________________
पञ्चमोप्रयोगविचारः ] व्युत्पत्तिवादः।
(५०७) तथा हि-भिदधातो ऽन्योन्याभावोऽर्थः ‘घटाद् भिनत्ति पटः ' इतिप्रयोगापत्तेः 'भिद्यते पटः' इत्यादिप्रयोगानुपपत्तेश्च-कर्तरि यगात्मनेपदासंभवात. अदेवादिकत्वात् परस्मैपदित्वाच्च श्यन्कात्मनेपदयोरनवकाशात्. अकर्मकधातुयोगे कर्मकर्तृविवक्षाया अप्ययोगात्. कस्यचिदकर्मकस्य ण्यर्थान्तर्भावन कर्मकर्तृत्वमुपपादनीयम्. अन्योन्याभावस्याऽजन्यतया. तदर्थकधातोरर्थेपि ण्यान्तर्भावस्य दुष्करत्वात् । 'भिद्यः। कुसूलः' इत्यादौ भिदेविदारणार्थकत्वेन सकर्मकतया कुमूलादेः कर्मकर्तृत्वसंभवात्, अतोऽन्यत्वेन ज्ञापनं भिदेरर्थः, ज्ञापनम्-ज्ञानविषयताप्रयोजकव्याप्तिपक्षधर्मता तदाश्रयोऽसाधारणधर्म एव भिदाशतदादिपदयोगे पञ्चम्यापत्त्या 'सं घटात् । इत्यादिप्रयोगापत्तिः स्यादित्यऽन्येतरपदयोरर्थपरत्वं न युक्तं किं तु स्वरूपमात्रपरत्वमेवेत्यर्थः । नन्वऽन्येतरपदयोः स्वरूपपरत्वे हि ' पटाद् भिन्नम् ' इत्यादौ पञ्चमी न स्यादित्याशङ्याह-तथा चेति ।
‘पटाद् भिन्नम् । इत्यादौ पटादेरपादानत्वमुपपादयति-तथा हीत्यादिना । मिदधातोरन्योन्याभावार्थकत्वे " अन्योन्याभावीयप्रतियोगित्वार्थविवक्षायां पञ्चमी ५०४ । इत्युक्तरीत्या पञ्चम्यापत्त्या ' घटाद् भिनत्ति पटः ' इतिप्रयोगः स्यादेव । 'भिद्यते पटः' इतिप्रयोगश्च न स्यादित्यर्थः । प्रयोगानुपपत्ति प्रदर्शयति-कर्तरीति । ननु 'भिद्यते पटः' इत्यत्र कर्मभूतपटस्य कर्तृ. त्वविवक्षायां यगात्मनेपदयोरापत्त्या 'भिद्यते ' इति किं न स्यादित्याशङ्कयाह अकर्मकेति, कर्म हि सकर्मकधातोर्भवति तत्र कर्मणः कर्तृत्वविवक्षा संभवति, अकर्मकधातोस्तु कर्मैव न भवतीति कस्य कर्तृत्वविवक्षा स्यात् ? अयं च सकर्मकविदारणार्थकभिदधात्वपेक्षयाऽन्य एवाऽकर्मको भिदधातुरित्यर्थः । पद्यपि कस्य चिदकर्मकधातोरपि.ण्यर्थान्तर्भावेन अकर्मकधात्वर्थे ण्यर्थस्य प्रेरणाया अन्तर्भावेन कर्मकर्तृत्वं भवति यथा 'भूयते ओदनः' इति भूधातोरकर्मकत्वेऽपि तदर्थे ण्यर्थभावनाया अन्तर्भावे कृते ण्यर्थभावनानुकूलव्यापार प्रति चौदनस्य कर्मत्वसंभवात् तादृशौदनस्य कर्मभूतस्य कर्तृत्वविवक्षासंभवाच्च तत्रौदनस्योत्पत्तिमत्त्वेन कर्मत्वं संभवति तथाप्यन्योन्याभावार्थक. भिदधातोस्तु व्यर्थान्तर्भावेनापि कर्मकर्तृत्वं न संभवति-अन्योन्याभावस्य नित्यत्वेनाजन्यतया ण्यर्थन्यापार प्रत्यपि कर्मत्वासंभवात् जन्यस्यैव कर्मत्वसंभवादिति तदर्थकधातोः अन्योन्यामावार्थकभिदधातोरर्थे ण्यर्थान्तर्भावस्यापि दुष्करत्वात् ( ण्यर्थस्यान्तर्भावासंभवात् ) इत्याहकस्यचिदिति । नन्वेवं हि — भिद्यते कुसूल: ' इति कर्मकर्तृत्वेनाभिमतोपि प्रयोगो न स्थादित्याशङ्कयाह- भिद्यते कुसूल इति, अयं हि विदारणार्थकत्वात्सकर्मक एव भिदधातुरिति तत्कर्मभूतकुसूलस्य कर्तृत्वेन विवक्षा संभवतीति न कर्मकर्तृत्वेन ' भिद्यते कुसूलः ' इति प्रयोगानुपपत्तिरित्यर्थः । एवं हि भिदधातोरन्योन्याभावार्थकत्वे — भिद्यते पटः' इतिप्रयोगो नोपपद्यते इति भिदधातोरर्थमाह- अत इति । ज्ञापनपदार्थमाह-ज्ञानेति, ज्ञानविषयता साध्यवि. षयकज्ञानविषयता तत्प्रयोजिका या व्याप्तिः पक्षधर्मता च तदेव ज्ञापनपदार्थों यथा 'पृथिवी
"Aho Shrutgyanam"