________________
षष्ठयर्थविचारः व्युत्पत्तिवादः।
(५१३) अथ संबन्धत्वेन संबन्धस्य षष्ठीवाच्यत्वे — पुरुषस्य दण्डः ' इत्यादी 'दण्डस्य पुरुषः' इत्यादिरपि प्रयोगः स्यात् । एवम् 'दण्डी पुरुषः ' 'रूपवान् घटः' इत्यादिवत् दण्डरूपादे पुरुषघटाद्यनाधारत्वपि 'पुरुषी दण्डः । 'घटवद्रूपम् । इत्यादिः प्रयोगो दुर्वारः- “तदत्रास्ति' इत्यर्थे इव ' तदस्य' इत्यर्थेपि मतुपो विधानात्. · दण्डरूपादिपदोत्तरषष्ठया चैत्रघटादिनिष्ठतदर्थसंबन्धप्रतिपादने तदुत्तरमपि मत्वर्थीयस्य प्रसङ्गादिति चेत् ?, विशिष्य केषां चित्संबन्धानां षष्ठ्यर्थतोपगमेपि' घटस्य रूपम् ' इत्यादिप्रयोगानुरोधेन समवेतत्वादेः षष्ठ्यर्थताया आवश्यकत्वेन 'हस्तस्य चैत्रः' 'चैत्रवान् इस्तः । 'शाखाया वृक्षः' 'वृक्षवती शाखा' इति कथं न प्रयुज्यते ?, पूर्वप्रयोगाभावादिति समाधानं तु तुल्यम् ।
शङ्कते- अथेति, षष्ठयाः संबन्धत्वेनैव रूपेण संबन्धबोधकत्वे दण्डपुरुषयोः परस्परं संबन्वस्य समानत्वात् ' पुरुषस्य दण्डः । इत्यर्थे ' दण्डस्य पुरुषः । इत्यपि प्रयोगः स्यादेव, एवम् " तदस्यास्त्यस्मिन्निति मतुप्" इत्यनेन ' तदत्रास्ति ' इत्यर्थे इव —तदस्यास्ति । इत्यर्थेऽपि मतुविधीयते तत्र यथा 'रूपवान् घट: ' ' दण्डोस्त्यस्येति दण्डी पुरुषः' इति प्रयोगो भवति तथा पुरुषोस्त्यस्येति पुरुषी दण्डः ' 'घटवद्रूपम् ' इत्यादिरपि प्रयोगः स्यदेव षष्ठयाः संवन्धमात्रबोधकत्वात्, दण्डरूपादिपदोत्तरेति- यथा ' दण्डः पुरुषस्येति दण्डी ' इति भवति तथा दण्डादिपदोत्तरषष्ठया ' दण्डस्य पुरुष इति पुरुषी दण्डः, 'घटो रूपस्येति घटवद्रूपम् । इति स्यादेव तत्र चैत्रघटादिनिष्टो यस्तदर्थसंबन्धः दण्डरूपादीनां संबन्धस्तस्य षष्ठया प्रतिपादने तदुत्तरमपिः-पुरुषघटादिपदोत्तरमपि मत्वर्थीयप्रत्ययप्रसङ्गः स्यादेव, षष्ठया विशेषरूपेण संबन्धबोधकत्वे तु दण्डप्रतियोगिकपुरुषानुयोगिकसंयोगबोधकत्वात् ' दण्डी दण्डवान् पुरुषः । इत्येव प्रयोगः संभवति न तु 'पुरुषी दण्डः' इत्यादिरपि. एवं रूपप्रतियोमिकघटानुयोगिकसमवायबोधकत्वात् 'रूपी रूपवान् घटः । इत्येव प्रयोगः संभवति न तु 'घटवद्रूपम् । इत्यादिरपि- प्रतियोगिवाचकदण्डरूपादिपदोत्तरमेव मत्वर्थीप्रत्ययोत्पत्तेः स्वीकारादित्यर्थः । उत्तरमाह- विशिष्येति, यदि षष्ठया विशेषरूपेणैव संबन्धबोधकत्वं स्यात्तदा 'घटस्य रूपम् ' इत्यत्र घटसमवेतं रूपमिति बोधोदयाद् रूपे घटसमवेतत्वं प्रतीयते इति समवेतत्वमपि षष्ठ्यर्थः स्यादेव तथा च हस्ताद्यवयवेषु चैत्रस्यावयविनः समवेतत्वसिद्धान्तात् 'हस्तस्य चैत्रः ' ' चैत्रवान् हस्त: । इति कथं न प्रयुज्यते ? तस्य ' हस्तसमवेतश्चैत्रः ' इत्यर्थः स्यादेव. तथा वृक्षस्य शाखायां समवेतत्वात् ' शाखाया वृक्षः' 'वृक्षवती शाखा ' इति कथं न प्रयुज्यते ? इति प्रतिबन्धुत्तरम् । ननु — चैत्रस्य हस्तः' इत्यादिरेव पूर्वेषां प्रयोगोस्ति न तु ' हस्तस्य चैत्रः' इति तथा चार्थविरोधाभावेपि पूर्वप्रयोगामावादेव ' हस्तस्य चैत्रः। इत्यादि न प्रयुज्यते इत्याशक्याह- पूर्वप्रयोगेति । तुल्यमिति- एवमर्थ विरोधाभावपि पूर्वप्र
३३
"Aho Shrutgyanam'