________________
पञ्चमीप्रयोगविचारः] व्युत्पत्तिवादः।
(५०५) पदार्थप्रतियोगिताया अपादानतारूपत्वे 'घटे वर्तते ' इत्यादी पञ्चमीप्रसङ्गस्य परत्वेनाधिकरणसप्तम्यादिना बाधादेवानवकाशात्. अभावीयविलक्षणप्रतियोगिताया एवं वा तथात्वात्. “घटादन्यत्वम्' इत्यादौ चाऽपादानत्वासंभवेप्यन्यपदयोगेनैव पञ्चमी तत्रान्यपदाविशेषणतया भासमानभेदे एव पञ्चम्यान्वयोपगमात् न तु भावप्रत्ययात् प्राधान्येन भासमाने तस्मिन् . पदार्थैकदेशे इव वृत्त्येकदेशे ससंबन्धिके प्रतियोगिसंबन्धान्वयस्य व्युत्पत्तिसिद्धत्वादिति वाच्यम्, प्राधान्येन भावप्रत्ययाद् भासमानेप्यन्यत्वे घटपटादिप्रतियोगिकरवान्वयविवक्षया 'घटादन्यत्वम् ' इतिप्रयोगात् तन्निर्वाहायैवाऽन्येतरपदद्वयोपादानात् । _ अथ वा “ ध्रुवमपाये" इत्यत्रावधित्वमेव विवक्षितं न तु प्रतियोगित्वम्उभयानुगमकरूपाभावादिति 'पटाद् भेदः' इत्यादी पञ्चम्युपपत्तयेऽन्येतरपदोपादानम् । पञ्चमी संभवति तथाप्यत्र पञ्चम्याः सप्तम्या बाधो भवति परत्वादिति नात्र पञ्चमीप्रसङ्ग इत्याहधातूपस्थाप्येति । धातूपस्थाप्यक्रियापदार्थ प्रति घटस्य कारकत्वेन प्रतियोगित्वं विज्ञेयम् । पक्षान्तरमाह- अमावीयेति । तथात्वात् अपादानतारूपत्वात् तथा चान्यादिपदप्रयोगे एवाऽमावीयतादृशविलक्षणप्रतियोगितायाः प्रतीयमानत्वादन्यादिपदयोगे पञ्चमी भवति अन्यत्र च तस्या अप्रतीयमानत्वान्न ' घटे वर्तते ' इत्यादौ पञ्चम्यापत्तिरित्यर्थः । प्रयोगान्तरमुदाहरति- घटादन्यत्वमिति । अत्र क्रियायोगाभावादपादानत्वासमवः । ननु 'घटादन्यत्वम् ' इत्यत्रान्यपदोदस्थापितभेदे पञ्चम्यर्थप्रतियोगिकत्वस्य यद्यऽन्वयः स्यात्तदाऽन्यपदयोगेनात्र पञ्चमो स्यादपि न त्वेवं संभवति-- भवान्यपदोत्तरत्वप्रत्ययार्थभेदस्यैव प्रधानत्वात् तत्रैव पञ्चम्यान्वयः स्थानवन्यपदोपस्थितभेदे इत्याशङ्याह- तत्रेति । मावप्रत्ययात्=त्वप्रत्ययात् । स्वप्रत्ययस्य भावे सत्त्वेनात्र भेदबोधकत्वं ज्ञेयम् । तस्मिन् भेदे । ननु 'अन्यत्वम्' इति तद्धितवृत्तिरस्ति तत्रान्यपदोपस्थापितो भेदो वृत्त्येकदेश एव तादृशवृत्येकदेशे पञ्चम्यर्थस्य कथमन्वयः स्यादित्यायाह- पदा. थैकदेशे इति, भेदो हि ससंबन्धिकपदार्थः- अन्यसापेक्षत्वादिति तादृशे ससंबन्धिके वृत्त्येकदेशभूतेप्यन्यपदोपस्थापितभेदे प्रतियोगिभूतघटादिपदार्थसंबन्धरूपस्य पञ्चम्यर्थस्यान्वयः संभवत्येवेत्यर्थः । परिहारमाह- प्राधान्येनेति, ' घटादन्यत्वम् । इत्यत्र त्वप्रत्ययोपस्थापितभेदेपि विवक्षायां सत्यां पञ्चम्यर्थस्य घटादिप्रतियोगिकत्वस्यान्वयो भवत्येवेति तन्निर्वाहायैवान्येतरपदयोरुपादानं तत्रैकस्य प्राधान्येन भासमाने भेदे पञ्चम्यान्वयार्थ पञ्चमीप्रयोजकत्वात्सार्थक्यमऽपरस्य विशेषणतया मासमाने भेदे पञ्चम्यन्वयार्थ पञ्चमीप्रयोजकत्वेन सार्थक्यं यथा 'घटाद् भिन्नः' इत्यत्र ।
पक्षान्तरमाह- अथ वेति । विवक्षितमित्यत्र ध्रुवपदेनेति शेषः । उभयानुगमकरूपस्य अवधित्वप्रतियोगित्वैतदुभयानुगमकरूपस्य । तथा च 'पटाद् भेदः । इत्यादौ पटादेः “ध्रुवम
"Aho Shrutgyanam"