________________
(५१६)
सादर्श:
[ षष्ठीप्रकरणेअथ विधेये जात्यादिविशेषणशून्यसाधारणधर्मावच्छिन्नान्वितं व्यावृत्तत्वं साधारणधर्मावच्छिन्नवाचकपदोत्तरषष्ठचादरेवार्थों वाच्यस्तावता च नरत्वादिरूपसाधारणधर्मावच्छिन्नव्यावृत्तत्वस्यैव लाभ: संभवति न तु क्षत्रियत्वादिशून्यत्व. विशेषितनरादिव्यावृत्तत्वस्य-प्रकृत्यर्थे नरादौ तादृशविशेषणशून्यत्वबोधकाभावात् । न च षष्ट्या एव तदर्थः-शत्त्यानन्त्यप्रसङ्गात् ।
न च भेद एव षष्ठ्यर्थस्तत्र च क्षत्रियादिपदार्थस्य प्रतियोगित्वेनाऽन्वयात् क्षत्रियाद्यन्यनरादिव्यावृत्तत्वलाभः शक्तिभेदं विनैवेति वाच्यम्, एवमपि संख्यातिरिक्तविभक्त्यर्थस्य प्रकृत्यर्थविशेष्यतयैव भानमिति व्युत्पत्तिविरोधाऽपरिहारात् । ' नरेषु क्षत्रियाणामेव शौर्यम् ' इत्यादौ क्षत्रियादेविभक्त्यर्थविशेषणतयोपस्थितस्य भेद विशेषणतया भानोपगमे व्युत्पत्त्यन्तरविरोधाच्च । अस्तु लक्ष
शङ्कते- अथेति, क्षत्रियत्वादिजातिरूपविशेषणशून्यो यः साधारणधर्मावच्छिन्ना-नरत्व. धर्मावच्छिन्नो वैश्यादिस्तदन्धितम् निरूपितत्वसंबन्धेन तद्विशिष्टम् (व्यावृत्तत्वस्यास्योक्तवैश्यादिनिरूपितत्वात् । व्यावृत्तत्वं यदा विधेये वर्तते तत् साधारणधर्मावच्छिन्नवाचकनरपदोत्तरषष्ठीसप्तम्योरेधार्थ इति वक्तव्यम् एवं हि विधेये शूरतमत्वे नरत्वादिरूपसामान्यधर्मावच्छिन्नाद् व्यावृत्तत्वं लभ्यते न तु क्षत्रियत्वादिशून्यनरत्वधर्मावच्छिन्नव्यावृत्तत्वम्- प्रकृत्यर्थे षष्टीप्रकृत्यर्थभूतनरे तादृशविशेषग=क्षत्रियत्वविशेषणशून्यत्वबोधकपदाभावात्, न च नरत्वरूपसामान्यधर्मावच्छितव्यावृत्तत्वं शूरतमत्वे संभवति शूरतमत्वस्य नरत्वरूपसामान्यधर्मावच्छिन्ने एवं क्षत्रिये सत्त्वाद् विवक्षितत्वाचेत्यर्थः । ननु नरत्वधर्मावच्छिन्नविशेषणीभूतं क्षत्रियत्वादिशून्यत्वं षष्ठया एवार्थ इत्याशझ्याह- न चेति । परिहारहेतुमाह-शक्त्येति, एवंहि क्षत्रियत्वादिधर्माणामनन्तत्वात षष्ठयाः शक्त्यानन्त्यं स्यादित्यर्थः ।
नन्वत्र नरपदोत्तरषष्ठया भेद एवार्थस्तत्र षष्ठ्यर्थभूतभेदे क्षत्रियस्य प्रतियोगित्वेन रूपेणान्वयः क्षत्रियप्रतियोगिकस्यैव भेदस्य षष्ठयर्थत्वेन विवक्षितत्वात् तथा च क्षत्रियप्रतियोगिकभेदविशिष्टो यो नरस्तव्यावृत्तं शूरतमत्वमित्येवं शूरतमत्वे क्षत्रियान्यनरव्यावृत्तत्वं लभ्यते न चापि शक्त्यानन्त्यम्-भेदत्वावच्छिन्ने एव षष्ठयाः शक्तिस्वीकारादित्याशङ्कयाह-न चेति । अत्रापि दोषमाह-- एवमपीति, विभक्त्यर्थसंख्याया एव प्रकृत्यर्थे विशेषणत्वेनान्वयो भवति न तु संख्यातिरितस्यापि विभक्त्यर्थस्येति व्युत्पत्तिरस्ति या तस्या विरोध एवं प्राप्तः-- अत्र षष्ठयर्थस्य भेदस्य प्रकृत्यर्थे नरे विशेषणत्वेनान्वयस्य जातत्वादित्यर्थः । किं चात्र क्षत्रियप्रतियोगिकभेदे क्षत्रियस्य विशेषणत्वं यथास्ति तथा ' नरेषु क्षत्रियाणामेव शौर्यम् ' इत्यत्रोक्तनरपदोत्तरषष्ठीसमानार्थकत्वात् सप्तम्या अपि क्षत्रियप्रतियोगिकभेद एवार्थः स्यादिति तत्रापि क्षत्रियस्य क्षत्रियपदोत्त. रपष्टयर्थविशेषणतयोपस्थितस्यैव नरपदोत्तरसप्तम्यर्थभेदे विशेषणत्वेनान्वयः कर्तव्यस्तत्र च
"Aho Shrutgyanam"