________________
अपादानवैविध्यम् ] व्युत्पत्तिवादः।
(४९९) स्याऽपेक्षितक्रियारूपस्योपात्तविषयान्तर्भावप्रसङ्ग इति तादृशाऽपादानयोरविशेयापत्तिः । एवं च
“उपात्तविषयं किंचिनिर्दिष्टविषयं तथा।
अपेक्षितक्रियं चेति त्रिधाऽपादानमुच्यते ॥" इतिशाब्दिकविभागविरोधः । __ अथाऽपायपदेन क्रियासामान्य क्रियाजन्यविभागश्च विवक्षित एवं च 'वृक्षात् पतति' इत्यादौ न विभागात्मकक्रियाध्याहार इति तदपादानमपिं निर्दिष्टविषयम् । यत्राऽपादानतानिर्वाहार्थमेव क्रियाध्याहारः ‘बलाहकात्' इत्यादौ तदपादानमुपात्तविषयम्, यंत्र वाक्यसमाप्त्यर्थं तदध्याहारस्तत एव चाऽपादानतानिर्वाहो यथा 'माथुराः सौन्नेभ्यः' 'अस्माद् दीर्घः' इत्यादौ तत्रापक्षितक्रियत्वमिति चेत् ?, एवमाप 'अयमस्मात्तारः' इत्यादावगतिः- तत्राहि तारत्वं जातिर्जातेश्च न सावधिकत्वमिति कुतोऽपादानता । अन्यथा ' अयमस्माद् गौः' इत्याद्यापत्तिः । न च जातेरपि तारत्वस्य' अयमस्मात्तारः । इतिप्रतीतिबला भवत्येव सावधिकत्वमिति वाच्यम्, यदेव ह्येकापेक्षं तारत्वं तदेवान्यापेक्षं मन्दनस्य त्रिधाविभागकरणं विरुध्येतेत्यर्थः । संग्राहकश्लोकमाह- उपात्तमिति, उपात्तविषयमपादानं यथा- 'बलाहकाद्विद्योतते विद्युत् । इति, निर्दिष्टविषयं यथा 'वृक्षात् पतति , इति, अपेक्षितक्रियं यथा- 'माथुराः सौन्नेम्य आढयतराः ' 'अस्माद् दीर्घः' इत्यादि, अत्राऽस्तीत्यादिक्रियाया अपेक्षासत्त्वात् । (एतद्भागत्रयवैशा चाग्रिमवाक्ये द्रष्टव्यम् )।
शकते- अथेति । फलमाह- एवं चेति, तथा. च ' वृक्षात् पतति । इत्यत्र क्रियासामान्यमस्त्येवेति विभागात्मकक्रियाध्याहारं विनवाऽपादानत्वं प्राप्तमित्यर्थः । उपात्तविषयमपादानमाह- यत्रेति । अत्र ‘निस्सत्य ' इतिविभागात्मकक्रियाया अध्याहारः । अपेक्षितक्रियमपादानमाह- यत्रेति । तदभ्याहारः क्रियाध्याहारः । ततःवाक्यसमाप्स्यर्थाध्याहतक्रियातः । माथुराः सौन्नेभ्य आढयतराः' इत्यादौ सन्तीत्यादि क्रियाध्याहारं विना वाक्यसमाप्तिरेव नास्ति । उत्तरमाह- एवमपीति । भगतिः इदंपदवाच्यस्याऽपादानत्वोपपादनगति - स्तीत्यर्थः । 'माथुराः' इत्यत्राढयतरत्वस्य सावधिकत्वेन सोध्नानामपादानत्वं संभवति अस्माद् दीर्घः' इत्यत्र दैर्ध्यस्य सावधिकत्वादिदंपदवाच्यस्यापादानत्वं संभवति 'अयमस्मात्तारः । इत्यत्र तु तारत्वं जातिरेव तस्या सावधिकत्वासंमवात् क्रियाध्याहारे सत्यपि इदंपदवाच्यस्यापादानत्वं न संभवति पूर्वत्र हि क्रियां विना कारकत्वरूपाऽपादानत्वं न. संभवतीति क्रियाध्याहा रापेक्षा न तु सावधिकत्वार्थमिति विशेषः । अगतिमेवोपपादयति- तत्र हीत्यादिना । अन्यथाजातेरपि सावधिकत्वे । सावधिकत्वमस्ति न वेति प्रतीतिसिद्धमेवेति वक्तव्यमित्याशयेनाशङ्कतेन चेति । जातेरपि तारत्वस्येति- जातिभूतस्यापि तारत्वस्येत्यर्थः । उत्तरमाह--- यदेवेति । सम
"Aho Shrutgyanam