________________
द्वितीयाया व्यापकत्वार्थकत्वेविचारः ] व्युत्पत्तिवादः । इत्यादिप्रयोगानुपपत्तिः। न च मासपदेन यकिंचित्रिंशदिनमात्रवृत्तिविशेषधर्मप्रकारेणानुपस्थापनेपि तद्धर्मवत्स्वनिरूपिताधेयत्वसंबन्धेन मासपदार्थस्याभावेऽन्वयोपगमाद् यत्किंचिन्मासनिष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके लभ्यते इति न काप्यनुपपत्तिरिति वाच्यम्, तत्तन्मासमात्रवृत्तिधर्मविशेषाणां संबन्धघटकत्वेपि शाब्दबोधे संसर्गतात्पर्यज्ञानस्य हेतुतया संसर्गविशेषो. पस्थितेरपेक्षितत्वात् । संबन्धघटकतादृशधर्मान् विशिष्याऽविदुषः शाब्दबोधानुदयप्रसङ्गात् । न चेष्टापत्तिः- अनुभव विरोधात् । अनागतादिमासवृत्तिताहशधमाणां विशिष्य ज्ञानसामग्र्या असर्वज्ञस्य दुर्लभतयाऽस्मदादीनां सर्वेषामेव ताहशमासत्वव्यापकताबोधोच्छेदप्रसङ्गात् ।
सव्यक्ति ) निष्ठाभावप्रतियोगितानवच्छेदकत्वमन्वयितावच्छेदके अध्ययनत्वे लभ्यते तद्वत्त्वं चाध्ययनेऽस्त्येवेत्येवंरूपेण तन्मासव्यक्तिव्यापकत्वमध्ययने सुलभमेव, तन्मासव्यक्तेश्च संसर्गको टिप्रवेशात्तदुपस्थितेरप्यपेक्षा नास्तीति न काप्यनुपपत्तिरित्याशङ्क्याह-न चेति । परिहारमाहतत्तन्मासमात्रेति, यथा नौलो घटः' इत्यत्रत्यबोधे 'नीलो घटः' इतिवाक्यमभेदसंसर्गबोधक भवतु इत्येवं संसर्गविषयकतात्पर्यज्ञानस्यापि हेतुत्वं भवति तथा 'मासमधीते ' इत्यत्रापि तत्तन्मासवृत्तिविशेषधर्माणाम्=तव्यक्तित्वानां संबन्धघटकत्वेपि शाब्दबोधे 'मासमधीते ' इतिवाक्यं तन्मासव्यक्तित्वसंसर्गबोधकं भवतु इत्येवं संसर्गविषयकतात्पर्यज्ञानस्य हेतुत्वे प्राप्ते तद्व्यक्तित्वरूपस्यापि संसर्गस्योपस्थित्यपेक्षा प्राप्तव तथा च मासपदेन तद्व्यक्तित्वेन रूपेण मासपदार्थोपस्थिति विना निर्वाहो नास्ति न च तद्व्यक्तित्वेनोपस्थितिः संभवति. मासत्वावच्छिन्नयावन्मास. व्यापकत्वं चाध्ययने बाधितमेवेति 'मासमधीते:' इतिप्रयोगानुपपत्तिरेवेत्यर्थः । किं च संबन्धघटकतद्व्यक्तित्वरूपधर्मज्ञानाभाववतः ( माघमासेऽनेनाधीतमित्यादिज्ञानामाववतः) 'मासमधीते ' इत्यनेन शाब्दबोधो न स्यात् न चैतदिष्टं विशिष्य तादृशधर्मज्ञानाभावेपि शाब्दबोधोदयदर्शनादित्याह- संबन्धघटकेति । भूततत्तन्मासव्यक्तित्वादिधर्माणां विशेषरूपेण ज्ञानसंमवेपि 'मासमध्येष्यते' इत्यादौ भविष्यन्मासवृत्तीनां तादृशधर्माणाम्-तव्यक्तित्वधर्माणां विशेषरूपेण ज्ञानसामध्याः उपस्थित्यादेरस्मदाधऽसर्वज्ञानां दुर्लभतया असंभवादऽध्ययने तादृशभविष्यत् ) मासत्वव्यापकताबोधस्योच्छेद एव स्याद् ज्ञानसामञ्या दुर्लभत्वे ज्ञानस्यासंभवादिति न तव्यक्तित्वस्य संबन्धकोटिप्रवेशोप्यऽदुष्ट इत्याह- अनागतेति । ___ ननु ‘मासमधीते' इत्याकारकवाक्यार्थविषयकं यदेव तात्पर्य तदेव संसर्गविषयकमपि तात्पर्यम्. 'मासमधीते' इत्याकारकवाक्यजन्यज्ञाने च वाक्यार्थघटको यस्तन्मासव्यक्तित्वघटित: संबन्ध उक्तरूपः (तद्धर्मवत्स्वनिरूपिताधेयत्वसंबन्धः) स संसर्गमर्यादयेव भासते इति विशेषरूपेणोपस्थित्यपेक्षाभावाद्विशेषरूपेणानुपस्थितस्येघोक्तधर्मेण-तन्मासव्यक्तित्वधर्मेण घटितस्य सेबन्धस्य-तन्मा
"Aho Shrutgyanam"