________________
( ५१२
सादर्श:
[ षष्टीविभक्तौ
LE
सनस्य विधित्वमेव स्यात् । अत एव च आमं शूद्रस्य पक्वान्नं पक्कमुच्छिष्टमुच्यते " इत्यत्र पक्कम् ' इत्यत्रानुषज्यमानायाः षष्ठ्याः संबन्धत्वेन कर्तृत्वमर्यो न तु स्वत्वम् - शूद्रकर्तृकवृषोत्सर्गे चरुहोमानुपपत्तेरितिं नवीनस्मार्तानां मतमप्युपपद्यते ।
66
न च तत्र कृद्योगा षष्ठी कर्तृत्वत्वेनैव बोधयतीति वाच्यम्, निष्ठायोगे तस्था निषेधात् । अत एव नाग्निस्तृप्यति काष्ठानां न पुंसां वामलोचना " इत्यादी करणत्वादेः संबन्धत्वेन विवक्षया षष्ठयुपपत्तिः, तृतीयादिविधिविषयतया विशेपरूपेण करणत्वादिसंबन्धविवक्षायां षष्ठयनुपपत्तेः ।
6
"
पदात् " शेषे षष्ठी " इत्यनेन षष्ठ्य संभवात् " अधीगर्थ " इत्यनुशासनस्य विधित्वमेव स्यान्न तूक्तनियमपरत्वम्, " शेषे " इत्यस्य संबन्धत्वेन रूपेण संबन्धविवक्षायां षष्ठीविधायकत्वे तु मातुः स्मृतम् ' इत्यत्रापि " शेषे " इत्यनेन षष्ठी संभवत्येवेति तत्र कर्मत्वेनैव रूपेण संबन्धविवक्षायामत्र षष्ठी स्यादिति नियमपरत्वम् " अधोगर्थ " इतिसूत्रस्य संभवतीत्यर्थः । अत एव = षष्ठ्याः संबन्धत्वेनैव रूपेण कर्तृत्वादिबोधकत्वादेव । " आमं शूद्रस्य पक्कान्नम् " इत्यत्र शूद्रस्येति षष्ठ्यर्थः स्वत्वं तथा च शूद्रनिरूपितस्वत्वाश्रयीभूतमाऽऽमान्नं पक्कान्नसदृशं विज्ञेयमिस्यर्थः, " पक्कमुच्छिष्टमुच्यते " इत्यत्रानुषज्यमानायाः शूद्रस्येति षष्ठ्याः कर्तृत्वमेवार्थो न तु स्वत्वं तथा च शूद्रकर्तृकपाकाश्रयीभूतम्-शूद्रेण पकमन्नमुच्छिष्टसदृशं विज्ञेयमित्यर्थः, नन्वत्रापि पूर्ववत् शूद्रस्येति षष्ठ्यर्थः स्वत्वमेव किं न स्यादित्यत्र हेतुमाह किं वात्र स्वत्वस्य षष्ठयर्थत्वाभावे हेतुमाह - शूद्रकर्तृकेति, शूद्रेण यदा वृषोत्सर्गः क्रियते तदा कोपि ब्राह्मणश्वरुं पक्त्वा तेन होमं करोति यदि ह्यत्र स्वत्वं षष्ठयर्थः स्यात्तदोक्तवचनस्य शूद्रनिरूपितस्वत्वाश्रयीभूतं पकमन्त्रमुच्छिष्टम् ' इतिवाक्यार्थः स्यात् शूद्रकर्तृकवृषोत्सर्गे च ब्राह्मणेनापि पकाने शूद्रस्वत्वस्य सत्त्वात् तादृशचरोरुच्छिष्टतुल्यत्वप्राप्या चरुहोमो नोपपद्येत भवति च शूद्रकर्तृकवृषोत्सर्गे ब्राह्मणेन पक्कचरुणा होम इति तदुपपत्त्यर्थमत्र द्वितीयपादेऽनुषज्यमानायाः शूद्रस्येति षष्ठ्याः कर्तृत्वमेवार्थो वक्तव्यस्तथा च ब्राह्मणेन पकचरौ शूद्रस्वत्वसत्त्वेपि शूद्रकर्तृकत्वाभावादुच्छिष्टतुल्यत्वं न प्राप्नोतीति तेन चरुणा होम उपपद्यते एवं हि नवीन स्मार्तानां मतम् = शूद्रकर्तृकवृषोत्सर्गे चरुहोमकरणमप्युपपद्यते इत्यर्थः । नवीनस्मार्तानाम् = रघुनाथभट्टाचार्याणाम् ।
“
25
शङ्कते - न चेति, कर्तृत्वत्वेनैव रूपेण कर्तृत्वं बोधयति न तु संबन्धत्वेनेत्यर्थः । तत्र = "" आमं शूद्रस्य इत्यत्र । परिहारमाह- निष्ठेति । तस्याः कर्तृषष्ठ्याः, पकपदघटकक्तप्रत्ययरूपनिष्ठायोगे “ न लोकाव्ययनिष्ठा " इत्यनेन कर्तृत्वादौ षष्टीनिषेवोस्तीति न कर्तृत्वत्वेन कर्तृत्वबोधकत्वं किं तु संबन्धत्वेनैवेत्यर्थः । अत एव = षष्ठ्याः कर्तृत्वादीनां संबन्धत्वेनैव बोधकत्वादेव । करणत्वादिविशेषरूपेण संबन्धविवक्षायां तु तृतीयैव स्यादिति ' काष्ठान पुंसाम् ' इति पष्ठी नोपपद्येतेत्यर्थः ।
" Aho Shrutgyanam"