________________
सादर्शः- [ द्वितीयाकारकद्वितीयखण्डेन च तादृशवाक्यार्थतात्पर्यमेव संसर्गतात्पर्यम् . उक्तज्ञाने च वाक्यार्थघटक: संबन्धः संसर्गमर्यादयैव भासते इति विशेषरूपेणानुपस्थितस्यैवोक्तधर्मघटितसं. बन्धस्य तात्पर्यज्ञाने बाधाभावबलात् शाब्दबोधे च तात्पर्यज्ञानबलादू भानमनपवादमेवेति वाच्यम्, एकपदार्थविशिष्टापरपदार्थरूपवाक्यार्थविशेषिततत्प्रतीतीच्छारूपतात्पर्यविषयकनिश्चयस्य प्राक् वाक्यार्थानिश्चये दुर्घटतया तस्य शाब्दधीहेतुत्वे च योग्यतासंशयाच्छाब्दबोधानुपपत्तेविंशकालततत्तत्पदार्थतत्तत्संसर्गविषयकत्वविशेषितप्रतीतीच्छाज्ञानस्यैव शाब्दधीहतुताया उपेयत्वात्. तत्र च तादृशसंसर्गोपस्थितेरवश्यापेक्षणीयत्वादिति चेत् ?,
सव्यक्तिनिरूपिताधेयत्वसंबन्धस्य तात्पर्यज्ञाने बाधाभावबलाद् भानमऽनपवादंशाब्दबोधे च तात्पर्यज्ञानबलाद् भानमनपवादमेवेति तद्व्यक्तित्वरूपविशेषधर्मघटितसंसर्गस्याश्रयणेपि तेन संसर्गेण मासपदार्थस्याभावेऽन्वयोपगमेपि च न काप्यनुपपत्तिरित्याशझ्याह-न चेति । परिहारमाहएकपदार्थेति,एकपदार्थविशिष्टो योऽपरपदार्थः स एव वाक्यार्थो भवति तादृशवाक्यार्थविशेषिता या तत्प्रतीतीच्छा वाक्यार्थप्रत्यायनेच्छा तादृशेच्छारूपं यत् तात्पर्य तादृशतात्पर्यविषयकनिश्चयस्थ वाक्यार्थनिश्चयसापेक्षत्वेन वाक्यार्थनिश्चयात् पूर्व दुर्घटतया असंभवात्, वाक्याथबोधो न स्यादेव वाक्यार्थबोधकारणीभूतस्योक्ततात्पर्यनिश्चयस्य वाक्यार्थबोधात्पूर्वमसंभवात् , दोपान्तरमाह- तस्येति, किं चोक्ततात्पर्यनिश्चयस्य शाब्दबोधहेतुत्वस्वीकारे एकपदार्थेऽपरपदार्थवैशिष्ट्यरूपाया योग्यतायाः संशयेपि या शाब्दबोधोत्पत्तिः सर्वशास्त्रसिद्धास्ति सा नोपपद्येत यतस्त्वया ह्येकपदार्थविशिष्टापरपदार्थविषयकतापर्यनिश्चयस्यैव शाब्दबोधहेतुत्वमुक्तं योग्यतापि चैकपदार्थेऽपरपदार्थवैशिष्ट्यमेवेति योग्यतातात्पर्ययोरेकरूपत्वे प्राप्ते तात्पर्यनिश्चये हि योग्यतानिश्चयोपि स्थादेव सर्वत्रेति योग्यतासंशयेन शाब्दबोधस्य कचिदपि प्रसङ्गो न स्यान्न चैतदिष्टं योग्यतासंशयेनापि शाब्दबोधस्वीकारादिति योग्यतासंशयादपि शाब्दबोधोपपत्यर्थं विशकलितं यत् तत्तत्पदार्थविषयकत्वम् ( मासमधीते इति वाक्यमऽध्ययनस्य मासव्यापकत्वबोधकं भवतु इति ) तत्संसर्गविषयकत्वं च ( तन्मासव्यक्तिनिरूपिताधेयत्वसंसर्गबोधकं भवतु इति ) तान्यां विशेषिता या वाक्यार्थप्रत्यायनेच्छा तद्विषयकज्ञानस्यैव (एतादृशतात्पर्यज्ञानस्यैव ) शाब्दबोधहेतुता स्वीकार्या तत्र च एतादृशसंसर्गविषयकतात्पर्यज्ञाने च तादृशसंसर्गोपस्थिते:= विशकलितरूपेण प्रविष्टस्य संसर्गतात्पर्यज्ञानविषयीभूतसंसर्गस्योपस्थितेरवश्यमपेक्षासत्त्वात् तदेकदेशभूततन्मासव्यक्तित्वधर्माणामनुपस्थितौ शाब्दबोधो नेव संभवति, न च तादृशतद्व्यक्तित्वानामुपस्थितिः संभवति व वा यावन्मासव्यापकत्वमध्ययने संभवतीति शाब्दबोधानुपपत्तिरेवेति प्रयोगानुपपत्तिरपीत्यर्थः । अत्र च योग्यताया उक्तवैशिष्टयरूपत्वात् तात्पर्यस्य च विशकलितपदार्थविषयकत्वात्तयोर्मे दे प्राप्ते. तात्पर्यनिश्चयेपि योग्यतासंशयसंभवाद् योग्यतासंशये उक्तशाब्दबोधानुपपत्तिर्नास्तीति विज्ञेयम् ।
"Aho Shrutgyanam"