________________
(५०६)
सादर्श:
{ पञ्चमीकारकेवस्तुतस्त्वऽन्येतरपदं स्वरूपपरमेव. अर्थपरत्वे 'घटादन्यः' इतिवद् ‘घटादेकः इतिप्रयोगापत्तेः।
याद चैकपदस्यान्यत्वरूपेण नाऽन्यार्थकतापि तु समभिव्याहृतान्यत्वोपलक्षिते वस्तुनि वक्तृबुद्धिविषयतावच्छेदकघटत्वादिनैव- 'चैत्र एकमानयति मैत्रश्वापरम् ' इत्यादी घटत्वपटत्वादिनैवाऽऽनयनकर्मतादिप्रतीतेन तु पटघटान्यत्वादिना-अन्यत्वान्वयिप्रतियोगिवाचकपदासमभिव्याहारात्, अन्यथा तद्योगे पञ्चम्या असाधुत्वेपि 'घटस्यैकः' इतिप्रतियोगिनि षष्ठयापत्तेर्दुरित्वादित्युच्यते ? तदाप्यन्यार्थकतदादियोगे पञ्चमीप्रयोगापत्त्याऽर्थग्रहणासंभव इति, तथा च 'पटाद् भिन्नम् । 'घटाद् भिद्यते' इत्यादौ पञ्चमीनिहाय तत्रापादानत्वमेव कथंचिदुपपादनीयम् । पाये " इत्यनेनाऽपादानत्वं न संभवतीति पञ्चमी न स्यादिति पञ्चमीप्राप्त्यर्थमन्येतरपदोपादानं तत्रैकस्य भेदवाचकपदसंग्राहकत्वादपरस्य भेदविशिष्टवाचकपदसंग्राहकत्वात्सार्थक्यमिति ' पटाद् भेदः । 'पटाद् भिन्नः ' इत्याद्युपपन्नमित्यर्थः। ____ वस्तुत इति- तथा च " अन्यारादितर " इतिसूत्रेण 'पटादन्यः ' ' पटादितरः ' इत्यत्रैव पञ्चमी न तु 'पटाद् भेदः' इत्यादावपि, अत्र पञ्चमीप्राप्तेरुपायं वक्ष्यति । विपक्षे बाधकमाह- अर्थपरत्वे इति, एकशब्दस्याप्यन्यार्थकत्वात्तदुक्तममरेण “ एके मुख्यान्यकेवलाः" इति ।
नन्वेकपदस्य हि वक्तबुद्धिविषयतावच्छेदकं यद् घटत्वादिकं तेन रूपेणैवान्यार्थकतास्ति' चैत्र एकमानयति मैत्रश्चापरम् ' इत्यादावेकपदबोध्ये वस्तुनि समभिव्याहतैकपदोपस्थितान्यत्वोपलक्षिते बुद्धिविषयतावच्छेदकेन घटत्वादिरूपेणैवानयनकर्मतायाः प्रतीयमानत्वाद् न त्वत्र पटाद्यन्यत्वरूपेणानयनकर्मता प्रतीयते- निरूपकत्वसंबन्धेनान्यत्वान्वयी यः प्रतियोगी तद्वाचकघटादिपदप्रयोगस्यात्राभावात् प्रतियोग्युपस्थिति विनाऽन्यत्वान्वयाऽसंभवात् तस्मादकपदस्य नाऽन्यत्वरूपेणाऽन्यार्थकता येनैकपदयोगे पञ्चम्यापत्त्या ' घटादेकः ' इतिप्रयोगापत्तिः स्यादित्याशङ्कते- यदि चेत्यादिना । अन्यथेति-अन्येतरपदयोः स्वरूपमात्रपरत्वेनैकपदाऽसंप्राहकत्वे तद्योगे एकपदयोगे पञ्चम्या असाधुत्वेप्येकपदस्यान्यत्वरूपेणान्यार्थकत्वे 'घटस्यैकः । इत्येवं प्रतियोगिवाचकघटपदात् षष्ठी स्यादेव प्रतियोगिवाचकघटपदोपस्थितघटे एकपदोपस्थितान्यत्वस्यान्वयसंभवात्, तस्मान्नैकपदस्यान्यत्वरूपेणान्यार्थकता तथा चान्येतरपदयोः स्वसमानार्थकपदसंग्राहकत्वेप्येकपदयोगे पञ्चम्यापत्तिर्नास्ति-एकपदेन घटादेर्घटत्वादिनैव प्रतिपादनादन्यत्वरूपेण चाऽप्रतिपादनात् अन्यत्वेनाऽन्यत्वार्थकपदयोगे एव “अन्यारात्" इतिसूत्रेण पञ्चमीसंभवादिति नाऽन्येतरपदयोः स्वरूपमात्रपरत्वमित्यर्थः । उत्तरमाहतदापीति, अन्येतरपदयोरर्थपरत्वेन स्वसमानार्थकपदसंग्राहकरचे युक्तरीत्या एकपदाऽग्राहकत्वेपि यत्र 'यः खलु नीलघटादन्यः स घटो ग्राह्यः ' इत्यादौ तत्पदस्याप्यन्यार्थकतास्तीति तत्र ता.
"Aho Shrutgyanam"