________________
अथ षष्ठी
८
" $
स्वसंबन्धविवक्षायां कारकविभक्त्यप्रसक्तेः " शेषे षष्ठी " इत्यनेन 'चैत्रस्वेदम् ' इत्यादौ षष्ठी । ' चैत्रस्य द्रव्यम् ' घटस्य कारणम् चैत्रस्य इस्त: ' इत्यादी स्वत्वनिरूपितत्वावयवत्वादीनां संबन्धत्वेनैव षष्ठयर्थता न तु विशिष्य - शक्त्यानन्त्यप्रसङ्गात् । संयोगादिसंबन्धसत्वेपि 'चैत्रस्य नेदं वासः ' इत्यादौ स्वत्वादिसंबन्धविशेषाभावबोधतात्पर्येण यत्र नञ्प्रयुज्यते तत्र विशेपरूपेण षष्ठ्या लक्षणैव, " सुविभक्तौ न लक्षणा इतिप्रवादस्य अनु· शासनासत्त्वे एकविभक्त्यर्थेऽपरविभक्तेर्न लक्षणा ' इत्येतत्परत्वात् । अत एव च कृद्योगापि हि षष्ठी संबन्धत्वेनैव बोधयति ” इति मिश्राः । इत्यमेव च संबन्धत्वेन कर्मत्वादिविवक्षया ' मातुः स्मृतम् इत्यादौ " अधीगर्थ " इत्यादिषष्ठ्यनुशासनस्य नियमपरतया सार्थक्योपपादनं वृत्तिकृतामुपपद्यते, संबन्धत्वविशिष्टसंबन्धविवक्षायाम् " शेषे षष्ठी ” इत्यस्य षष्ठाऽविधायकत्वे तादृशानुशा
番
?
66
.
6
I
क्रमप्राप्तं षष्ठ्यर्थनिरूपणमारभते- स्वसंबन्धेति, 'चैत्रस्येदस्' इत्यत्रेदं पदबोध्ये चैत्रप्रतियोगिक स्वत्वबोधकत्वं कस्यापि कारकविभक्तेर्नास्ति - कर्मत्यादिबोधकत्वादिति षष्ठयेव जायते इत्यर्थः । स्त्रत्वेति - ' चैत्रस्य क्रव्यम् ' इत्यत्र स्वस्थ घटस्य कारणम्' इत्यत्र निरूपितवस्य ( वढनिरूपितकारणम् ) चैत्रस्य हस्तः ' इत्यत्रावयवत्वस्य च सामान्यतः संबन्धत्वेन रूपेण षष्ठयर्थता | विशिष्य = स्वत्वत्वादिरूपेण । ननु यदि संबन्धस्य संबन्धत्वेनैव रूपेण षष्ठयर्थता न तु विशेषरूपेण तदा चैत्रस्य नेदं वासः' इत्यादौ चैत्रसंयोगस्य वाससि सत्त्वादेव कथं संबन्धाभावो नत्रा बोध्येतेत्याशङ्क्याह- संयोगादीति । तत्र स्वत्वादिसंबन्धे लक्षणा तदभावो नञा बोध्यते इत्यर्थः । विशेषरूपेण = विशेषरूपावच्छिन्ने स्वत्वादिसंबन्धे । ननु सुविभक्तौ तु लक्षणा न भवतीति कथं षष्ठ्याः स्वत्वादौ लक्षणा स्यादित्याशङ्क्याहसुविभक्ताविति । अनुशासनसत्वे त्वेकविभक्त्यर्थेऽपरविभक्तेर्लक्षणा भवत्येव यथा तृतीयाद्वितीयार्थभूतयोः कर्तृकर्मणोः कृद्योगे षष्ठ्या इत्यर्थः । अत एव = षष्ठयाः संबन्धत्वेनैव संबन्धविशेषबोधकत्वादेव कृद्योगापि षष्ठी ' कृष्णस्य कृति:' इत्यादौ कर्तृत्वादिकं संबन्धत्वेनैव रूपेण बोधयतीति मिश्रा इत्यर्थः । नियमपरतयेति - यद्यपि ' मातुः स्मरणम्' इत्यादौ शेष षष्ठी संभवतीति " अधीगर्थ " इतिसूत्रं व्यर्थमेव स्यात्तथापि अधीगर्थदयेशां योगे कर्मत्वस्यैव संबन्धत्वेन विषक्षायां षष्ठी स्यान्न तु कर्तृत्वादीनामपि संबन्धवेन विवक्षायामिति नियमे• नास्य सूत्रस्य वैयर्थ्य नास्तीत्यर्थः । यदि संबन्धत्वविशिष्टसंबन्धविवक्षायाम् = संबन्धत्वेन रूपेण संवन्धविवक्षायाम् " शेषे षष्ठी" इत्यस्य षष्ठीविधायकत्वं न स्यात् किं तु स्वत्वादिविशेषरूपेणैव संबन्धविवक्षायां षष्ठी विधायकत्वं स्यात्तदा 'मातुः स्मृतम्' इत्यत्र स्मरणकर्मभूतमातृवाचकमातृ
"Aho Shrutgyanam"
79
6