________________
( ४९८ )
सादर्श:
[ पञ्चमीकारके
L
क्रियाध्याहारस्तद्योगमन्तरेण कारकत्वस्याऽनिर्वाहात् । एवम् बलाहकाद्विद्योतते विद्युत् ' इत्यादौ द्योतनादिक्रियायाः सावधिकत्वविरहेण ' निसृत्य इत्यध्याहियते । अत एव नैतदपादानं निर्दिष्टविषयमपि तूपात्तविषयमिति वैयाकरणाः । निर्दिष्टत्वम् = उच्चरितत्वम् । उपात्तत्वम् - अध्याहृतत्वम् । विषयः =अवधित्वनिरूपकः । निस्सरणं च विभाग एवेत्युक्तस्थलेऽघ्याहत क्रियायाः सावधिक्रत्वमिति चेत् ?, एवं सति ' वृक्षात् पतति ' इत्यादी वृक्षादेरसंग्रहः । तत्रापि विभागक्रियाऽध्याहियते इति चेत्, तत्र निर्दिष्टविषयतामवादविरोधः ।
एवम् 'अस्माद् दीर्घः ' इत्यादावपि क्रियाध्याहारे तत्समशीले ' माथुरा: सौम्य आढ्यवराः' इत्यादावपि क्रियाया अध्याहरणीयतया तत्राऽपादान
7 इत्यपा
आवश्यक इति । तद्योगम् = क्रियायोगम् । एवमिति - निस्सरणस्य विभागरूपत्वेन सावधित्वं प्राप्तमिति तादृशनिस्सरणनिरूपितावधिभूतस्य बलाहकस्यापादानत्वं प्राप्तं तेन च पञ्चमीत्यर्थः । अत एव = निसृत्येतिक्रियाध्याहारादेव । एतदपादानम् = ' बलाहकात् ' दानम् । निर्दिष्टत्वादीनां स्वरूपमाह - निर्दिष्टत्वमिति । निर्दिष्ट उच्चरितो विषयोऽवधिनिरूपको यस्य तग्निर्दिष्टविषयमपादानम्, उपात्तोऽध्याहृतो विषयोऽवधि निरूपको यस्य तदुपात्तविषयमपादानमित्यर्थः । उपसंहरति- निस्सरणं चेति । उक्तस्थळे - 'बलाहकाद्विद्योतते विद्युत् इत्यत्र । अध्याहृतक्रियायाः = निसृत्येत्यऽध्याहृतपदबोध्यनिस्सरणक्रियाया विभागरूपत्वात् सावधिकत्वमस्ति, " ध्रुवमपायेऽपादानम् " इतिसूत्रस्य च अपाये - सावधिक क्रियायां ध्रुवमपादानसंज्ञम् ' इत्यर्थः संपन्नः, निस्सरणक्रिया च सावधिकेवेत्यत्र बलाहकपदादपादानपञ्चम्येवेति भावः । एवं सूत्रव्याख्यानेऽनुपपत्तिमाह- एवमिति । असंग्रह इति- पतनं ह्यऽधोदेशसंयोग एव स च न सावधिक इति ' वृक्षात् पतति ' इत्यत्र वृक्षस्याऽपादानत्वं न स्यादित्यर्थः । ननु तत्रापि = ' वृक्षात् पतति ' इत्यत्रापि ' वृक्षाद् विभज्य पतति इत्येवं विभागक्रियाध्याहारः कर्तव्यो विभागस्य सावधिकत्वेन विभागनिरूपितावधित्वाद् वृक्षस्याऽपादानस्वमित्याशङ्क्याह- तत्रापीति । उत्तरमाह- तत्रेति । 'वृक्षात् पतति ' इत्यत्र वृक्षस्य निर्दिष्टविषयाऽपादानत्वमुच्यते क्रियाध्याहारे सत्युपात्तविषयत्वप्राप्त्या निर्दिष्टविषयत्वं न स्यादिव्यर्थः । • वृक्षात् पतति ' इत्यत्र स्वावधिकविभागजनकत्वस्य पञ्चम्यर्थत्वाश्रयणेन वृक्षाव. धिकविभागजनकपतनव्यापारवान् एतादृशशाब्दबोधोदयसंभवात् तदर्थम् विभज्य ' इति - क्रियाया अध्याहारापेक्षाया अमावादेतस्याऽपादानस्य निर्दिष्टत्रिषयत्वमुपपद्यते ।
L
6
>
एवमिति - यदि ' अस्माद् दीर्घः' इत्यत्र क्रियाध्याहारः स्यात्तदा तत्तुल्यत्वात् ' माथुराः -सोध्नेभ्य आढ्यतराः ' इत्यत्रापि क्रियाध्याहारः स्यादेव तथा चास्योपातविषयोपादानेऽन्तर्भावः स्यादित्युपात्तविषयस्याऽपेक्षितक्रियस्य चाऽपादानस्य विशेषो न स्यात्तथा चाऽपादा
"Aho Shrutgyanam"