________________
यतश्वनिर्धारणमितिसूत्रम् ]
व्युत्पत्तिवादः ।
( ५१५
मपि न निरुक्तनिर्धारणम्- राक्षसत्वादिविशिष्टस्य नरत्वादिरूपसामान्यधनवच्छिन्नत्वात् ।
' नराणां क्षत्रियः शूरतमः ' इत्यादी क्षत्रियादिनिष्ठशूरतमत्वादौ नरादिसामान्यव्यावृत्तत्वबाधाच्छून्यत्वान्तं व्यावृत्त्यवधेर्विशेषणम् । तद्धर्माश्रययत्किंचिद्व्यक्तिव्यावृत्तत्वविवक्षणे 'द्रव्येषु घटो गन्धवान्' इत्यपि स्यात् गन्धादेकचिद्रव्यव्यक्तिव्यावृत्तत्वात् । तादृशविशेषणशून्यसामान्यव्यावृत्तत्वनिवेशे 'नराणां क्षत्रियः शूरतमः ' इत्यादावेव तदसंभव:- शूरतमत्वादेः क्षत्रियत्वादिशू - न्यराक्षसाद्यव्यावृत्तत्वात् अतस्तद्धर्मावच्छिन्नेति ।
दीति । तच्छून्य = राक्षसत्वादिशून्य । उक्तनिर्धारणाभावे हेतुमाह- राक्षसत्यादिविशिस्येति । तथा च सामान्यधर्मावच्छिन्नत्वे सति किंचिद्विशेषधर्मावच्छिन्नस्य सामान्यधर्मावच्छिन्नेभ्यो यत्र पृथक्करण विवक्ष्यते तत्र षष्ठीसप्तम्यौ भवतो यथा नरेभ्यः क्षत्रियस्य पृथक्करणे इत्यर्थः ।
उक्तसूत्रार्थघटकपदार्थानां सार्थक्यमाह--नराणामिति । यदि “ तादृशविशेषणशून्यतद्धर्मावच्छिन्न व्यावृत्तत्वविशिष्टविधेयवत्तया " इत्यत्र तादृशविशेषणशून्य " इति नोच्येत तदा विधेये शूरतमत्वे नरत्वावच्छिन्नसामान्यव्यावृत्तत्वं प्राप्नुयात् तत्तु न संभवति नरत्वधर्मावच्छिन्ने एव क्षत्रिये शूरतमत्वस्य विवक्षितत्वादिति शून्यत्वान्तम् = " तादृश ( क्षत्रियत्वादि ) विशेषणशून्य " इति व्यावृत्त्यवधिभूतस्य नरत्वावच्छिन्नस्य विशेषणमुपात्तं तथा च क्षत्रियत्वशून्यनरे सूरतमत्वं नास्तीति विधेये शूरतमत्वे क्षत्रियत्वशून्यनरव्यावृत्तत्वस्य बाधो नास्तीत्यर्थः । अत्र शूरतमत्वे क्षत्रियान्यनरापेक्षया व्यावृत्तत्वं विवक्षितमस्तीति नरस्य व्यावृत्त्यवधित्वं ज्ञेयम् । तद्धर्माश्र येति - यदि “ तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्व" इत्यत्र "तद्धर्मावच्छिन्न" इति नोध्येत तदा विवेये तादृशविशेषणशून्यं यत् किंचिद्व्यक्तिमात्रव्यावृत्तत्वं लभ्येत तथा च ' द्रव्येषु घटो गन्धवान् ' इत्यपि प्रयोगः स्यात्- विधेये गन्धे यत्किंचिद्द्रव्यव्यक्तिर्यदाऽऽकाशादिकं तद्द्व्यावृत्तत्वस्य == तदऽवृत्तित्वस्य सत्त्वात् न चैतदिष्टमिति " तद्धर्मावच्छिन्न " इत्युक्तं तथा च गन्धे द्रव्यत्वावच्छिन्नन्यावृत्तत्वं नास्ति घटादिपार्थिवद्रव्यमात्रे गन्धस्य सत्त्वादिति ' द्रव्येषु घटो -यन्धवान् ' इति प्रयोगापत्तिर्नास्तीत्यर्थः । तादृशविशेषणेति- यदि “ तादृशविशेषणशून्यतद्धर्मावच्छिन्नव्यावृत्तत्व : 77 इत्यस्य स्थाने तादृश ( क्षत्रियत्वादि ) विशेषणशून्यसामान्य ( यावन्मात्र ) व्यावृत्तत्व " इत्युच्येत तदा विधेये शूरतमत्वे क्षत्रियभिन्नव्यक्तिमात्रव्यावृत्तत्वं प्राप्नुयात् तथा च नराणां क्षत्रियः शूरतमः ऐव स्यात् - शूरतमस्त्रादेः क्षत्रियभिन्नराक्षसादावपि सत्त्वेन क्षत्रियत्वादिशून्य राक्षसाद्यव्यावृतत्त्रात् तस्मात् " तद्धर्मावच्छिन्न " इत्युक्तं तथा च क्षत्रियत्वशून्यो यो नरत्वधर्मावच्छिन्नो नरस्तद्व्यावृत्तत्वं शूरतमत्वेऽस्त्येवेति नासंभव इत्यर्थः । अत्र इत्युक्तम् ' इति शेषः 1
८
3
इत्यत्राप्युक्तसूत्रार्थसमन्त्रयस्यासंभव
66
26
"Aho Shrutgyanam"