________________
( ४९६ )
सादर्श -
[ पञ्चमीकारके
6
जावे
न च तत्र हेतुपञ्चस्येव नाऽपादानपञ्चमीति वाच्यम्, ऋणगुणातिरिक्तहेतौ पञ्चम्यनुशासविरहात्, अन्यथा ' दुग्धाद दधि जायते '' मृत्तिकाभ्यो घथे शृङ्गाद् धनुर्जायते ' इत्यादेरपि हेतुपञ्चम्यैवोपपत्तौ “जनिकर्तुः " इत्यादिसूत्रस्यैव वयर्थ्यापत्तेः, तस्मात् कारणत्वमेव प्रकृते प्रकृतित्वम् |' दण्डाद् घटो जायते ' इत्यादयापि प्रयोगा इष्यन्त एव । अत एवेश्वरस्य द्रव्यादिकार्याप्रकृतित्वेपि " यतो द्रव्यं गुणाः कर्म " इत्यादौ पञ्चमी । न च प्रकृतिपदेन कारणमात्रविवक्षायामपि क्रियायोगाभावादपादानपञ्चम्यनुपपत्तिः. हेतुपञ्चमी चोक्तक्रमेण प्रकृतेऽनुपपन्नैवेति वाच्यम्, अगत्या 'जायते ' इत्यादिक्रियाध्याहारेण तत्र पश्चम्या उपपादनीयत्वात् ।
'हिमवतो गङ्गा प्रभवति' इत्यादौ " भुवः प्रभवः इत्यनेनाऽपादानता, यत्संबन्धात् प्रभवनम् = प्रथमः प्रकाशः स प्रभवः, प्रथमप्रकाश एव प्रभवत्यर्थः । पञ्चम्यर्थः संबन्धाधीनत्वं तादृशक्रियायामन्वेति संबन्धे च हिमवदादेः प्रकृत्यर्थस्यान्वयः ।
,
2
11
विकृतित्वं चोपादेयकार्यस्वम् । तदवयवारभ्यत्वे सत्येव कार्यकारणयोः प्रकृतिविकृतिभावो भवति नान्यथेत्याह- तदवयवारम्यत्वेति । निगदव्याख्यातोयं ग्रन्थः ।
शङ्कते - न चेति । उत्तरमाह - ऋणेति, ऋणस्य हेतुत्वे " अकर्तर्वृणे पञ्चमी " इतिसूत्रेण पञ्चमी भवति ' शताद्वद्ध: ' इति, गुणस्य हेतुत्वे " विभाषा गुणेऽस्त्रियाम् " इति - सूत्रेण पचमी " - जाडयाद्वद्ध: : इति नान्यत्र । विपक्षे बाधकमाह - अन्यथेति । प्रकृतमाहतस्मादितिः । प्रकृते =" जनिकर्तुः प्रकृतिः " इत्यत्र । अस्ति चोक्तस्थले केकय्या बायोश्च कारणत्वमिति पञ्चमी । दण्डादिति - दण्डस्यापि कारणत्वेन प्रकृतित्वाद् दण्डपदात् पञ्चमीत्यर्थः * अत एव = प्रकृतिपदेन कारणस्यैव ग्रहणादेव, अप्रकृतित्वेपीति – न्यायमते परमात्मनः प्रपञ्चं प्रति निमित्तकारणत्वेनोपादानत्वाभावेपि परमात्मबोधकाद् यच्छब्दात् ८८ यतः " इति पञ्चमी प्राप्तेत्यर्थः । ननूक्तसूत्रे प्रकृतिपदेन कारणमात्रविवक्षायामपि " जनिकर्तुः " इत्यनेनोत्पत्तिकारणस्याऽपादानसंज्ञामात्रं भवति पञ्चमी तु अपादाने पञ्चमी " इतिसूत्रेणैव वक्तव्या सा च कारकपञ्चमी कारकत्वं च क्रियायोगाभावे : न भवतीति कथं पञ्चमी स्यात् हेतुपञ्चमी चोक्तक्रमेण ऋणगुणातिरिक्तपदार्थस्य हेतुत्वे नैव भवतीति
66
८८
यतः 19 इत्यत्र
<<
यतः " इत्यत्र कथं पञ्चमी स्यादित्याशङ्क्याह-न चेति । परिहारमाह- अगत्येति, क्रियाध्याहारे हि तादृशक्रियायोगेन कारकत्वापत्त्याऽपादानपञ्चम्येव बोध्येत्यर्थः ।
"Aho Shrutgyanam"
प्रयोगान्तरमुदाहरति - हिमवत इति । प्रभवनपदार्थमाह-प्रथमेति । तादृश क्रियायाम = प्रथमप्रकाशरूपप्रभवनक्रियायाम् । संबन्धे हिमवतो निरूपितत्व संबन्धेनान्वयः तथा च हिमवरसंघन्वाधीनप्रथमप्रकाशाश्रयो गङ्गेति शाब्दबोधः ।