________________
( ४९२ )
सादर्श:
[ पञ्चमीकारके
व्याघ्राद्विति दस्युभ्यो रक्षति' इत्यादौ " भीत्रार्थानां भयहेतुः " -इत्यनेनाऽपादानत्वम् । भयं चः परतोऽनिष्टसंभावना, त्राणं चानिष्टनिवृत्त्यनुकुलो व्यापारः तदर्थकधातुयोगे तादृशानिष्टप्रयोजकमपादानसंज्ञमिति सूत्रार्थः, एवं च पञ्चम्यर्थस्तत्र प्रयोज्यत्वं तच्च निरुक्तधात्वर्थघटकाऽनिष्टेऽन्वेति ।
7 “
णम्
अथ यस्य व्याघ्राधीनं भयमप्रसिद्धमऽथ च व्याघ्राधीनत्वेनासौ स्वीयमरणाकिं संभावयति तत्पुरुषपरः ' व्याघ्रादयं विभेति' इति कथं प्रयोगः प्रमाअनिष्टे व्याघ्राधीनत्वस्य बाधादिति चेत् ?, भयार्थकधातुयोगे प्रयोज्यतापकारकत्वं पञ्चम्यर्थस्तच्चानिष्टसंभावनायामन्वेति प्रकृते च व्याघ्राधीनत्वस्य तत्पुरुषीयाऽनिष्टे बाघेप्यऽनिष्टसंभावनायां तत्प्रकारकत्वमबाधितमेवेति नानुपपत्तिः । एवं च शत्रुभ्रमेण मित्रादपि 'विभेति' इत्यादिवाक्यस्यापि प्रामायनिर्वाहः । एवं च भयार्थकधातुयोगे भयहेतुत्वेन संभावितमपादानमित्येकः सूत्रार्थ:, अनिष्टविरहानुकूलव्यापाररूपत्राणार्थकधातुयोगे तदनिष्टप्रयोजकं तदित्यपरः । अनिष्टं च दुःखमेव सर्वत्रानुगतम् ।
८
प्रयोगान्तरमुदाहरति- व्याघ्रादिति । तदर्थकधातुयोगे=मीत्रार्थकधातुयोगे ( मयार्थकत्राणार्थधातुयोगे ) । अनिष्टप्रयोजकम् = व्याघ्रादि । तथा च व्याघ्नाद्विमेति ' इत्यत्र ' व्याघ्रप्रयोज्यानिष्टसंभावनाश्रयः' इति 'दस्युभ्यो रक्षति ' इत्यत्र च दस्युप्रयोज्यानिष्टनिवृत्त्यनुकूलव्यापाराश्रयः ' इति शाब्दबोधः ।
८
प्रका
शङ्कते - अथेति । यस्य वीरस्य । उक्तप्रयोगाऽप्रामाण्ये हेतुमाह- अनिष्ट इति, यद्यपि मरणमप्यनिष्टमेव तत्र च व्याघ्राधीनत्वस्य न बाधस्तथाप्यत्रानिष्टं मयमेव ग्राह्यं न मरणं भये च व्याघ्राधीनत्वं नास्त्येव - वीरस्य व्याघ्रप्रयोज्यभयस्याऽसंभवादित्यर्थः । अनिष्टपदेन मरणस्यैव ग्रहणे तु मरणसंभावनायां व्याघ्राधीनत्वस्य ( व्याघ्रप्रयोज्यत्वस्य ) सत्त्वेपि वीरमरणे व्याघ्राधीनत्वं नास्ति व्याघ्रमरणे एव वीराधीनत्वसंभवादित्येवं मरणलक्षणानिष्टे व्याघ्राधीनत्वस्य बाधो व्याख्येयः । उत्तरमाह - भयार्थकेति, प्रयोज्यता = प्रकृत्यर्थव्याघ्रादिप्रयोज्यता तत्प्रकारकत्वं तादृशप्रयोज्यताप्रकारकसंभावनायामन्वेति - उक्तसंभावनायामुक्त प्रयोज्यतायाः रतया भासमानत्वात्, व्याघ्रादिप्रयोज्यानिष्टसंभावनाश्रयः ' इतिशाब्दबोधोदयादित्यर्थः । अनेन व्याघ्रादिनिरूपितप्रयोज्यताप्रकारकानिष्टसंभावना तु वीरस्यापि संभवत्येवेति लब्धम् । एतदेवाह - प्रकृते इति । तत्प्रकारकत्वम् व्याघ्रादिनिरूपितप्रयोज्यताप्रकारकत्वं । नानुपपत्तिः = वीरमुद्दिश्यापि ' व्याघ्रादयं बिभेति ' इतिप्रयोगस्यानुपपत्तिर्नास्तीत्यर्थः । एवं च =अनिष्टसंभावनायामुक्तप्रयोज्यताप्रकारकत्वनिवेशात् । मित्रादनिष्टबाधेप्यनिष्टसंभावनाया बाबामावात् ' मित्राद्विमेति ' इतिवाक्यस्यापि प्रामाण्यमुपपन्नम् । द्विधा सूत्रार्थमाह- एवमिति । अनिष्टविरहः =अनिष्टनिवृत्तिः 1 तदनिष्टप्रयोजकम् उक्ततादृशा ( संभाविता ) ऽनिष्टप्रयो
&
"Aho Shrutgyanam"