________________
वारणार्थानामितिसूत्रोदाहरणम् ] व्युत्पत्तिवादः ।
यज्जन्यं दुःखं कस्यापि न प्रसिद्धयति तादृशस्याप्यहिकण्टकादेरपादानत्वं कथमिति चेत् ?, तर्हि यन्निष्ठस्वदुःखोपधाय कव्यापारविरहानुकूलव्यापारस्तदपादानकं स्वकर्मकरक्षणमिति वक्तव्यम् । घटाद्यचेतनकर्मकं च रक्षणं विनाशोपarunserer वरहगर्भ निर्वाच्यम् ।
'यवेभ्यो गां वारयति कूपादन्धं वारयति' इत्यादौ "वारणार्थानाम " इत्यनेन यवकूपादेरपादानत्वम् कारणं क्रियाप्रतिषेधस्तदर्थकधातुयोगे ईप्सितः -- तत्रक्रियाजन्यफलभागितया तत्तत्क्रियाकर्तुरभिप्रेतोऽपादानमिति सूत्रार्थः, क्रिया च भक्षणगमनादिरूपा, तात्पर्यवशात् क्वचित् कस्याश्चित् प्रतिषेधो वारयत्यादिना बोध्यते, प्रतिषेधः कर्तुत्वाभावानुकूलव्यापारः । कर्तृत्वाजकं व्याघ्रादि, तत्=अपादानं भवति इत्यपरः सूत्रार्थ: । तत्र प्रथमेन सूत्रार्थेन वीरमुद्दिश्य व्याघ्राद्विभेति ' इतिप्रयोगोपपत्तिः, द्वितीयेन सूत्रार्थेन 'दस्युम्यो रक्षति इतिप्रयोगोपपत्तिरिति विवेकः । अनिष्टानां नानात्वेनाऽनुगतस्वरूपमाह- अनिष्टमिति ।
7
ननु ' कण्टकादात्मानं रक्षति ' इत्यादिस्थळे तत्कण्टकादितः कस्यापि दुःखमेव प्रसिद्धं नास्ति येन तादृशदुःखनिवृत्यनुकूलव्यापारार्थकधातुयोगे कण्टकादेरपादानत्वं स्यादित्याशङ्कते - यज्जन्यमिति । उत्तरमाह - तर्हेति, यथा यनिष्ठ: - कण्टकनिष्ठः स्त्रदुःखोपधायकः = स्वदुःखजनको वेधनरूपो व्यापारस्तादृशव्यापारविरहा ( निवृत्य ) ऽनुकूलोऽपसरणादिरूपो व्यापार एव तदपादानकम्== कण्टकाद्यपादानकं स्वकर्मकरक्षणं तत्रास्तीति तादृशत्राणार्थ करक्षधातुयोगेन अनिष्टजनककण्टकादेरपादानत्वं प्राप्तमित्यर्थः किं चात्र प्रयोज्यत्वं पञ्चम्यर्थस्तदन्वयस्य दुःखे बाधेपि दुःखसंभावनायां न बाध इति तादृशसंभावनयैव स्वरक्षणं कण्टकादित आव-श्पकमिति ज्ञेयम् । ननु चेतनगतानिष्टसंभवात्तस्य रक्षणं संभवति घटाद्यचेतनस्य स्वनिष्टमेव भयादिकं न संभवतीनि कथं तद्रक्षणमुपपद्येत तादृशधातुयोगे च कथं कस्यचिदपादानत्वं स्यादित्याशङ्क्याह-- घटादीति । विनाशोपधायकव्यापारविरहगर्भमिति- यन्निष्ठविनाशोपधायकव्यापार निवृत्त्यनुकूलव्यापारस्तदपादानकं घटादिरक्षणमिति वाच्यं यथा बालनिष्ठो यो घटविनाशजनक व्यापारस्तन्निवृत्त्यनुकूलव्यापार एव बालापादानकं घटरक्षणमस्तीति बालस्यापादानत्वं प्राप्तमिति ' बालाद् घटं रक्षति ' इत्यादिप्रयोगः संभवतीत्यर्थः । बालकर्तृकघटनाशानुकूलव्यापारं निरुणद्धि ' इति शाब्दबोधः ।
८
प्रयोगान्तरमुदाहरति-- यवेभ्य इति । तदर्थकधातुयोगे वारणार्थकधातुयोगे । तत्तत्क्रियाजन्यफलभागितया वारणादिक्रियाजन्य विभागरूप फळभागितया ( वारणेन यवेभ्यो गोर्विभागो भवति ) तत्तत्क्रियाकर्तुः = त्रारणादिक्रियाकर्तुरभिप्रेतो यवादिरपादानं भवति, कूपोप्यन्धप्रतियोगिकविभागरूपफलभागित्वेन रूपेण वारणकर्तुरभिप्रेत एवेति विज्ञेयः । क्रियाप्रतिषेधः " इत्यत्रत्यक्रियापदार्थमाह- क्रियेति । प्रतिषेधपदार्थमाह- प्रतिषेध इति, येन व्यापारेण
"Aho Shrutgyanam"
(४९३ )