________________
अन्तर्की येनादर्शनमिच्छतीति ] व्युत्पत्तिवादः।
(४९७) 'उपाध्यायादन्तर्धत्ते छात्रः ' इत्यादौ “ अन्तौं येनादर्शनमिच्छति" इत्यपादानता । अन्तर्द्धि: अन्तर्धानं स्वनिष्ठान्यकर्तृकदर्शनविषयताविरहोद्देश्यको व्यापारः, एवं च व्यापारानुकूलतयाऽन्त नघटको यत्कर्तृकदर्शनविषयताविरहोद्देशः सोऽपादानमिति सूत्रार्थः । उक्तस्थलीयपश्चम्या अन्तर्दियटकदर्शनान्वयि कर्तृतानिरूपकत्वमेवार्थ इत्युपाध्यायकर्तृकदर्शनविषयताया यः स्वनिष्ठोऽभावस्त. दुद्देश्यकव्यापारकर्ता छात्र इति तत्रान्वयबोधः।।
इदं तु बोध्यम्- 'अस्मादयं दीर्घः' 'अस्मादयं तारः' इत्यादौ नापादा. नपञ्चमी- दैाद्यवधेरपादानत्वस्याननुशासनात् । “ ध्रुवमपायेऽपादनम् इत्यनेन ह्यपाये-विभागरूपक्रियायां क्रियान्तरजन्यविभागे च यदवधिभूतं तस्याऽपादानत्वं विधीयते न त्ववधिमात्रस्यः । यदि चापायपदं वस्तुमात्रोपलक्षकमुच्यते तदा तदुपादानमनर्थकं स्यात् । ___ अथ तत्पदेन क्रियामात्रमुपलक्ष्यते - अस्माद् दीर्घः' इत्यादौ च ' भवति । इत्यध्याहार्य दीर्घभवनं च दीर्घतैवेति क्रियायाः सावधित्वम् , आवश्यकश्च
प्रयोगान्तरमुदाहरति-- उपाध्यायादिति । स्वनिष्ठेति- स्वं छात्रः, छात्रनिष्ठा योपाध्यायः कर्तृकदर्शनविषयता तदभावानुकूलो व्यापारोऽन्तर्धानम् । सूत्रार्थमाह- एवं चेति । व्यापारानुकूलतया-व्यापारीनुकूल इतियावत्, उद्देशविशेषणम् । सः=उपाध्यायादिः । उद्देश: इच्छा सा च छात्रस्य स्वनिष्ठा योपाध्यायकर्तृकदर्शनविषयता तदभावोद्देश्यको योऽन्तर्धानव्यापारस्तादृशव्यापारानुकूलास्ति- अन्तर्धानन्यापार प्रति उपाध्यायकर्तृकदर्शनविषयताविरहवि: षयकेच्छायाः कारणत्वात्, एतदेवोक्तम्- व्यापारानुकूलतयेत्यनेन । पञ्चम्यर्थमाह-उक्तेति, उपाध्याये या दर्शनकर्तृता तनिरूपकत्वं दर्शनक्रियायामेवेत्यर्थः । शाब्दबोधस्वरूपमाहउपाध्यायकर्तृकेति, "उपाध्यायकर्तृकदर्शनविषयतायाः" इत्यस्य 'उपाध्यायनिष्टकर्तृत्वस्य निरूपकं यद्दर्शनं तद्विषयतायाः । इत्यर्थः ।
विषयान्तरमाह- इदमिति । देाद्यवधेरपादानत्याभावे हेतुमाह- ध्रुवमिति । अपायपदार्थमाइ- विभागेति । अनर्थकमिति-अपायपदस्य वस्तुमात्रोपलक्षकत्वे वस्तुमात्रनिरूपितावधेरपादानत्वं स्यात् तत्रावधेः किंचिद्वस्तुनिरूपितत्वमेव संभवति न चाऽवस्तुनिरूपितत्वमपि येनाऽवस्तुव्यवच्छेदकत्वात्सार्थक्यं स्यादित्यऽपायपदस्य वस्तुमात्रोपलक्षकस्वे व्यवच्छेदकत्वाभावादानर्थक्यमेव स्यादित्यर्थः ।
शङ्कते- अथेति । सत्पदेन अपायपदेन, न वस्तुमात्रमिति शेषः । सावधित्वमिति'दीर्घता हि सावधिकैव भवति किंचिन्निरूपितत्वादिति दीर्घतारूपाया दीर्घभवनक्रियाया अपि सावधित्वं प्राप्तमेवेति दीर्घभवनरूपसावधिकक्रिया नेम्पितावधित्वमिदंपदवाच्यस्य प्राप्तमिति 'अस्मादयं दीर्घः । इत्यत्राऽपादानपञ्चमी युक्तैवेत्यर्थः । अत्र क्रियाध्याहारावश्यकतामाह
"Aho Shrutgyanam"