________________
पञ्चम्यर्थविचारः ]
व्युत्पत्तिवादः ।
मन्वयः, एवं च वृक्षनिष्ठ भेदप्रतियोगितावच्छेदकतन्निष्ठविभागजनकपतनाश्रयः पर्णमित्याद्याकारक उक्तस्थले बोधः ।
अथ पञ्चमीसमभिव्याहृतनञोक्तयोः पञ्चम्यर्थयोर्द्वयोरेवाऽभावद्वयं बोध्यते यथायोगमेकतरस्य वा ? नाद्यः पक्षः- ' पर्ण वृक्षात्पतति न स्वस्मात् ' इत्यत्र स्वनिष्ठपतने स्वनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावसत्त्वेपि स्वनिष्ठविभागजनकत्वाभावाऽसस्वेन- वृक्षात्पतति न भूतलात् ' इत्यत्र च पतने भूतलादिनिष्ठविभागादिजनकत्वाभावसस्वेपि तन्निष्ठ भेदप्रतियोगितावच्छेदकत्वाभावासत्वेनाऽयोग्यतापत्तेः । नापि द्वितीयः- 'वृक्षात् पत्रं पतति न पत्रात् इत्यत्र पत्रनिष्ठपतने पत्रनिष्ठविभागाजनकत्वस्येव पत्रान्तरनिष्ठ भेदप्रतियोगितावच्छेदकतया पत्रनिष्ठ भेदप्रतियोगितानवच्छेदकत्वस्यापि बाधाद् योग्यताया निर्वाहयितुमशक्यत्वादिति ।
£
( ४८५ )
"Aho Shrutgyanam"
,
शङ्कते - अथेति । पञ्चमीसमभिव्याहृतनत्रा = 'पर्ण वृक्षात् पतति न स्वस्मात्' इत्यादौ । उक्तयोः = भेदप्रतियोगितावच्छेदकत्वविभागजनकत्वयोः । आद्यपक्षासंभवमाह - नाद्य इति, 'पर्ण वृक्षात् पतति न स्वस्मात्' इत्यत्राद्यपक्षस्वीकारे नत्रा स्वनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावः स्वनिष्ठविभागजनकत्वाभावश्च बोधनीयः ( स्वं पर्णम् ) तन्न संभवति पर्णनिष्टपतने पर्णनिष्टभेदप्रतियोगितावच्छेnarratosस्ति पर्णनिष्ठ मेदानुयोगितावच्छेदकत्वस्यैव संभवात् तथापि पर्णनिष्ठविभागजनकत्वाभावो नास्त्येव पर्णनिष्ठपतने पर्णनिष्ठविभागजनकत्वस्यैव सत्त्वाद् असतश्च बोधनासंभवादित्यत्राऽमात्रद्वयबोधनयोग्यताया अभावः प्राप्तस्तथा 'पर्ण वृक्षात् पतति न भूतलात्' इत्यत्र यद्यपि पर्णनिष्ठपतने भूतलनिष्ठविभागजनकत्वाभावोस्ति तथापि भूतलनिष्ठ भेदप्रतियोगितावच्छेदकत्वाभावो नास्येव-भूतलनिष्ठो यः पर्णभेदस्तत्प्रतियोगितावच्छेदकत्वस्यैव सत्त्वादित्यभावद्वयबोधनयोग्यता नास्तीति नाद्यः पक्षः संभवतीत्यर्थः । द्वितीयपक्षासंभवमाह - नापीति, 'वृक्षात् पत्रं पतति न पत्रात्' इत्यत्र पञ्चम्यन्तपत्र पदार्थः प्रथमान्तार्थः पतमानपत्रपदार्थ एव वृक्षात् पत्रं पतति न स्वस्मात् ' इत्यर्थस्तत्र पतनक्रियया जायमानो विभागो यथा वृक्षेस्ति तथा पतमानपत्रेप्यस्त्येवेति पतनक्रियायां पत्रनिष्ठविभागजनकत्वं प्राप्तमिति पत्रनिष्ठविभागाऽजनकत्वस्य बाधोस्ति विभागाजनकत्वं च विभागजनकत्वाभाव एव तस्य बाधे प्राप्ते पञ्चम्यर्थस्य पत्रनिष्ठविभागजनकत्वस्य पत्रनिष्ठपतनेऽभावो नास्तीति प्राप्तं तथा पत्रनिष्ठपतने पत्रान्तरनिष्ठो यः क्रियावान्नेतिभेदस्तत्प्रतियोगितावच्छेदकत्वमस्ति पत्रपदस्य च पत्रत्वावच्छिन्नं वाच्यमिति पत्रनिष्ठमेदप्रतियोगितानवच्छेदकत्वस्य बाधे प्राप्त पञ्चम्यर्थस्य भेदप्रतियोगितावच्छेदकत्वस्याप्यभावो नास्तीति प्राप्तं तथा चैकतरस्यापि पञ्चम्यर्थस्यात्राभावो नास्ति येन नञा तद्बोधनमुपपद्येतेत्यर्थः । योग्यता हि शाब्दबोधे कारणं बाधाभावश्च योग्यता अत्र च पत्रनिष्ठविभागाजनकत्वस्य = पत्रनिष्ठविभाग जनकत्वाभावस्य पत्रनिष्ठ भेदप्रतियोगितानवच्छेदकत्वस्य = पत्र निष्ठ भेदप्रतियोगिताव
C