________________
(५०२)
सादर्श:
[पञ्चमीकारके'घटादवगाहते ' इतिप्रयोगस्य घटस्याऽपादात्वेन दुर्वारत्वात्, अत एवं प्रतियोगिताया अपादानत्वानात्मकतयाऽन्यादिशब्दयोगे प्रतियोगिवाचकपदात् पञ्चमी सूत्रान्तरेणानुशिष्टा प्रतियोगित्वस्याउपादानतारूपत्वे तद्वैयर्थ्यांपत्तेः।
अथान्यादिशब्दार्थभेदादेः क्रियात्वाभावेन कारकत्वासंभव इति मुनिः सूत्रान्तरं प्रणिनायेति चेत् ?, तत् किं तारादिघटकवृत्त्यादेः क्रियात्वमनुमन्यते भवता ? तस्मादत्र पञ्चम्युपपादकं सूत्रान्तरमनुसर्तव्यमिति ।। . “गुणो द्रव्याद् भिन्नः' इत्यादौ “अन्यारात् ” इतिसूत्रेणेव पञ्चमीअन्यपदस्याऽन्यार्यकपदपरत्वादिति बहवः । न चान्यपदेन तदर्थकत्वविवक्षणे तत्समानार्थकेतरपदोपादानवैयर्यमिति वाच्यम्, अन्येतरपदयोरेकस्याऽन्योन्याभावविशिष्टार्थकपरत्वात्. अपरस्य पृथक्त्वरूपगुणविशिष्टार्थकपरतयोपादानसार्थक्यात् । “पृथग्विना " इत्यादिसूत्रे पृथकपदोपादानं तयोगे वैकल्पि. वृत्त्ववधित्वेनापादानत्वापत्तेः, यदि च विषयितायाः स्वाधारविषयप्रतियोगिकत्वं स्वाधारविषयावधिकत्वरूपमेव स्यात्तदा 'घटमवगाहते ' इत्यस्य स्थाने ' घटादवगाहते' इत्यपि प्रयोगः स्यात्. न चैवं भवतीत्यर्थः । प्रतियोगिताया अपादानत्वाऽस्वरूपत्वे विनिगमनामप्याह- अत एवेति । प्रतियोगिताया अपादानत्वानात्मकत्वेऽवधियानात्मकत्वमपि प्राप्तमेव । सूत्रान्तरेण= " भन्यारादितर " इत्यादिसूत्रेण । प्रतियोगित्वस्याऽपादानतारूपत्वे ! घटादन्य' इत्यत्र " अपादाने पञ्चमी " इतिसूत्रेणेव पञ्चम्युपपत्त्या "अन्यारात्" इतिसूत्रं व्यर्थमेव स्यादित्यर्थः। ___ ननु न खलु प्रतियोगिता वपादानतास्वरूपा नास्तीति प्रतिसंधाय भगवता पाणिनिना ऽन्यादिशब्दयोगे पञ्चमीविधानार्थम् “ अन्यारादितर " इत्यादिसूत्रं प्रणीतं किं त्वऽन्यादिशब्दार्थभेदादेः क्रियात्वाभावेन तद्योगे कारकत्वासंभवात् कारकविभक्तिरूपाया अपादानपञ्चम्या असंभवादेवेत्याशङ्कते- अथेति । उत्तरमाह- तकिमिति । येन तादृशतादृशतारत्वादिरूपक्रियायोगादत्राऽपादानपञ्चमी स्यादिति शेषः । अत्र='अयमस्मात्तारः ' इत्यत्र, सूत्रान्तरम् - “ल्यन्लोपे कर्मण्यधिकरणे च " इति वार्तिकम्, तथा च ' अयमिममपेक्ष्यतारः ' इत्यर्थे ल्यब्लोपे इति वार्तिकेन कर्मवाचकेदंपदात् पञ्चम्या 'अयमस्मात्तारः' इतिप्रयोगः संपन इत्यर्थः । तस्मात् उक्तरीत्या सूत्रान्तरेण पञ्चम्याः प्राप्यसंभवादिति ।
प्रयोगान्तरमुदाहरति- गुण इति । “ अन्यारात्" इतिसूत्रेऽन्यपदमन्यार्थकपदपरं भिन्नपदं चान्यार्थकमेवेति तद्योगे पञ्चमी प्राप्तेत्यर्थः । शङ्कते- न चेति । तदर्थकरव=अन्यार्थकत्व । उत्तरमाह- अन्येतरेति । अन्योन्याभावो हि भेदः पृथक्त्वं च गुण इति विशेषः । ननु " भन्यारादितर " इतिसूत्रस्थयोरन्येतरशब्दयोर्मध्ये एकस्य पृथक्त्वविशिष्टार्थपरत्वे हि पुनः "पृथग्विना " इतिसूत्रे पृथपदोपादानमनर्थकं स्यादित्याशक्याह- पृथन्धिनति । स्वमत
"Aho Shrutgyanam"