________________
(४९०)
सादर्श:
{ पञ्चमीकारकेतरविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं क्रियांशे विभागजनकत्वरूपपश्चम्यान्वयबोधे च तादृशबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयते इति त्यजधातोस्तादृशज्ञानमभ्रान्तस्याऽसंभवीत्यऽतिप्रसङ्गानवकाशाद । शक्तिद्वयादिवद् दर्शितैकशक्तेरपि कर्मप्रत्ययस्थले फलव्यापारयोर्विशेषणविशेष्यभाववैपरीत्येन शाब्दबोधसंभवात्, विशिष्टशक्तावेव विशेषणविशेष्यभावविपर्यासाऽनिर्वाहात् ।
यदि च फलव्यापारयोः शक्तिभेदे एकार्थपरित्यागेनाऽपरार्थबोधप्रसङ्गवद् उक्तरूपसंकेतोपगमपि पुष्पवन्तपदशक्त्यविशेषेण तत इव सकर्मकधातुतोपि विशेषणविशेष्यभावानापन्नस्यैवाऽर्थद्वयस्यान्वयबोधः स्यान्न तु तदापन्नार्थद्वयविषयक इत्युच्येत ? तदा संकेतस्य बोधांशे विशेषणतया भासमानयोः फलव्या
पारविषयकत्वयोरवच्छेद्यावच्छेदकभावावगाहित्वमपि स्वीकरणीयं विशेषणविशेविभागेतरो यो व्यापारस्तद्विषयकत्वावच्छिन्नैवास्तीति न ' वृक्षात् त्यजति । इत्यत्र विभागे पञ्चम्यर्थावधिमत्त्वान्वयापत्तिस्तथा क्रियायां विभागजनकत्वरूपपञ्चम्यान्वयबोधं प्रति तादृश: संकेतीयबोधनिष्ठविषयतांशे विभागविषयकत्वानवच्छिन्नत्वावगाहिधातुशक्तिज्ञानं हेतुरुपेयते अत्र चोक्तरीत्या फलव्यापारयोर्धातोरेकशक्तेः स्वीकारात् । संकेतीयबोधनिष्ठविषयता विभागविषयकत्वेनाऽवच्छिन्नेवास्तीति न क्रियायां पञ्चम्यर्थविभागजनकत्वान्चयापत्ति:- त्यजधातुतस्तादृशज्ञानम्-संकेतीयबोधनिष्ठविषयतायां विमागेतरविषयकत्वानवच्छिन्नत्वावगाहिज्ञानं वि मागवि षयकत्वानवच्छिन्नत्वावगाहिज्ञानं चाऽभ्रान्तस्य न संभवतीति अतिप्रसङ्गः त्यजधातूपस्थिते व्यापारे विमागजनकत्वस्य विभागे चावधिमत्त्वस्य पञ्चम्यर्थस्यान्वयातिप्रसङ्गो नास्तीत्याहतयोरित्यादिना । ननु फलव्यापारयोरेकशक्तिस्वीकारे हि यत्कर्माख्यातस्थले फलस्य विशेष्यत्वं भवति कळख्यातस्थले च व्यापारस्य विशेष्यत्वं मवति तादृशविशेषणविशेष्यभाववैपरीत्यं न स्यादित्याशङ्क्याह- शक्तिद्वयेति । विशिष्टशक्तावेव विशेषणविशष्यभाववैपरीत्यं न भवति न चात्र फलव्यापारयोर्धातोरेकशक्तिस्वीकारेपि विशिष्टशक्तिरुपेयते पुष्पवन्तपदशक्तिवदित्यर्थः । “ दार्शतेकशक्तेः" इति पञ्चम्यन्तम् । ___ यदीति- यदि फलव्यापारयोः पृथक् शक्तिस्वीकारे एकार्थपरित्यागेनाऽपरार्थबोधप्रसङ्गवद् उक्तरूपस्य= फलविषयकव्यापारविषयकबोधं जनयतु धातुपदम्। इत्याकारकसंकेतस्य स्वीकारेपि पुष्पक्तपदशक्तितुल्यत्वेन ततः पुष्पवन्तपदाद् यथा विशेषणविशेष्यभावानापन्नयोरेव चन्द्रसूर्ययोर्बोधो भवति तथा सकर्मकधातुतोपि अर्थद्वयस्य-फलव्यापारयोविशेषणविशेष्यभावानापन्नयोरेव बोधः स्यान्न तु तदापन्न विशेषणविशेष्यमावापन्नयोरित्युच्यते तदा बोधांशे विशेषणतया भासमानयोः फलविषयकत्वव्यापारविषयकत्वयोरवच्छेद्यावच्छेदकभावावगाहित्वमपि संकेतस्य स्वीकार्य तथा च फलव्यापारयोविशेषणविशेष्यभावेन माने एव फलविषयताव्यापारविषयतयो
"Aho Shrutgyanam"