________________
अवधित्वविचारः }
व्युत्पत्तिवादः ।
(५०१ )
न च साजात्यघटकजातेः सावधिकत्वाभावेपि वृत्तेः सावधिकत्वमस्त्येव. एवं साक्षात्कारो विलक्षणविषयिताशालिज्ञानं तदूविषयिता च सावधिकैवेति तत्र पञ्चम्यर्थान्वयेन सामञ्जस्यमिति वाच्यम्, यतो वृत्तेविषयितायाश्च स्वाधारविषयमतियोगित्वमेव न तु तदवधिकत्वम्, तदवधिकत्वतत्प्रतियोगिकत्वयोर्वस्तुनोर्भेदात्, अन्यथा घटे वर्तते ' 'घटमवगाहते ' इत्यत्र ' घटाद्वर्तते
C
शब्दत्वजातिरेव - अन्यद्रूपसाजात्यस्य वक्तुमशक्यत्वात् जातेः साक्षात्कारस्य च न सावधिक संभवति अपादानत्वं च सावधिकत्वरूपमेवेति तत्र = 'अस्मात्तार: इत्यत्र नाऽपादानत्वं
पञ्चम्यर्थः संभवतीत्यर्थः ।
专家
ननु
साजात्यं तद्वृत्तिशब्दश्वजातिः " इत्युक्तं तत्र साजात्यघटकाया वृत्तेः - आधेय
46
L
वस्य ( वृत्तित्वस्य ) सावधिकत्वं किं न स्यात्तथा साक्षात्काररूपज्ञाननिष्ठविषयितायाः सावचिकत्वं किं न स्यात् सावधिकत्वे च तत्रैव वृत्तौ विषयितायां चापादानत्वरूपपञ्चम्यर्थस्यान्वयः संभवत्येवेत्याशङ्क्याह- न चेति । अत्र विषयिता इत्यस्य स्थाने विषयता " इत्यपि पाठः । परिहारहेतुमाह- यत इति, यथा घटे वर्तते रूपम् ' इत्यत्र स्वं वृत्ति: ( आधेयत्वम् ) तदाधारो रूपं तद्विषयः ( तदाधारः ) घट इति वृत्तौ घटलक्षणस्वाधारविषयप्रतियोगित्वं प्राप्तम्- घटस्य रूपे आधेयत्वरूपवृत्तित्वसंबन्धेनान्वयात् यस्यान्वयः स प्रतियोगी भवतीति संबन्धे तत्प्रतियोगिकत्वसंभवात्, यथा 'भूतले घटः' इत्यत्र संयोगे घटप्रतियोगिकत्वम् । स्वं विषयिता तदाधारो ज्ञानं तद्विषयो घटस्तस्य घटस्य ज्ञाने विषयितासंबन्धेनान्वयाद् विषयितायां तादृशघटप्रतियोगिकत्वं प्राप्तम्, किं वा प्रतियोगिकपदस्य निरूपितपदस्थानेपि कचित् प्रयोगदर्शनान् " स्वाधारविषयप्रतियोगिकत्वम् " इत्यस्य स्वाधारविपयनिरूपितत्वम् ' इत्यर्थः अत्रापि स्वं वृचिस्तदाधारो रूपं तद्विषयो घटस्तादृशघटनिरूपितत्वं रूपनिष्ठाधे यत्त्वलक्षणवृत्तावस्त्येव विषयितापक्षे च स्वं विषयिता तदाधारो ज्ञानं तद्वियो घटस्तादृशघटादिलक्षणविषय निरूपितत्वं च ज्ञाननिष्ठविषयितायां सुस्पष्टमेवेत्यर्थः । ननु -स्वाधारविषयप्रतियोगिकत्वं स्वाधारविषयावधिकत्वस्वरूपमेवास्तु तथा च ' अयमस्मात् तारः " इत्यत्र न पञ्चम्यनुपपत्तिरित्याशङ्क्याह- तदवधिकरवतत्प्रति योगिकत्वयोरिति, यथा वृक्षात् पर्ण पतति ' ' वृक्षाद्विभजते ' इत्यादौ विभागे वृक्षावधिकत्वमस्ति न तु वृक्षप्रतियोगिकत्वं पर्णादिप्रतियोगिकत्वं चास्ति न तु पर्णाद्यवधिकत्वं तदवधिकत्वतृत्प्रतियोगित्वयोरैक्ये स्वयं व्यतिरेको न स्यादिति पर्णादेः प्रतियोगित्वेनावधित्वप्राप्तौ पर्णादिपदादपि पञ्चमी स्याद् न चैतदिष्टमिति तदवधिकत्वतस्प्रतियोगि कत्वयोर्नैक्यं संभवतीति भाव: : भेदश्च स्वानुभवसाक्षिक एक, 'अवधिकत्वं चावधिभूतपदार्थनिरूपितं भवति न च प्रतियोगिकत्वं तथा मवतीत्यपि विज्ञेयम् ॥ स्वयमपि विपक्षे बाधकमाह- अन्यथेति, यदि वृत्तेः स्वाधारविषयप्रतियोगिकत्वं स्वाधारविषयावधिक रूपमेव स्यात्तदा 'घटे वर्तते ' इत्यस्य स्थाने घटाद्वर्तते इत्यपि स्याद् घटस्य
C
"Aho Shrutgyanam"
८
29
7
८
८८