________________
सादर्श:
(५०० )
[ पञ्चमीकारके -
त्वं - समनियतजातिद्वयानभ्युपगमात् समनियताभ्युपगमे जातिसङ्करप्रसङ्गात् वया च तारत्वादेः सावधिकत्वे स्वापेक्षया यस्तारस्तमपेक्ष्य स्वस्मिन् मन्दव्यवहार इव तारव्यवहारोपि स्यात् स्वापेक्षया यो मन्दस्तमपेक्ष्य तारव्यवहार - वत तमपेक्ष्य स्वस्मिन् मन्दव्यवहारोपि स्यात् ।
अथ तदपेक्षया तार व्यवहारस्तत्सजातीयत्वे सति तत्साक्षात्कारप्रतिबन्धकतावच्छेदकजातिमत्त्वमवलम्बतेऽतो न स्वापेक्षया यस्तारस्तदपेक्षया ताख्यवहारोऽन्यापेक्षया तारेपि भवतीति चेत् ?, तर्हि ' अस्मात्तारः ' इत्यत्र साजात्यसमानाधिकरणसाक्षात्कार मैतिबन्धकतावच्छेदक जातिरूपतारपदप्रवृत्तिनिमितघटक साजात्ये साक्षात्कारे च पञ्चम्यर्थान्वयो वाच्यस्तावतैव दर्शितातिप्रसङ्गवारण संभवात् । तत्र साजात्यं तद्वृत्तिशब्दत्वजातिस्तस्याः साक्षात्कारस्य चन सावधिकत्वमिति न सावधिकत्वरूपमऽपादानत्वं तत्र पश्ञ्चम्यर्थः ।
नियतेति यदपेक्षया तारत्वं तदपेक्षयैव मन्दत्वमिति समनियतस्य = एकनिरूपितस्य जातिद्व यस्य = तारत्वमन्दत्ययोरस्वीकारात्, एकापेक्षं यदेव तारत्वं तदन्यापेक्षमेव मन्दत्वमिति सिद्धम् । समनियताभ्युपगमे जातिसांकर्येण तारत्वमन्दत्वयोर्जातित्वमेव न स्यात्, सांकर्ये च तन्निरू पितं यत्र तारत्वं न तत्र तन्निरूपितं मन्दत्वं यत्र च तन्निरूपितं मन्दत्वं न तत्र तन्निरूपितं तारत्वं अत्र च तन्निरूपितमेव तारत्वं मन्दत्वं चेति सांकर्य स्यादेवेत्यर्थः । तारत्वे सावधिकत्वे दोषमुद्घाटयति - तथा चेति, तारत्वादेः सावधिकत्वेनावधिमात्रापेक्षित्व प्राप्त्या यस्मिन् यदक्षया तारव्यवहारस्तस्मिन् तदपेक्षयापि मन्दव्यवहारनिरोधो न स्यादेव किंचिदवधिमात्रापेक्षित्वात्, तारव्यवहारे यस्यावधित्वं तस्य मन्दव्यवहारे नाऽवधित्वमित्यत्र विनिगमनाभावादिति भावः प्रतिभाति ।
शङ्कते - अथेति । यथा शङ्खद्वयध्वनिद्वये शङ्खध्वनित्येन साजात्यमस्ति तत्र यस्य द्वितीयशङ्खध्वनिसाक्षात्कारप्रतिबन्धकत्वं तस्य तदपेक्षया तारत्वम् । अन्यापेक्षया १ तारेपि १ तदपेक्षया २यस्तारस्तादृश २ तारापेक्षया १ तस्मिन् न : तारव्यवहार इत्यन्वयः । उत्तरमाह-तति, साक्षात्कार: प्रत्यक्षं तच्च स्वविषये शब्दे विपयतासंबन्धेन वर्तते इति विषयतासंबन्धे साजात्यसमानाधिकरणो यः साक्षात्कारस्तत्प्रतिबन्धकतावच्छेदकीभूतं यज्जातिरूपं तारपदप्र वृत्तिनिमित्तम् ( साजात्यसमानाधिकरणसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वम् ) तद्घटकसा जात्ये साक्षात्कारे च पञ्चम्यर्थस्याऽपादानत्वस्यान्वयः कर्तव्यस्तावतैव साजात्ये साक्षात्कारे च पञ्चम्यर्थान्वयेनैव यद्यपि दर्शितातिप्रसङ्गः = यदपेक्षया तारव्यवहारस्तदपेक्षया मन्दव्यवहार इत्यतिप्रसङ्गो न संभवति - साजात्ये साक्षात्कारे च पञ्चम्यर्यान्वयेन तादृशस्त्र साक्षात्कार प्रतिबन्धक - साक्षात्कार विषयस्य ध्वनेः स्वापेक्षया तारत्वापत्त्या तदपेक्षया स्वस्मिन् मन्दव्यवहारस्यैव योग्यतया तारव्यवहारस्याऽयोग्यत्वात् तथापि तत्र = उक्तस्थले अस्मिन् यत्तत्साजात्यं तत् तद्वृत्ति
"Aho Shrutgyanam"