________________
(५०८)
सादर्श:
[पञ्चमीकारकेदिकर्तृत्वाद् भेदक उच्यते. अन्यत्वप्रकारकानुमितिविषयतारूपधात्वर्थतावच्छेदकफलाश्रयो भिदादिकर्मतया भेद्यः, एवं च पृथिवीतरेभ्यो भिद्यते' इत्यादी पृथिव्यादेः कर्मतैव न केवलकर्तृता । अन्योन्याभावे साध्ये सर्वतान्त्रिकाणां तादृशप्रतिज्ञालेखनं केषां चिदनवधानेन । प्रतिज्ञास्थवद्यादिपदं वयादिज्ञानविषयतार्थकम् । हेत्ववयवस्थपञ्चम्या ज्ञाप्यत्वं नार्थोऽपि तु प्रयोज्यत्वमेवेति । मणिकारादिमतानुसारेण केषां चिदिति सूक्ष्मविवेचनचतुराः ।
'अर्जुनः क्रोशालक्ष्यं विध्यति ' ' अद्य भुक्त्वाऽयं व्यहाद् भोक्ता' इत्यादौ " सप्तमीपञ्चम्यौः कारकमध्ये " इतिपञ्चमी प्रकृत्यर्थयोरध्वकालयोः तरेभ्यो भिद्यते । इत्यस्य 'पृथिवीतरेभ्योऽन्यत्वेन ज्ञाप्यते 'इत्यर्थो जातः । तदाश्रयः=उक्तज्ञापनाश्रयोऽसाधारणधर्म एव यथात्र गन्धवत्त्वं तदेव गन्धवत्वमितरभेदज्ञापकतया पृथिव्या इतरेभ्यो भेदक इत्युच्यते भिदादिकर्तृत्वात्-भेदकत्वात् तथाऽन्यत्वप्रकारिका या 'पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात् ' इत्यनुमितिस्तदीयविषयतैवात्र ज्ञापनार्थकभिदधात्वर्थतावच्छेदकं फलमस्तीति तदाश्रयो या पृथिवी सैवात्र भिदधातुकर्मतया ( धात्वर्थतावच्छेदकफलशालित्वं कर्मत्वमिति स्मर्तव्यम् ) भेद्याऽस्तीत्यर्थः । ज्ञापनं हि ज्ञापकधर्म एव ज्ञापकं च हेतुरेव भवतीत्यत्र गन्धवत्त्वरूपहेतुनिष्ठा या व्याप्तिविशिष्टपक्षधर्मता सेव ज्ञापनपदार्थ:-- व्याप्तिविशिष्टपक्षधर्मताविशिष्टस्यैव हेतोझपकत्वसंभवादिति यावत् । ' पृथिवीतरभ्यो भिद्यते । इत्यत्र पृथिव्याः केवलम्= शुद्धं कर्तृत्वं नास्ति किं तु कर्मकर्तृत्वमेव-अत्र भिदधातोपिनार्थकत्वेन सकर्मत्वात् सकमकधातोश्च कर्मकर्तृत्वसंभवादित्याशयेनाह-एवं चेति । ननु सर्वे शास्त्रकारा अन्योन्यामावसिद्ध्यर्थमेव — पृथिवीतरेभ्यो भिद्यते' इति प्रतिज्ञा विलिखन्ति तत्तु भिद्धातोरन्योन्याशवार्थकत्वे एवोपपद्यते न तु ज्ञापनार्थकत्वे तथा सति पृथिव्या अन्यत्वेन ज्ञानविषयत्वमेव सिद्धचेत न तु भिन्नत्वमित्याशङ्कयाह- अन्योन्याभावेति, कैश्चित्प्रमादाद् भिदधातुरन्योन्याभावार्थको ज्ञात इत्यन्यैरप्यन्योन्याभावार्थक एवात्र ज्ञातो वस्तुतस्त्वत्र भिदधातुओपनार्थक एवेत्यर्थः । तादृशप्रतिज्ञालेखनम्= पृथिवीतरेभ्यो भिद्यते । इतिप्रतिज्ञालेखनम् । वस्तुतस्त्वेषानुमितिरन्यत्वेन ज्ञापनार्थमेव विज्ञेया नाऽन्योन्याभावसाधनार्थमिति यावत् । प्रसङ्गसङ्गत्याऽन्यदपि किंचिदाह- प्रतिज्ञास्थेति । हेतुपरधूमादिपदं च धूमादिज्ञानपरमिति शेषस्तथा च ' वह्निमान् धूमात् ' इत्यस्य 'धूमज्ञानप्रयोज्या या वह्निविषयकज्ञानविषयता तदाश्रयः पर्वतः । इति बो. धाकार:- वह्निमानित्याकारकवह्निविषयकज्ञानविषयतायाः वह्निप्रकारकज्ञानीयविशेष्यताख्यविषयतायाः पर्वतेपि सत्त्वादिति भावः । 'पृथिवीतरेभ्यो भिद्यते गन्धवत्त्वात्' इत्यस्य च गन्धवत्वज्ञानप्रयोज्या याऽन्यत्वप्रकारकज्ञापनविषयता तदाश्रयः पृथिवीति वा बोधः ।उक्तकेषांचिदितिपदेनाभिप्रेतमुद्घाटयति- मणिकारादीति ।
प्रयोगान्तरमुदाहरति-अर्जुन इति । प्रकृत्यर्थयोरिति-प्रयमोदाहरणे 'क्रोशात्' इतिपञ्चम्यन्त
"Aho Shrutgyanam"