशदिनानामेकदा सत्त्वं न संभवति यत्र त्रिंशत्त्वसंख्याया उत्पत्तिः संभवेत् तस्मादपि त्रिंशत्वं बुद्धिविशेषविषयत्वमेव वाच्यम्, ननु तत्र 'मासमधीते ' इत्यत्र त्रिंशद्दिनेषु या त्रिंशत्त्वबुद्धिर्भवति तादृशबुद्धेरनतिप्रसक्तं यत् किमपि बैलक्षण्यं त्रिंशद्दिनमात्र पर्याप्तं तदेव त्रिंशत्वमिति वक्ष्यामो न तु बुद्धिविशेषविषयत्वं त्रिंशत्त्वमित्याशङ्क्याह- तत्रेति, एतादृशं वैलक्षण्यमनुगतं दुर्वचमेवेत्यर्थः, दुर्वचत्वे हेतुमाह- जातीति तादृवैलक्षण्यस्य जातिरूपत्वमपि वक्तुं न शक्यते केनापि धर्मेण तस्य सांकर्यं स्यादेव सांकर्ये च जातित्वं न संभवति तत्तद्दिनविषयकत्वरूपत्वमपि न वक्तुं शक्यते- तत्तद्दिनानामननुगमेन तद्घटितस्य तत्तद्दिनविषयकत्वस्याप्यननुगमादिति त्रिंशत्त्वादिकं बुद्धिविशेषविषयत्वमेव वाच्यमित्याशङ्क्याह-न चेति । परिहारमाह- तावदिति, तावत्कालस्थायिन:- सूर्योदयावधि सूर्योदयान्तरपर्यस्तस्थायिनः । त्रिंशदिनानां द्रव्यात्मकत्वे तेषु क्रमिकेष्वपि क्रमेण त्रिंशत्त्वरूपसंख्याया उत्पत्तौ
"Aho Shrutgyanam"