________________
सादर्श:
[ पञ्चमीकारके-
भावरूपधात्वर्थतावच्छेदकफलशालितया गवान्धादेः कर्मता । यवादिपदोत्तरपञ्चम्या यवादिगतत्वेने च्छाविषयफलकत्वं भक्षणादौ प्रत्याय्यते, इच्छा च भक्षणादिक्रियाकर्तृगवादिनिष्ठा तदर्थेऽन्तर्भावनीया: एवं चोक्तस्थले यवकूपादिनिष्ठत्वेन गवान्वादीच्छाविषयो यो गलाधस्संयोगोत्तरदेश संयोगादिर्गवादिनिष्टतत्तत्फलकव्यापारविशेषकर्तृत्वाभावानुकूलव्यापारानुकूलकृतिमानित्याकारको बोधः । अन्धादेर्यद्यपि कूपगमनत्वादिना नेच्छा तथाप्यभिमुखदेशगमनत्वादिना कूपगमनादरिच्छा वर्तत एवेति, वस्तुगत्या यः कूपादिदेशस्तद्गतत्वेन क्रियाजन्यसंयोगस्य तदिच्छाविषयत्वमक्षतमेव ।
न च प्रकृते यवकूपादिनिष्ठफलविशेषजनकत्वमेव पश्ञ्चम्यर्थोस्तु किमिच्छान्तर्भावेनेति वाच्यम्, यत्र चैत्रादेर्नान्तरीयकतया विषभोजनादिकं प्रसक्तं न तु स्वेच्छातस्तत्र तद्भोजन विरोधिव्यापारकर्तरि चैत्रं विषाद्वारयति ' इति न प्रयोगोऽपि तु ' सविषान्नाद्वारयति ' इत्यादिरेव तत्र पूर्वप्रयोगवारणाय सूत्रकृता ईप्सितः " इत्यत्र सन्प्रत्ययेनेच्छोपदानात्, अत एव यद् यवादिकं केनापि
( ४९४ )
"L
८
गवादौ भक्षणादिकर्तृत्वं निवर्तेत स एव व्यापारः प्रतिषेधः । तथा च वारणं हि कर्तृत्वाभा वानुकूलव्यापार एव तत्र धात्वर्थतावच्छेदकं फलं कर्तृत्वाभावस्तादृशफलाश्रयतयाः गवान्धादेः कर्मत्वमित्याह - कर्तृत्वाभावरूप इति । पञ्चम्यर्थमाह- यवादीति, यवादिगतत्वेनेति तृतीयार्थः प्रकारत्वम्, यवादिगता येच्छा तादृशेच्छाविषयीभूतं फलं गलाधस्संयोगादिरूपं तत्फलकत्वं भक्षयादौ पञ्चम्या प्रत्याय्यते - यवादिगलाधः संयोगफलकं भक्षणमित्यर्थः । तदर्थे= उक्तपञ्चम्यर्थे । उक्त प्रयोगयोर्वाक्यार्थस्वरूपमाह - एवं चेति । गवादिनिष्ठेति - गवादिनिष्ठो यस्तत्तत्फलकन्या"पारविशेषः–गलाधस्संयोगोत्तरदेशसंयोगादिफलको भक्षणगमनादिव्यापारस्तत्कर्तृत्वाभावानुकूलव्यापारो वारणव्यापारस्तदनुकूलकृतिमान् वारको चैत्रादिरित्यर्थः । ननु नान्धः कूपमुद्दिश्य गच्छति येनान्धस्य कूपगमनेच्छा स्यादित्याशङ्क्याह---अन्धादेरिति । अत्र स्वमतमाह-वस्तुगत्येति । यः =अभिमुखीभूतः । तदिच्छाविषयत्वम् = अन्धेच्छाविषयत्वम् ।
แ
ननु पञ्चम्या भक्षणादौ प्रतीयमानस्य यवादिगतत्वेने च्छा विषयफलकत्वस्य यत् पञ्चम्यर्थत्वं आप्तं तन्न युक्तमिच्छान्तर्भावस्य व्यर्थत्वादिति वारणे यद् यवकूपादिनिष्ठविभागरूपफलस्य जनकत्वं तदेव पञ्चम्यर्थो युक्त इत्याशङ्क्याह- न चेति । उत्तरमाह - यत्रेति, न प्रयोगः " इत्यत्र भवतीति शेषः । पूर्वप्रयोगवारणाय = ' चैत्रं विषाद्वारयति ' इतिप्रयोगवारणाय । सूत्रका - रेणेच्छाया उपादानादस्माभिरपि पूर्वप्रयोगवारणाय पञ्चम्यर्थे इच्छाया अन्तर्भावः कृतः, अन्यथा सविषान्न भोजनवारणेनान्नादिव विषादपि भक्षकस्य विभागो जात एवेति तादृशविभागजनकत्वस्य वारणव्यापारे सत्त्वात् ' चैत्रं विषाद्वारयति ' इत्यप्युक्तस्थले प्रयोगः स्यात् न चैतदिष्टम् । इच्छान्तर्भावे चोक्तस्थले विषगतत्वेने च्छाविषयफलकत्वं भक्षणे नास्तीति न ' विषाद्वारयति
"Aho Shrutgyanam"