________________
(४८८)
सादर्श:
[ पञ्चमीकारके-- अथ 'वृक्षात् पतात' ' वृक्षाद्विभजते ' इतिवत् — वृक्षात् त्यजति ' इत्यादिः कथं न प्रयोगः- पञ्चभ्यर्थस्य विभागजनकत्वस्य विभागावच्छिन्नक्रियारूपत्यागेऽवधिमत्त्वरूपपञ्चम्यर्थस्य च विभागरूपधात्वर्थतावच्छेदकफलेऽन्वये बाधकाभावात् । नच विभागावच्छिन्नक्रियायां विभागान्वयोऽव्युत्पन्न:-उद्देश्यतावच्छेदकविधेययोरैक्पादिति वाच्यम्, जनकतासंबन्धेन विभागावच्छिन्ने प्रकृत्यर्थविशेषितविभागजनकत्वान्वये व्युत्पत्तिविरोधविरहात् । न च पञ्चम्यर्थविभागजनकत्वाऽवधिमत्त्वयोरन्वयबोधे धातुविशेषाधीनव्यापारविभागोपस्थितेर्हेतुत्वोपगमात्तदभावेन त्यजधातूपस्थिततत्तदर्थे न पञ्चम्यन्वय इति वाच्यम्, त्यजिपत्योस्त्यजिविभज्योश्च पर्यायताभ्रमदशायां त्यजत्यर्थव्यापारविभागयोः पञ्चम्यान्वयात् त्यजधातुजन्यतत्तदर्थोपस्थितेरपि पञ्चम्यान्वयहेतुताया अवश्यं वाच्यत्वात्। न च पश्चम्यर्थविभागजनकत्वान्वयबोधे धातुजन्यविभागरूपफलानवच्छिन्नव्यापारोपस्थितिस्तादृशावधिमत्त्वान्वयबोधे च धातुजन्यविभागमुख्यविशेष्यकोपस्थितिहेतुरिति त्यजधातुजन्यविभागावच्छिन्नव्यापारोपस्थितिविषयव्यापारविभाग
ननु त्यजधातोरपि विभागावच्छिन्नक्रियाबोधकत्वात् तदर्थक्रियायां पश्चम्पर्थस्य विभागजनकत्वस्य विभागे च पञ्चम्पर्थभूतावधिमत्त्वस्याऽन्वयसंभवात् 'वृक्षात् त्यजति ' इति प्रयोगः कथं न स्यादित्याशङ्कते-अथेति । उक्तरीत्याऽपादानताया अवधितारूपत्वेऽवधिमत्त्वस्य पञ्चम्यर्थस्वं प्राप्तमिति विज्ञेयम् । शङ्कते-न चेति, विभागावच्छिन्नक्रियाया विभागान्वये विभागावच्छिन्नक्रियाया उद्देश्यस्वादुद्देश्यतावच्छेदकत्वमपि विभागस्येच प्राप्तं विधेयत्वमपि विभागस्यैव प्राप्तमिति ज्ञेयम् । परिहारमाह-जनकतेति, विभागविच्छिन्न कर्मणि विभागस्योदेश्यतावच्छेदकत्वेपि विधेयत्वं विभागस्य नास्ति किं तु वृक्षविशिष्टविभागजनकत्वस्येति नोक्तव्युत्पत्तिविरोध इत्यर्थः । ननु पञ्चम्यर्थभूतविभागजनकत्वावधिमत्त्वयोविभजत्यादिधातुविशेषोपस्थितयोरेव व्यापारविभागयोरन्वयो भवति न तु त्यजधातूपस्थितयोरपि व्यापारविभागयोरिति ' वृक्षात् त्यजति । इत्यत्र तदभावेन व्यापारविभागयोविभजत्यादिधातुविशेषजन्योपस्थित्यभावेन त्यजधातूपस्थितव्यापारविभागयोः पञ्चम्यर्थभूतविभागजनकत्वावधिमत्त्वयोरन्वयो न संभवतीत्याशङ्कयाह- न चेति । उत्तरमाह- त्यजिपत्योरित्यादिना, त्यजधातोर्विपूर्वकमजधातोश्च पर्यायताश्रमदशायां त्यजधातूपस्थितयोरपि व्यापारविभागयोः पञ्चम्यर्थभूतविभागजनकत्वावधिमत्त्वयोर्यथाक्रममन्वयस्येष्टत्वाद् अन्यत्रापि त्यजधातुजन्यव्यापारविभागयोरुपस्थितेः पञ्चभ्यर्थान्वयहेतुत्वं प्राप्तमिति तादृशान्वयसंभवात् ' वृक्षात् त्यजति । इति प्रयोगः स्यादेवेति प्राप्तं न चैतदिष्टमित्यर्थः । ननु विमागानवच्छिन्न व्यापारे एव विभागजनकत्वस्यान्वय इष्टस्तथा मुख्यविशेष्यतयोपस्थितविभागे एवावधिमत्त्वस्यान्वय इष्टः, त्यजधातुना च विभागावच्छिन्नस्यैव व्यापारस्योपस्थितिर्भवतीति न तत्र विभागजनकत्वान्वयापत्तिः, विभागस्य
"Aho Shrutgyanam"