________________
(४८६)
सादर्श:
[ पञ्चमीकारकेअत्राहुः-विभागो जनकत्वं च पञ्चम्यर्थः, विभागे प्रकृत्यर्थस्याऽवधिकत्वं संबन्धस्तेन संबन्धेन प्रकृत्यर्थविशिष्टस्य विभागस्य निरूपितत्वविशेषसंबन्धेन जनकत्वेऽन्वयः, जनकत्वं च फलोपधानरूपम्, विशिष्टनिरूपिततादृशजनकत्वस्य क्रियायाम्, नसमभिव्याहारस्थले च क्रियान्वयिन्यऽभावे प्रतियोगित्वेनान्वयः। वृक्षपत्रादिविभागजनकं पत्रादिकर्म च न पत्राद्यवधिकत्वविशिष्टविभागोपधायकम्- पत्रादेः स्वावधिकत्वविशिष्टविभागानधिकरणत्वेन तत्कर्मणि विशिष्टविभागसामानाधिकरण्याभावात्, फलोपधायकत्वस्य सामानाधिकरण्यगर्भत्वानोक्ताऽनुपपत्तिः।
* वृक्षाद्विभजते' इत्यादावपि वृक्षावधिकत्वं विभागे प्रतीयते-तत्राऽपादाच्छेदकत्वाभावस्य च नअर्थस्य बाधाद योग्यतैव नास्तीति कथं ना पञ्चम्यर्थस्याभावबोधनं स्यादित्यर्थः । अत्र च " पत्रनिष्ठविभागजनकत्वस्येव " इति पाठस्तु प्रामादिक एव प्रतिभाति विभागजनकत्वस्य बाधे प्राप्ते विभागजनकत्वरूपपञ्चम्यर्थस्यात्राभाव एव प्राप्नुयादित्यनु. पपत्तिप्रदर्शनं नोपपद्येतेति विवेचनीयम् । पूर्वत्र — न स्वस्मात् ' अत्र च ' न पत्रात् ' इति कथनादुदाहरणयोर्भेदः । __ अथेत्यादिना शङ्कितं समाधत्ते-अत्रेत्यादिना, प्रकृत्यर्थस्य वृक्षस्य । फलोपधानरूपम् = फलोपधायकं विभागसंपादकं जनकत्वं ग्राह्यं न तु स्वरूपयोग्यतारूपमित्यर्थः । विशिष्टनिरूपिततादृशजनकत्वस्य-प्रकृत्यर्थवृक्षविशिष्टविभागनिरूपितफलोपधायकजनकत्वस्य पतनादिक्रिया. यामन्धयः । नसमभिव्याहारस्थलीयान्वयविशेषमाह- ननिति, क्रियान्वयिन्यऽभावे (विभाग. जनकत्वाभावे) प्रतियोगित्वरूपेणोक्तजनकरवस्यान्वयः-क्रियायां विभागजनकत्वाभावबोधोदवात् । वृक्षपत्रयोर्विभागस्य जनकेन पतनादिकर्ममा पत्रनिष्ठेन हि न पत्रावधिकविभागो जन्यते पन्ने पत्रावधिकविभागाधिकरणत्वासंभवेन तत्कर्मणि-पत्रनिष्ठक्रियायां पत्रावधिकविभागसामानाधिकरण्याभावात, फलोपधायकत्वं च जन्यसामानाधिकरण्यगर्भमेव यत्र जनकं तत्रैव जन्यमिति सामानाधिकरण्यं तथा च नोक्तानुपपत्तिः= वृक्षात् पत्रं पतति न पत्रात् ' इत्यत्र पत्रावधिकविभागोत्पत्तेरभावान्नबा पञ्चम्यर्थभूतयोः पत्रावधिकविभागस्य जनकत्वस्य चाभावः प्रत्याय्यते 'पणे वृक्षात् पतति न स्वस्मात् । वृक्षात् पतति न भूतलात् ' इत्यादावपि पर्णकर्मणा वृक्षावधिकविभागस्यैव जन्यत्वात् पर्णाद्यवधिकविभागस्याऽजन्यत्वाच नत्रा पर्णाद्यवधिकविभागनिरूपितजनकत्वस्याभावः क्रियायां बोध्यते इति न योग्यतानुपपत्तिरित्यर्थः । योग्यतानुपपत्तिर्हि भेदप्रतियोगितावच्छेदकत्वस्य पञ्चम्यर्थत्वस्वीकारे एवासीत् तत्पक्षस्येदानीं त्यक्तत्वात् विभागजनकत्वयोरेव पञ्चम्यर्थत्वस्वीकारादिति भावः । अत्र " अवधिकत्वम् " इत्यत्र ' स्वावधिकत्वम् । इत्येवं पाठो युक्तः ।
प्रयोगान्तरमुदाहरति-वृक्षादिति । वृक्षावधिकविभागप्रतीतौ हेतुमाह-तत्रेति । तथा च वृक्षावधिकविभागनिरूपिताश्रयतावान् पक्षीत्येवं विभागानुकूलव्यापारवति पक्ष्यादौ वृक्षावधिक
"Aho Shrutgyanam"