________________
पतश्च निर्धारणमितिसूत्रम् ] व्युत्पत्तिवादः। णया नरादिपदादेव क्षत्रियान्यनरत्वादिविशेषरूपेणोपस्थितिरितिचेत ?, अस्तु ।
व्यावृत्तत्वं किं तावत् कुत्र वा तदन्वयः ? । व्यावृत्तत्वं तदवृत्तित्वं शूरतमादिपदोपस्थापिते धर्मे: तदन्वय इति चेत् ?, न-पदार्थतावच्छेदकेन पदार्थान्तराऽनन्वयात् , ' पदार्थानां जातिमति सत्ता' इत्यादौ जातिमदन्यपदार्थवृत्तित्वसामान्याभावस्थ सत्तादौ वारितत्वाद. तादृशपदार्थसमवेतत्वाद्यभावस्य चाऽप्रसिदेयावृत्तिबोधासंभवाच्च । एवम्- 'द्रव्येषु कम्बुग्रीवादिमान् घटः' इत्यादौ घटत्वादिधर्मस्याऽन्वयितावच्छेदकरूपेणानुपस्थितत्वात् तत्र व्यावृत्तत्वान्वयबोधो दुर्घट इति । " एकत्र विशेषणत्वेनोपस्थितस्यान्यत्र विशेषणत्वेनान्वयोऽव्युत्पन्नः " इतिव्युत्पत्तिविरोध: स्यादित्यर्थः । ननु ययुक्तरीत्या भेदः षष्ठ्यर्थो नोपपद्यते तदा नरे क्षत्रियान्यत्वलाभार्थ नरपदस्येव क्षत्रियान्यनरे लक्षणां वक्ष्याम इति क्षत्रियान्यनरव्यावृत्तत्वं शूरतमत्वे विधेये नानुपपनमित्याशङ्कते- अस्त्विति । एनं पक्षं विषयान्तरोपस्थापनार्थ स्वीकरोति- अस्त्विति ।। .. व्यावृत्तस्वस्य स्वरूपमाश्रयं चेदानीं पृच्छति-- व्यावृत्तत्वमिति । व्यावृत्तत्वस्वरूपमाह- व्यावृतत्वमिति । तदवृत्तित्वम्-तस्मिन्नरादावऽवृत्तित्वमेव तव्यावृत्तत्वम् । तस्याश्रयमाह- शूरेति । धर्मेशूरतमत्वादौ । परिहरति- नेति, " पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन" इतिव्युत्पत्त्यनुरोधेन पदार्थतावच्छेदकीभूते पदार्थैकदेशे शूरतमत्चे पदार्थान्तरस्य षष्ठयर्थभूतव्यावृ. 'तत्वस्यान्वयो न संभवतीत्यर्थः । उक्त विनिगमनामाह- पदार्थानामिति, “पदार्थानां जातिमति सत्ता । इत्यस्याप्युक्तोदाहरणतुल्यस्वादत्रापि व्यावृत्तत्वमेव षष्टयर्थोस्ति तत्र जातिमत्यदादार्थस्य पदार्थतावच्छेदकीभूतायां सत्तायां जातिमदन्यपदार्थवृत्तित्वसामान्यामावस्य-जातिमदन्यपदार्थव्यावृत्तत्वस्य षष्ठयर्थस्थान्वयो वारितः. यदि पदार्थतावच्छेदकेपि पदार्थान्तरान्वयः स्यात्तदा तद्वारणं नोपपद्यतेत्यर्थः । ननूक्तव्युत्पत्तिविरोधमुपेक्ष्य वयं तत्रापि सत्तायां जातिमदन्यपदार्थव्यावृत्तत्वस्यान्वयं करिष्याम इत्याशङ्याऽसंभवमाह- तादृशपदार्थेति, सत्ताया जातिमदन्यसामान्यादिपदार्थे समवायसंबन्धावच्छिन्नप्रतियोगिताक एव वृत्तित्वाभावो वक्तव्यः स च न संभवति-- जातिमदन्यसामान्यादौ समवायसंबन्धेन किंचिद्वृत्तित्वस्यैवाऽप्रसिद्धत्वात् तथा च व्यावृत्तिबोधासंभव एव, असंभविपदार्थप्रतिपादनाऽसंभवादित्यर्थः । दोषान्तरमाह-एवमिति, 'द्रव्येषु कम्बुप्रीवादिमान् घटः । इत्यत्र कम्बुग्रीवादिमत्त्वमुद्दिश्य घटत्वं विधीयते इति द्रव्य'पदोत्तरसप्तम्यर्थस्य व्यावृत्तत्वस्य विधेये घटत्वे एवान्वयः कर्तव्यः सोपि न संभवति- घटत्वस्यात्र स्वरूपेणवोपस्थितत्वेन अन्वयितावच्छेदकरूपेण-घटत्वत्वेन रूपेणानुपस्थितत्वात् पदार्थान्तरनिष्ठप्रकारतानिरूपितविशेष्यतासंबन्धेन शाब्दबुद्धिवावच्छिन्नं प्रत्यन्वयितावच्छेदकरूपेणोपस्थितेः कारणात्वादित्यर्थः । अत्र हि 'कम्युग्रीवादिमदन्यद्रव्यव्यावृत्तं घटत्वम् ' इति, शाब्दबोधो विज्ञेयः ।
"Aho Shrutgyanam"