________________
आख्यातोपयोगेत्यादिसूत्रोदाहरणम् ] व्युत्पत्तिवादः ।
( ४९५ )
न मुक्तं तत्कर्मकभोजनाप्रसिद्धावपि भोजनफले संयोगविशेषे तद्यवादिगतत्वेनेच्छाविषयत्वप्रसिद्धया तद्यवाद " गां वारयति ' इत्यादिप्रयोगोपपत्तिः । एवं च तत्र भक्षणादौ तद्यवादिकर्मकत्वगवादिकर्तृकत्वोभयाभावबोधाय केषां चित् प्रयासोऽनादेय एवेति ।
6
पण्डितात पुराणं शृणोति उपाध्यायाद्वेदमधीते रामादधीत संदेशः ' इत्यादावाख्यातुः " आख्यातोपयोगे ” इत्यनेनाऽपादानता, तत्र प्रकृत्यर्थपण्डि - तादिकर्तृकोच्चारणाधीनत्वं पश्चम्यर्थः, तस्य च श्रवणोच्चारणार्थविशेषज्ञानादिक्रियायामन्वयः ।
7
“
G
>
मृत्पिण्डाद् घटो जायते ' इत्यादौ "जनिकर्तुः इत्यनेनापादानत्वम, तत्र प्रकृतित्वं न विकारित्वम् - प्रकृतिविकृतिभावाभावेपि "प्राक् केकयीतो भरतस्ततोऽभूत् "" वायोर्जातः ' इत्यादौ पञ्चमीदर्शनात्. न हि सुतवपुषो मातापितृशरीरविकारत्वमपि तु तदीयशुक्रशोणितादिविकृतित्वमेव शुक्रशोणितादेः शरीरस्थत्वेपि मलमूत्रादेखि शरीरावयवत्वाभावात् तदवयवारभ्यत्वस्यैव तद्विकारतारूपत्वात् ।
*"
看
" Aho Shrutgyanam"
6
इति प्रयोगापत्तिः, सविषान्नगतत्वेनेच्छाविषय फलकत्वं भक्षणेऽस्तीति सविषान्नाद्वारयति ' इति प्रयोग उपपद्यते इत्यर्थः । इच्छान्तर्भावस्य फलान्तरमाह- अत एवेति । संयोगविशेषे = गलाधस्संयोगे । भोजनकर्मत्वासंभवेपि भोजनेच्छाविषयत्वं तु संभवत्येवेत्यर्थः । एवं चेति - यत्र यद्यवादिकर्मकभोजनमप्रसिद्धं तत्र भक्षणादौ तद्यवादिकर्मकत्वस्य गवादिकर्तृकत्वस्य चाभावबोधनाय यः खलु प्रयासविशेषः स न ग्राह्यः व्यर्थ एव-उक्तरीत्या मक्षणफले गलाधस्संयोगे इच्छाविषयत्वसत्त्वेपि भक्षणे तदूयवादिकर्मकत्वगवादिकर्तृकत्वयोरमावः स्वयमेव प्रतीयते इति तत्प्रतीत्यर्थं प्रयासविशेषस्य व्यर्थत्वादित्यर्थः ।
प्रयोगान्तरमुदाहरति- पण्डितादिति । आख्यातुः = वक्तुः पण्डितादेः । तस्य = उक्तपञ्चम्यर्थस्य । श्रवणेति - ' पुराणं शृणोति ' इत्यत्र श्रवणक्रियायां पञ्चम्यर्थान्वयः, 'वेदमधीते, इत्यत्रोच्चारणक्रियायां पञ्चम्यर्थान्वयः - उपाध्यायकर्तृकोच्चारणसदृशच्छात्र कर्तृकोच्चारणस्यैवाध्ययनपदार्थत्वादुक्तमुच्चारणेति, ' अधीतसन्देशः ' इत्यत्रार्थविशेषविषयकज्ञानक्रियायां पञ्चम्यर्थान्वयः, तथा च ' पण्डितकर्तृकोच्चारणाधीनश्रवणाश्रयः ' " रामकर्तृको चारणाधीन संदेशविषयकज्ञाना' इत्यादिः शाब्दबोधः ।
श्रयः
3.
प्रयोगान्तरमुदाहरति- मृत्पिण्डादिति । तत्र = " जनिकर्तुः प्रकृतिः " इतिसूत्रे | जनिकर्तुः = जायमानस्य । विकारित्वम् = उपादानकारणत्वम् । यदि सूत्रे प्रकृतिपदेनोपादानकारग्रहणं स्यात्तदा केकय्या भरतोपादानत्वाभावाद् वायोश्च रोगाद्युपादानत्वाभावात् ' केकयीतः ' 'वायो:' इत्यादौ पञ्चमी न स्यादित्यर्थः । उपादानत्वाभावमेवाह- न हीति । विकार