________________
(५०४)
सादर्श:
[पञ्चमीकारकेप्रयोगस्य पञ्चमीप्रयोजकत्वे तत्र निपातातिरिक्तत्वविशेषणप्रवेशेनापि नज्योगे पञ्चमीवारणसंभवात् । वस्तुतस्त्वन्योन्याभावीयप्रतियोगित्वरूपार्थविवक्षायां पञ्चमी, नपदोपस्थापिताभावस्य च प्रतियोगिता न विभत्त्या बोध्यते- नअर्थे प्रतियोगितयैवाऽऽधेयत्वातिरिक्तविभक्त्यर्यान्वयस्थ व्युत्पन्नत्वात् 'न चैत्रस्य' इत्यादी षष्ट्याद्यर्थस्य नजर्थप्रतियोगित्वादतो न तद्योगे पञ्चमी ।। ___ अथ पृथक्त्वगुणानङ्गीकर्तृमीमांसकमते सूत्रेऽन्येतरपदयोरेकतरोपादानवैययं दुरिम्- उक्तरीत्या सार्थकत्वासंभवादिति चेत् ?, न- तन्मतेप्येकपदस्य प्राधान्यनाऽन्योन्याभाववाचकस्याऽपरपदस्थ चान्योन्याभावविशिष्टवाचकस्य संग्राहकतया सार्थक्यात् ।
न च 'पटाद् भेदः' इत्यादौ क्रियायोगादपादानपञ्चम्येव. धातूपस्थाप्य. क्याह- अन्योन्याभावार्थकपदप्रयोगस्येति, तत्रेति-निपातातिरिक्तस्यान्योन्याभाववाचकपदस्य योगे पञ्चमी भवतीति वक्ष्यामस्तथा च नञ्पदस्य निपातत्यान्न तद्योगे पञ्चम्यापत्तिरित्यर्थः । स्वाभिप्रायमाह- वस्तुत इति, 'द्रव्यादन्यो गुणः । इत्यादौ द्रव्यादावन्योन्याभावीयप्रतियोगिता विवक्षितास्तीति तामाश्रित्य पञ्चमी भवति पञ्चम्या तादृशप्रतियोगिताबोधसंभवात्. नपदोपस्थापितान्योन्याभावस्य प्रतियोगिता तु पञ्चम्या न बोधयितुं शक्यते- नार्थ-अभावे माधेयत्वातिरिक्तविभक्त्यर्थस्य प्रतियोगितारूपेणैवान्वयः स्वीक्रियते यथा ' न चैत्रस्य ' इत्यत्र षष्ठयर्थस्वत्वस्य ननर्थाऽभावे प्रतियोगित्वेनैव रूपेणान्वयो भवति- चैत्रीयस्वत्वप्रतियोगिकामावस्य प्रतीयमानत्वात् , पञ्चभ्यर्थस्य च नअर्थाभावे प्रतियोगित्वरूपेणान्वयाऽसंभवात् तद्योगे= नपदयोगे 'घटः पटो न ' इत्यादौ न पञ्चम्यापत्तिरित्यर्थः । 'ग्रामं न गच्छति । इत्यत्र ग्रामवृत्तिसंयोगानुकूलव्यापाराभावस्य प्रतीयमानत्वादभावे वृत्तित्वस्य प्रतियोगितावच्छेदकता. वच्छेदकत्वेन रूपेणान्वयोस्ति ' भूतले घटो नास्ति । इत्यत्र च भूतलवृत्तिघटामावस्य प्रतीयमानत्वादभावे वृत्तित्वस्य प्रतियोगितावच्छेदकतारूपेणान्त्रयोस्ति न तु प्रतियोगिवेन रूपेणेत्यभिप्रायेणोक्तम्-- आधेयत्वातिरिक्तेति ।
मीमांसकमतमुद्दिश्याशङ्कते- अथेति । उक्तरीत्येति-उमयोरप्यन्येतरपदयोरेकार्थत्वादेकस्यानर्थक्यमित्यर्थः । परिहरति- नेति । एकपदस्येति- अन्येतरपदयोर्मध्ये एकस्यान्योन्याभावाचरुभेदादिपदसंग्राहकतया सार्थक्यमपरस्थाऽन्योन्याभावविशिष्टवाचकभिन्नादिपदसंग्राहकतया सार्थक्यमित्यर्थः । मिन्नादिपदस्य भेदविशिष्टवाचकत्वं सुस्पष्टमेव । __ शङ्कते- न चेति, 'पटाद् भेदः । इत्यत्राऽपादानपञ्चम्यपि संभवत्येव भेदपदप्रकृतिभूतभिदधातुना क्रियाया उपस्थितत्वादिति “अन्यारात्" इतिसूत्रेऽन्यतरपदयोर्मध्येऽन्योन्याभाववाचकभेदादिपदसंग्राहकस्यैकस्योपादानमनर्थकमेवेत्याशयः । यद्यपि धातूपस्थाप्यक्रियापदार्थप्रतियोगिताया अपादानतारूपत्वे ' घटे वर्तते' इत्यत्रापि घटस्यापादानत्वापत्त्या तदुत्तरं
"Aho Shrutgyanam"