________________
अथ पञ्चमी
'वृक्षात् पर्ण पतति' इत्यादौ पञ्चम्याः प्रकृत्यर्थस्य वृक्षादेः पतनादिक्रियाउपादानत्वं प्रत्याय्यते । अपादानत्वं च स्वनिष्ठभेदप्रतियोगितावच्छेदकीभूतक्रियाजन्याविभागाश्रयत्वम् । पर्णादेः स्वनिष्ठवृक्षादिविभागजनकस्वपतनावपादानत्ववारणाय भूतान्तं क्रियाविशेषणम् । भेदप्रतियोगितावच्छेदकत्वे विभागे च पञ्चम्याः शक्तिद्वयम् । भेदे विभागे च वृक्षादेः प्रकृत्वर्थस्याधेयतासंबन्धेनान्वयः । प्रतियोगितावच्छेदकत्वमाश्रयत्वसंबन्धेन विभागश्च जनकतासंबन्धन क्रियायामन्वेति ।
जनकतासंबन्धस्य प्रतियोगितानवच्छेदकतया नबा तत्संबन्धावच्छिन्नविभागाभावः क्रियायां बोधयितुं न शक्यते इतिचे ?, तर्हि विभागजनकत्वमेव पञ्चम्यर्थोस्तु. प्रतियोगितावच्छेदकत्वस्येव तस्याप्याश्रयतासंबन्धेन क्रियाया
क्रमप्राप्त पञ्चम्यर्थनिरूपणमारभते- वृक्षादिति । स्पष्टार्थोयं ग्रन्थः । अपादानस्वस्वरूपमाह-- अपादानत्वमिति । स्वं वृक्षः । भेदपदेनात्र विभागजनकीभूता या पतनादिक्रिया ताहशक्रियावान्नेत्याकारको ग्राह्यः स च भेदो वृक्षे एव संभवति न तु पणें-- पर्णे विभागजनकीभूतपतनक्रियाया एव सत्त्वात् तथा च वृक्षनिष्ठो य उक्तभेदस्तत्प्रतियोगि पर्ण तत्र पणे प्रतियोगितापि वर्तते पतनक्रियापि वर्तते इति उक्तभेदप्रतियोगितावच्छेदकत्वं क्रियायां प्राप्त भेदप्रतियोगितावच्छेदकीभूतक्रियाजन्यविभागो वृक्षे वर्तते इति वृक्षस्य स्वनिष्ठभेदप्रतियो. गितावच्छेदकीभूतक्रियाजन्यविभागाश्रयत्वं प्राप्तं तदेवाऽपादानत्वमित्यर्थः । क्रियायां भूतान्सविशेषणस्य फलमाह- पर्णादेरिति, 'क्रियाजन्यविभागाश्रयत्वमऽपादानत्वम् । इत्युक्ते पर्णस्याप्यत्राऽपादानत्वं स्यात्-पर्णनिष्ठपतनक्रियाजन्यविभागाश्रयत्वात्, भूतान्तविशेषणे सति तु ‘क्रियावान , इत्याकारको भेदः पर्णे न संभवति पर्णस्य क्रियावत्त्वादेव, पर्णनिष्ठक्रियायाश्च पर्णनिष्ठभेदनिरूपितप्रतियोगिताया अवच्छेदकत्वं न संभवतीति भेदेन वृक्षनिष्ठ एव भेदो ग्राह्यस्तथा च लक्षणघटकस्वपदस्य वृक्षबोधकत्वाद् वृक्षस्यैवाऽपादानत्वं प्राप्तं न पर्णस्य लक्षणघटकस्वपदबोध्यत्वे सति तादृशविभागाश्रयस्यैवाऽपादानत्वेनेष्टत्वादिति भावः । पञ्चम्यर्थमाहमेदेति । भेदो विभागश्च वृक्षे वर्तते इति वृक्षस्य तयोराधेयता संबन्ध इत्याह- भेद इति । पतनक्रियायां भेदप्रतियोगितावच्छेदकत्वं विभागजनकत्वं चास्तीत्यभिप्रायेणाह-- प्रतियोगितेति । वृक्षनिष्ठविभागानुकूलक्रियावत् पर्णमिति शाब्दबोधः ।
विभागस्य क्रियायां जनकतासंबन्धेनान्वये शकते- जनकतेति । उत्तरमाह- तीति । तस्य विभागजनकत्वस्य । उक्तस्थलीयबोधस्वरूपमाह- एवमिति । तन्निष्ठ-वृक्षनिष्ठ। तथा च वृक्षविष्टभेदस्य प्रतियोगितावच्छेदकं वृक्षनिष्ठविभागस्य जनकं च यत्पतनं तदाश्रयः पर्णमित्यर्थः।
"Aho Shrutgyanam"