________________
अन्वेतरपदयोर्विचारः र: ]
व्युत्पत्तिवादः ।
(५०३ )
कतृतीयोपपत्त्यर्थम् । वस्तुतस्तत्र पृथक्पदमासाहित्यार्थकं न तु गुणवदर्थकम् दुनोति चन्द्रात् पृथगप्यनङ्गः ” इत्युदाहरणेऽसाहित्यस्यैव प्रतीतेः ।
6
न चान्यादिपदं नाऽन्योन्याभावार्थकं किं तु पृथक्त्वरूपगुणविशिष्टार्थकं. तथा सति 'घटः पटो न ' इत्यादावपि नञस्तदर्थकतया तद्योगे पञ्चम्यापत्तेः, न च तद्विशिष्टार्थकपदपरम्- तस्यापि विशिष्टार्थवाचकत्वात्, नञ्पदं च न तथा तदुपस्थिताभावस्य नामान्तरायें भेदान्वयसंभवेन लाघवेन तस्य धर्ममात्रवाचकत्वादितिं न तद्योगे पञ्चमीप्रसङ्ग इति वाच्यम्, 'द्रव्याद् गणस्य भेदः' इत्यादी पञ्चमीनिर्वाहाय भेदार्थकपदस्यैवोपादेयत्वात् अन्यादिपदस्यापि वाच्यविशेषणभेदार्थकत्वादित्याऽचार्यानुसारिमतम् 1 तत्र अन्योन्याभाववाचकपदस्य पञ्चम्यनुपयोगित्वे ' द्रव्यादन्यो गुणः ' इत्यादौ पञ्चम्यनुपपत्तेः, गुणादौ पृथक्त्वरूपगुणासंभवेनाऽन्योन्याभावस्यैवान्यपदार्थत्वात् । अन्योन्याभावार्थकपदमाह - वस्तुत इति । तत्र" पृथग्विना " इतिसूत्रे | गुणवदर्थकम् = पृथक्त्वगुणविशिष्टपरम् । उक्ते विनिगमकमाह- दुनोतीति ।
नवन्यादिपदम् (अन्यमिन्नादिपदम् ) पृथक्त्वरूपगुणविशिष्टार्थकमेव नस्वन्योन्याभावार्थकं तथा सति = अन्यादिपदस्याऽन्योन्याभावार्थकत्वे नञोपि तदर्थकतया = अन्योन्याभावार्थकतया तद्योगे = नञ्योगे 'घटः पटो न ' इत्यादावपि घटादिपदात् पञ्चमी स्यादिति नाव्यादिपदमन्योन्याभावार्थ कम्, न चाप्यऽन्यादिपदं तद्विशिष्टार्थकपदपरम्-अन्योन्याभावविशिष्टार्थकपदपरं तस्यापि = इतर शब्दस्याप्यन्योन्याभावविशिष्टार्थवाचकत्वेनाऽन्यपदोपादानवैयर्थ्यप्रसङ्गात्, नञ्पदं च न तथा=अन्योन्याभावविशिष्टार्थकं किं त्वन्योन्याभावमात्रवाचकमेव तदुपस्थिताभावस्य=नञ्पदोपस्थिताभावस्य निपातार्थत्वेन नामार्थे भेदेन = प्रतियोगिभूत घटादौ स्वप्रतियोगित्वसंबन्धेनानुयोगिभूतपटादौ च स्वानुयोगित्वेन स्वाश्रयत्वेन वा संबन्धेनान्वयसंभवात् तस्य==नञ्पदस्य धर्ममात्र = अन्योन्याभावमात्रवाचकत्वमिति न नञ्पदयोगे पञ्चम्यापत्तिः, पृथक्त्वरूपगुणविशिष्टार्थक पदस्याऽन्योन्याभावविशिष्टार्थकस्यैव च पदस्य पञ्चमीप्रयोजकत्वाश्रयणादित्याशक्याह-- न चेति । परिहारमाह - द्रव्यादिति, 'द्रव्याद् गुणस्य भेदः ' इत्यादौ पञ्चमीप्राप्त्यर्थं दार्थ पदमेव सूत्रे उपादेयमस्तीति सूत्रोक्तान्यादिपदं वाच्यविशेषण मेदार्थकमेव न पृथक्त्वरूप - गुणविशिष्टार्थकं पृथक्त्वरूपगुणविशिष्टार्थक पृथक्पदस्य सूत्रान्तरे उपात्तत्वादित्यर्थः । अत्र प्रथमनचपदस्थाने अथपदपाठस्तु प्रामादिक एव प्रतिभाति । उक्तपूर्वपक्षे स्वयमपि दोषमुद्घाटयति-तत्रेति । अनुपयोगित्वे अप्रयोजकत्वे । ' द्रव्यादन्यो गुणः ' इत्यत्र गुणसामान्ये पृथक्त्वरूपगुणो न संभवतीत्यत्रान्यपदस्य पृथक्त्ववाचकत्वमपि न संभवतीत्यगत्याऽन्यपदस्याऽन्योन्याभाववाचकत्वमेत्र स्वीकार्यमित्याह- गुणादाविति । ननु यद्यऽन्योन्याभाववाचकपदयोगे पञ्चमी स्यात्तदा 'वटः पटो न' इत्यादौ नञ्पदयोगेपि पञ्चमी स्यात् नञ्पदस्याप्यन्योन्याभाववाचकत्वादित्याश
66
" Aho Shrutgyanam"