________________
सप्तमीपञ्चम्य कारक मध्येइति ] व्युत्पत्तिवादः ।
कारकद्वयव्यवधायकतामभिधत्ते तथा च स्वाधिष्ठितदेशानन्तरक्रोशात्मकाध्वभागानन्तरदेशस्थं लक्ष्यं विध्यत्यर्जुन इत्यादिः प्रथमस्थले बोधः, समभिव्याहतकर्त्रधिष्ठितदेशानन्तर्य विशेषणतया प्रकृत्यर्थान्वयि विशेष्यतया प्रकृत्यर्थान्वयि चानन्तरदेशस्थत्वं पञ्चम्यर्थः | स्वीयैकार्यान्वितापरपदार्थान्वितापरस्वार्थवोधकत्वमप्यत्र व्युत्पत्तिवैचित्र्यादेकपदस्य स्वीक्रियते । भोजनकृत्यधिकरणैतद्दिवसानन्तरद्र्यहानन्तरदिनवृत्तिभोजनकृतिमानयमित्याकारक बोधश्चरमस्थले ।
66
८
प्रकृत्यर्थभूतस्याध्वनः कारकद्वयव्यवधायकताम् = अर्जुनरूपकर्तृ कारकस्य लक्ष्यभूतकर्मकारकस्य च मध्ये व्यवधानभूतः कोशात्मकोध्वा वर्तते इति क्रोशपदोत्तरपञ्चम्यभिधत्ते, तथा द्वितीयोदाहरणे ' द्र्यहात् ' इति पञ्चम्यन्तप्रकृत्यर्थभूतस्य कालस्य कारकद्वयव्यवधायकतामभिधत्ते= अद्यभोजनकर्तृरूपकारकस्य द्वयहानन्तरभोजनकर्तृरूपकारकस्य च मध्ये द्वयहात्मकः कालो वर्तते इति द्वयहपदोत्तरपञ्चम्यभिधत्तेः इत्यर्थः, यद्यप्यत्राद्य द्र्यहादनन्तरं चैक एव भोजनकर्तेति न कालस्य व्यवधायकत्वं संगच्छते पदार्थद्वयमध्यपतितस्यैव व्यवधायकत्वात्तथाप्यत्र कर्तृकारकपदेन कृतिरूपं कर्तृत्वं ग्राह्यं तच्च भोजनक्रियाव्यक्तिभेदाद् भिन्नं भिन्नमेवेति तद्व्यवधायकता कालस्य नानुपपन्ना, इदं च स्वयमेवाग्रे वक्ष्यति - कारकद्वयमध्यवर्तितेत्यादिना । अर्जुन: क्रोशात् ' इत्यस्य वाक्यार्थमाह- स्वाधिष्टितेति । स्वम् = अर्जुनः । यस्मिन् देशेऽर्जुनस्तिष्ठति ततः कोशात्मकाध्वभागादनन्तरदेशस्थं लक्ष्यं विध्यतीत्यर्थः । अत्रत्यपञ्चम्या अर्थमाह- समभिव्याहृति, स्वाधिष्ठितदेशानन्तरकोशात्मकाध्वभागानन्तरदेशस्थम् " इत्यत्र पूर्वपूर्वपदार्थ - स्योत्तरोत्तरपदार्थे विशेषणत्वादुत्तरोत्तरस्य च विशेष्यत्वात् समभिव्याहृतो योऽर्जुनरूपः कर्ता तदधिष्ठित देशानन्तरखं विशेषणतया = विशेषणत्वेन रूपेण प्रकृत्यर्थे = कोशपदार्थेऽन्वेति सच कोशपदार्थोपि अनन्तरदेशस्थत्वपदार्थे विशेषणमस्तीति तादृशानन्तरदेशस्थत्वं विशेष्यतया= विशेष्यत्वेन रूपेण प्रकृत्यर्थे कोशपदार्थेऽन्वेतीति पदार्थास्तत्र प्रकृत्यर्थभूतक्रोशपदार्थे यद्विशेषणतयान्वयि अनन्तरदेशस्थत्वं यच्च विशेष्यतयान्वयि अनन्तरदेशस्थत्वं तदुभयमेवाऽनन्तरदेशस्थत्वं पञ्चम्यर्थ: इत्यर्थः । नन्वेकस्य पञ्चमीरूपपदस्यैकस्मिन्नेवोदाहरणे कथमुक्तानन्तरदेशस्थत्व - द्वयबोधकत्वं स्यात् ? सकृदुच्चरितः शब्दः सकृदेवार्थं गमयति ” इति नियमादित्याशङ्क्याह - स्वीयैकार्थेति, स्वम् = पञ्चमी | स्वीय: पञ्चम्या य एकोर्थ: स्वा ( अर्जुना ) धिष्ठित देश - स्यानन्तर्य तदन्वितो योऽपरपदार्थ: कोशात्मकाध्वभागपदार्थस्तदन्वितो योऽपरः स्वार्थः = म्यर्थभूतमनन्तरदेशस्थत्वं तद्बोधकत्वमप्यत्र व्युत्पत्ति ( बोध ) वैचित्र्यादेकपदस्य पञ्चम्याः स्वीक्रियते तथा चात्र स्वाधिष्ठित देशानन्तरत्वविशिष्टकोशात्मकाध्वभागानन्तरदेशस्थत्वं विशिष्टमेकमेव पञ्चम्यर्थोस्तीति न सकृदुच्चरित : " इत्यादिनियम विरोधोपीत्यर्थः । द्वितीयोदाहरणस्य वाक्यार्थबोधस्वरूपमाह - भोजनकृतीति, भोजनानुकूलकृत्यधिकरणीभूतो य एतद्विवसस्तदनन्तरभूतो यो द्वयहकालस्तदनन्तरवर्तितृतीयदिने यद् भोजनं तदनुकूलकृतिमानित्यर्थः 1.
८८
:-पश्च
<5
( ५०९ )
" Aho Shrutgyanam"