________________
पञ्चम्यर्थविचारः] व्युत्पत्तिवादः।
(४८७) नताया अवधितारूपत्वाद्, वृक्षाद्यवधिकत्वविशिष्टविभागनिरूपितमेवाश्रयत्वमाख्यातेन बोध्यतेऽतः 'वृक्षः स्वस्माद्विभजते ' इति न प्रयोगः । यथा हि स्वप्रतियोगिकत्वविशिष्टसंयोगः स्वस्मिन्न वर्तते तथा स्वावधिकस्य विभागस्य स्ववृत्तित्वपि स्वस्य न विशिष्टविभागाधिकरणत्वमित्यऽविवादमेव । अवधित्वादिकं च स्वरूपसंबन्धविशेषः।। ___ यदा विभागोऽधिकरणता प्रयोजकत्वं च 'वृक्षात् पतति । इत्यादौ पश्चम्यर्थः, विभागे स्वावधिकत्वसंबन्धेन प्रकृत्यर्थान्वयः तद्विशिष्टविभागस्य निरू. पितत्वविशेषसंबन्धेनाधिकरणतायामन्वयः, पत्रादिकर्मणि च न तदवधिकत्वविशिष्टविभागनिरूपितान्यमात्रनिष्ठाधिकरणताप्रयोजकत्वम्- कारणस्यापि स्वा
श्रयनिष्ठकार्याधिकरणतामात्रप्रयोजकत्वादिति सामञ्जस्यम् । विभागनिरूपिताश्रयत्वमाख्यातेन बोध्यते । विभागे वृक्षावधिकत्ववैशिष्टयस्य फलमाह-अत इति, स्वावधिकविभागः स्वस्मिन्न संभवति किं तु परावधिक एवेति वृक्षे वृक्षावधिकविभा. गासंभवात् ' वृक्षः स्वस्माद्विभजते ' इतिप्रयोगापत्तिर्नास्तीत्यर्थः । अत्र विनिगमकमाहयथेति, यथा स्वप्रतियोगिकत्वविशिष्टः संयोगः स्वस्मिन्न वर्तते तथा स्वावधिकत्वविशिष्ट विभागोपि स्वस्मिन्न वर्तते इत्यर्थः । स्वावधिकविभागस्य स्ववृत्तित्वे स्वस्य कथं विशिष्ट= स्वावधिकत्वविशिष्टविभागाधिकरणत्वं नेति चेत् ? स्ववृत्तिविभागे स्वावधिकेपि स्वावधिकत्ववैशिष्टयं न स्वीक्रियते किं तु स्वावधिकत्वोपलक्षितत्वमेव स्वीक्रियते इति भावः । अपादानताभूतावधित्वस्य स्वरूपमाह-अवधित्वादिकमिति ।
* वृक्षात् पतति ' इत्यत्र पक्षान्तरमाह- यद्वेति । विभागोऽधिकरणता प्रयोजकत्वं चेति त्रयं पृथक् पृथगेव पञ्चम्यर्थः । प्रकृत्यर्थस्य वृक्षस्य । तद्विशिष्टविभागस्य वृक्षविशिष्टविभागस्य । अधिकरणतायाश्च निरूपितत्वसंबन्धेन प्रयोजकत्वेऽन्वयः । प्रयोजकत्वस्याश्रयत्वसंबन्धेन पत्रादिनिष्ठपतनादिक्रियायामन्वय इति पदार्थनिर्देशः । पत्रकर्मणि च तदवधिकत्ववृक्षावधिकत्वविशिष्टविभागनिरूपिताधिकरणताया वृक्षनिष्ठाया एव प्रयोजकत्वमस्ति न तु पत्रान्यमात्रनिष्ठाया अपीति ' पत्रं वृक्षात् पतति न भूतलात् ' इत्यादौ वृक्षावधिकत्वविशिष्टविभागनिरूपिताधिकरणतायाः पत्रक्रियया भूतलादावापत्तिर्नास्त्येवेति नजा वृक्षावधिकत्वविशिष्टविभागनिरूपितभूतलनिष्ठाधिकरणताप्रयोजकत्वस्य पञ्चभ्यर्थस्याभावः पत्रपतने बोध्यते इत्येवंरीत्यापि नोक्तयोग्यतानुपपत्चिरित्यर्थः । उक्त विनिगमनामाह-कारणस्येति । स्वाश्रयनिष्ठं यत्कार्यं तदधिकरणतामात्रप्रयोजकत्वादित्यर्थस्तथा च पत्रकर्माश्रयः पत्रं तन्निष्ठो यः पत्रकर्मकार्यभूतो विभागस्तादृशविभागाधिकरणताप्रयोजकत्वं पत्रपतने प्राप्तं तादृशविभागश्च वृक्षपत्रयोरेव न भूतलादाविति भूतलनिष्ठायास्तादृशविभागनिरूपिताधिकरणतायाः प्रयोजकत्वस्याभावान्वयः पतने ना संभवत्येवेति न कोपि दोषः ।
"Aho Shrutgyanam