________________
पञ्चम्यर्थविचारः }
व्युत्पत्तिवादः ।
व्यभावेन भासमानयोरेव फलव्यापारयोर्विषयताद्वयमवच्छेद्यावच्छेदकभावापनमिति तथैव तयोर्भानम् । पुष्पवन्तपदसंकेते च चन्द्रसूर्यविषयतयोरवच्छेद्यावच्छेदकभावो न भासतेऽतस्तयोर्विशृङ्खलमेव भानमिति न काप्यनुपपत्तिः ।
यादे च ' वृक्षात् स्पन्दते ' इत्यादिने प्रयोगस्तदा सकर्मकधातोः फलविशिष्टव्यापारवाचकतामते पञ्चम्यर्थविभागजनकत्वबोधे विभागानवच्छिन्न फलावच्छिन्नव्यापारविषयकधातुशक्तिज्ञानजन्योपस्थितिः फलव्यापारयोर्वैशिष्टयानुपरक्तयोर्धात्वर्थतामते च संकेतीयबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वफलान्तरविषयकत्वावच्छिन्नत्वोभयावगाहिज्ञानजन्योपस्थितिः कारणमभ्युपगन्तव्येत्यलमधिकेन ।
रप्यवच्छेद्यावच्छेदकभावः स्यादिति तयोः = फलव्यापारयोस्तथैव = विशेषणविशेष्यभावेनैव मानं संभवतीत्यर्थः । न चैवं कर्माख्यातस्थले विशेषणविशेष्यभाववैपरीत्याऽसंभवात् फलस्य विशेष्यतया भानं न स्यादिति शङ्क्यं कर्माख्यातेनापि फलोपस्थितिस्वीकारात् तत्र धातूपस्थितफलस्य व्यापारविशेषणतया कर्माख्यातोपस्थितफलस्य व्यापारविशेष्यतया मानाद् अत एव 'ग्रामो गम्यते ' इत्यत्र संयोगानुकूलव्यापारजन्यसंयोगाश्रयो ग्राम इत्येवं बोधः स्वीक्रियते अत्र च संयोगरूपफलस्य द्विवामानमस्तीति विज्ञेयम् । सकर्मकधातोर्हि नियमेन फलव्यापारयोबाधो भवतीत्यु - क्तम्- सकर्मक धातुतोपीति । पुष्पवन्तपदविशेषमाह - पुष्पवन्तपदसंकेत इति । तयो:चन्द्रसूर्ययोः । सर्वमिदं शक्तिवादे स्पष्टम् |
श्रीमद्गदाधर भट्टाचार्यस्त्यजधातुवत् स्पन्दधातुमपि भ्रान्त्या सकर्मकं मत्वा तद्योगेन 'वृक्षात् स्पन्दते ' इति प्रयोगवारणोपायमाह- यदि चेत्यादिना । स्पन्दधातौ सकर्मकत्वभ्रान्त्यभावे 'वृक्षात् स्पन्दते' इति प्रयोगवारणाम " सकर्मकधातोः" इत्यादिनात्र सकर्मकधातुमुद्दिश्य पञ्चम्यर्थान्वयनिर्वचनमनुपपन्नमेव स्याद् अकर्मकधातोरेवैतादृशनिर्वचनस्य युक्तत्वादिति चिन्त्यम् | स्पन्दधातोः फलावच्छिन्न व्यापारवाचकत्वमेव नास्तीति न स्पन्दधातूपस्थितव्यापारे पञ्चम्यर्थविभागजनकरखान्वयापत्तिः, तथा स्पन्दधातुसंकेतीयबोधनिष्ठविषयतायां फलान्तरविषयकत्वावच्छिन्नत्वमेव नास्तीति फलव्यापारयोर्वैशिष्ट्यानुपरक्तयोर्धात्वर्थतामते = फलव्यापारयोर्धातोः पृथक् शक्तिस्वीकारमतेपि स्पन्दधातूपस्थितव्यापारे न पञ्चम्यर्थ विभागजनकत्वान्वयापत्तिरिति न ' वृक्षात् स्पन्दते ' इति प्रयोगापत्तिः । एवं सकर्मकत्यजधातोर्विभागावच्छिन्नव्यापारबोधक - त्वात् त्यजधातुसंकेतीयबोधनिष्ठविषयताया विभागविषयकत्वेनावच्छिन्नत्वाच्च न 'वृक्षात् व्यजति' इत्यपि प्रयोगापत्तिः । एतत्कार्यकारणभावस्य सकर्मकधातुस्थलीयत्वेन पतत्यादियोगे प्राप्तेरभावात् वृक्षात् पतति विभजते ' इत्यादयः प्रयोगा भवन्ति । 'ग्रामाद् गच्छति' इत्यत्र धातोः सकर्मकत्वाद् विभागेतरसंयोगरूपफलावच्छिन्न व्यापारबोधकत्वादेवाऽनेन कार्यकारणभावेन धातूपस्थितव्यापारे पञ्चम्यर्थविभागजनकत्वान्वयः संभवत्येवेति ' ग्रामाद् गच्छति' इति सिद्धमित्यर्थः ।
८
"Aho Shrutgyanam"
( ४९१ )