________________
( ५१४ )
सादर्श:
[पष्टीकरणे
" "
नराणां क्षत्रियः शूरो नरेषु वा अध्वगानां रथगामिनः शीघ्रतरा अध्वगेषु वा गवां कृष्णा संपन्नक्षीरा गोषु वा ' इत्यादौ " यतश्च निर्धारम " इत्यनेन षष्ठीसप्तम्यौ विधीयेते. तदर्थश्च - ' जात्यादिविशेषणविशिष्टयद्धर्मावच्छिन्नस्य तादृश विशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्वविशिष्टविधेयवत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात् ' षष्ठीसप्तम्यौ' इति, प्रकृते च क्षत्रियत्वादिविशेषणविशिष्टे नरादौ तच्छून्यनरादिव्यावृत्तत्वेन शौर्यविशेषादिरूपविधेयसंबन्धोऽभिमत इति नरादिपदात् षष्ठी । नरेभ्यो राक्षसाः शूरतमाः इत्यादौ राक्षसत्वादिविशेषणविशिष्टे तच्छून्यनरादिव्यावृत्तशूरतमत्वविवक्षायायोगाभावादेव ' पुरुषी दण्ड: १ घटवद्रूपम् ' इत्यादिरपि न प्रयुज्यते इति तुल्यमेव ममापि समाधानमित्यर्थः ।
८
"
6
८
"
प्रयोगान्तरमुदाहरति- नराणामिति । अध्वगानाम् = गच्छताम् । शीघ्रतराः शीघ्रगामिनः । जात्यादीत्यादिपदेन क्रियागुणौ ग्राह्यौ क्षत्रिय इत्यत्र क्षभियत्वं जातिः, रथगामिन इत्यत्र गमनं क्रिया, कृष्णेत्यत्र कृष्णत्वं गुणः । सूत्रार्थमाह- तदर्थश्चेति, यथा नराणामित्यत्र - क्षत्रियत्वजातिरूपविशेषणविशिष्टस्य यद्धर्मावच्छिन्नस्य = नरत्वधर्मावच्छिन्नस्य तादृशविशेषणशून्यः-क्षत्रियत्वविशेषणशून्यो यस्तद्धर्मावच्छिन्न :- नरत्वधर्मावच्छिन्नो नरस्तद्व्यावृत्तत्वविशिष्टो यो विधेयः=शूरत्वं तद्वत्तया प्रतिपादनम् ( यद्धर्मावच्छिन्नस्य ) तद्धर्मावच्छिन्नार्थकपदात् तादृशनरत्वधर्मावच्छिन्नार्थकनरपदात् षष्ठीसप्तम्यौ भवत इति ' नराणां नरेषु वा क्षत्रियः शूरः ' इति सिद्धम्, नरेभ्यः शूरत्वेन रूपेण क्षत्रियस्य निर्धारणं पृथक्करणमस्तीति यावत् । अध्वगानामित्यत्र - रथकरणकगमनक्रियारूपविशेषणविशिष्टस्य यद्धर्मावच्छिन्नस्य = अध्वगत्यधर्मावच्छिन्नस्य तादृश= रथकरणकगमनक्रियारूपविशेषणशून्यो यस्तद्धर्मावच्छिन्नःअध्वगत्वधर्मावच्छिन्नोध्वगस्तद्व्यावृत्तत्वविशिष्टो यो विधेयः = शीघ्रतरत्वं तद्वत्तया प्रतिपादनं तद्धर्मावच्छिन्नार्थकपदात्= तादृशाध्वगस्वधर्मावच्छिन्नार्थकाऽध्वगपदात् षष्टीसप्तम्याविति ' अध्वगानामध्वगेषु वा रथगामिनः शीघ्रतरा:' इति सिद्धम् । गवामित्यत्र - कृष्णत्वगुणरूपविशेषणविशिष्टाया यद्धर्मावच्छिन्नायाः = गोलधर्मावच्छिन्नायास्तादृश = कृष्णत्वविशेषणशून्या या तद्धर्मावच्छिन्ना = गोत्वधर्मावच्छिन्ना गौस्तद्व्यावृत्तत्वविशिष्टो यो विधेयः = संपन्नक्षीरत्वं तद्वत्तया प्रतिपादनं ( यद्धर्मावच्छिन्नस्य ) तद्धर्मावच्छिन्नार्थकपदात्-तादृशगोत्वधर्मावच्छिन्नार्थकगोपदात् षष्ठीसप्तम्याविति ' गवां गोषु वा कृष्णा संपन्नक्षीरा' इति सिद्धम् । उक्तार्थमुदाहरणे समनुगमयति- प्रकृत इति । तच्छून्य क्षत्रियत्वादिशून्य । उक्तरूपनिर्धारणे सत्यपि ' नराणां नरेषु वा राक्षसाः शूरतमाः इतिप्रयोगो न भवति - येभ्यो नरेभ्यो राक्षसानां पृथक्करणं विवक्षितमस्ति तेषु राक्षसेषु क्षत्रियेष्वित्र नरत्वं सामान्यधर्मो नास्तीत्याह- नरेभ्य इतेि, तथा च पञ्चम्या 'नरेभ्यो राक्षसाः शूरतमाः इत्येव प्रयोगो भवतीत्यर्थः । षष्ठीसंपादकोक्तनिर्धारणाभावमाह- राक्षसत्वा
2
7
"Aho Shrutgyanam"