________________
पचम्यर्थविचारः ]
व्युत्पत्तिवादः ।
( ४८९ )
योः पञ्चम्यर्थविभागजनकत्वावधिमत्त्वान्वयाऽसंभव इति वाच्यम्, फलव्यापारयोः पृथग् धात्वर्थतामते त्यजधातोरपि प्राधान्येन विभागस्य तदनवच्छिन्नस्पन्दस्य चोपस्थित्या तदुपस्थितिविषयतादृशार्थयोरपि तत्तत्पञ्चम्यर्थान्वयसंभवादिति चेत् ?,
न - फलावच्छिन्नव्यापारस्य धात्वर्थतामते उक्तरीत्यैव सामञ्जस्यात्, तयोः पृथग धात्वर्थतामते च फलविषयकञ्यापारविषयकबोधं जनयतु धातुपदमित्येतादृशेच्छारूपा फलव्यापारयोरेकैव शक्तिः पुष्पवन्तादिपदवद् न तु फलविषयकं. व्यापारविषयकं च बोधं जनयत्वितिसमूहालम्बनात्मकबोधनिष्ठा तत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिस के तरूपा तथा सति नानार्थत्वाविशेपेण कदाचित् फलव्यापारयोरेकैकपरित्यागेनाप्येकैकस्य बोधप्रसङ्गात् तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधे संकेतीयबोधनिष्ठ विषयत्वांशे विभागेच व्यापारविशेषणतयैवोपस्थितिर्भवति न तु मुख्यविशेष्यतयेति न तादृशविभागेऽवधिमत्त्वान्वयापत्तिरिति न वृक्षात् त्यजति ' इति प्रयोगापत्तिरित्याशङ्क्याह- न चेति । उत्तरमाहफलव्यापारयोरिति । त्यजधातोरिति पञ्चम्यन्तम् । तदनवच्छिन्नस्पन्दस्य=विभागानवच्छिन्नव्यापारस्य । तादृशार्थयोरिति सप्तम्यन्तम् । तदुपस्थितिविषयतादृशार्थयोः त्यजधातुजन्योपस्थितिविषययोरपि व्यापारविभागयोस्तत्तत्पञ्चम्यर्थस्य विभाग जनकत्वस्यावधिमत्त्वस्य चान्वयः संभवत्येवेति वृक्षात् त्यजति ' इति प्रयोगः कथं न स्यादित्यन्वयः ।
८
अथेत्यादिना शकित परिहरति-नेति, विभागावच्छिन्नव्यापारस्य त्यजधात्वर्थतामते उत्तरीत्यैव="पञ्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानवच्छिन्नव्यापारोपस्थितिस्ताशामियान्वयबोधे च धातुजन्य विभागमुख्य विशेष्यको पस्थितिर्हेतुः " इत्युक्तरीत्यैव सामअस्यम् । तयोः = विभागव्यापारयोः पृथग् धात्वर्थतामते च फलव्यापारयोः = विभागव्यापारयोः 'फलविषयकव्यापारविषयकबोधं जनयतु धातुपदम् ( त्यजवातुपदम् ) इत्याकारिकैकैव भगवदिच्छारूपा शक्तिः स्वीक्रियते न तु ' फलविषयकं व्यापारविषयकं च बोधं जनयतु धातुपदम् ' इत्याकारिका, एतादृशसमूहालम्बनात्मकबोधनिष्ठा हि संकेतरूपा शक्तिस्तत्तद्विषयकत्वावच्छिन्नविभिन्नविषयताशालिन्यस्ति तत्तद्विषयकत्वेन = फलविषयकत्वेन व्यापारविषयकत्वेन चावच्छिना या विभिन्नविषयता = फलव्यापारयोर्विषयता तच्छालित्वात् तथा सति = 'फलविषयकं व्यापारविषयकं च बोधं जनयतु ' इत्याकारकसमूहालम्बनात्मकं शक्तिस्वीकारे तादृशषातुपदस्य नानार्थत्वमेव स्यात् तथा च फलं विनापि व्यापारस्य व्यापारं च विना फलस्य धातुपदेन बोधः स्याद् न चैवं भवतीति ' फलविषयकव्यापारविषयकबोधं जनयतु धातुपदम् ' इत्याकारिका फलव्यापारयोर्धातोरेकैव शक्तिः स्त्रीक्रियते तथा च विभागे पञ्चम्यर्थावधिमत्त्वान्वयबोधं प्रति संकेतीयबोधनिष्ठविषयतांशे विभागेतरविषयकत्वेनाऽनवच्छिन्नत्वावगाहि धातुशक्तिज्ञानं हेतुरुपेयते अत्र चोक्तरीत्या फलव्यापारयोर्धातोरेकशक्तेः स्वीकारात् संकेतीयबोधनिष्ठविषयता
"
"Aho Shrutgyanam"
"