________________
(५१०)
सादर्श:
[ पञ्चमीकारकेकारकपदेन क्रियानुकूलव्यापाररूपकारकपदार्थतावच्छेदकस्यापि विवक्षया एकक्रियानुकूलकृत्यन्वयिनः प्रकृत्यर्थकालानन्तरकालीनत्वस्य प्रकृत्यर्थविशेषणीभवदऽपरक्रियानुकूलकृत्यधिकरणकालानन्तर्यस्य च बोधकत्वेपि पञ्चम्युपपत्तिः । कारकद्वयमध्यवर्तिता चात्र कालस्य नोपपद्यते-कर्तुरेक्यात्. अत एवोक्तम्-“कर्तृशत्तयोर्मध्ये चैकः कालः" इति ॥
॥ इति पञ्चम्यर्थनिरूपणं समाप्तम् ॥
यद्यपि कारकपदं क्रियाविशिष्टस्य वाचकं तथाप्यत्र भोजनक्रियाकर्तुरेक्यात्तद्व्यवधायकत्वं कालस्य न संभवतीत्यत्र कारफपदेन भोजनानुकूलकृतिरूपो व्यापार एव विवक्षितोस्ति स च कृतिरूपो व्यापारः क्रियानुकूलोस्ति कारकपदार्थतावच्छेदकोप्यस्ति तादृशव्यापारविशिष्टस्य कारकत्वेन तत्र तादृशव्यापारस्य विशेषणत्वादित्याह- कारकपदेनेति । अत्रत्यं पञ्चम्यर्थमाह- एकक्रियेति, एकक्रियानुकूलकृश्यन्वयिनः जनकतासंबन्धेन कृत्यन्वयिनो द्वयहानन्तरकालवृत्तिभोजनव्यापारस्य प्रकृत्यर्थकालानन्तरकालीनत्वम्-प्रकृत्यर्थकालो द्वघहकालस्तदनन्तरकालिकत्वं तृतीयदिनवृत्तित्वम्. उक्तवाक्यार्थबोधे हि प्रकृत्यर्थेद्ववहकाले विशेषणीभूता याऽपरक्रिया अद्यतनभोजनव्यापारस्तदनुकूला या कृतिस्तदधिकरणीभूतो योद्यतनकालस्तदानन्तर्य तदनन्तरकालवृत्तित्वं च पञ्चम्या बोध्यते. एतदर्थद्वयस्य पञ्चम्या बोध्यमानस्य प्रकृते भोक्तेतिप्रकृतिप्रतिपाद्यभोजनव्यापारे बाधो नास्तीति तत्प्रतिपादनार्थ पञ्चम्या उपपत्तिारेत्यर्थः । अत्र द्वयहानन्तरकालिकभोजने यहानन्तरत्वमद्यतनकालानन्तरत्वं च पञ्चम्या प्रतीयते इति यावत् । यद्यप्यत्र यहानन्तरकालवृत्तित्वबोधनेनाऽद्यतनकालानन्तर्यमर्थादेव प्राप्नोतीति न तबोधनापेक्षा तथापि क्त्वाप्रत्ययवशात् अद्यपदसमभिव्याहारवशाच्च तद्बोधकत्वमपि प्राप्तमित्यवधेयम् । अद्यतनभोजनस्य द्वयहानन्तरकालवृत्तिभोजनस्य च कर्ता एक एवेति कारकद्वयाभावात कारकद्वयमध्यवर्तिताऽत्र कालस्य नोरपद्यते इत्यस्माभिरत्र कारकपदेन कारकतावच्छेदककृतिरूपव्यापारो गृहीतस्तादृशव्यापारस्य कालभेदेन भेदात् तन्मध्यवर्तिता कालस्य नानुपपन्नेत्याह- कारकद्वयेति । अन्यैरप्यत्र कारकपदेन कर्तृत्वं ( कृतिः ) गृहीतं तच्च तन्निरूपकव्यापारभेदात् कालभेदाच भिन्नमेवेति सन्मध्यवर्तिता कालस्योपपद्यते इत्याह- एत एवेति । कर्तृशक्त्योः कर्तृत्वयोः ।
॥ इति व्युत्पत्तिवादादर्श पञ्चमीकारकम् ।।
"Aho Shrutgyanam'